एकवचनं संबुद्धिः

2-3-49 एकवचनं सम्बुद्धिः अनभिहिते प्रथमा सम्बोधने च

Sampurna sutra

Up

सम्बोधने प्रथमा-एकवचनम् सम्बुद्धिः

Neelesh Sanskrit Brief

Up

सम्बोधने प्रथमायाः एकवचनम् सम्बुद्धि-संज्ञकं भवति ।

Neelesh English Brief

Up

The प्रथमा-एकवचन when used in the context of सम्बोधन gets the term 'सम्बुद्धि'.

Kashika

Up

आमन्त्रितप्रथमाया यदेकवचनं तत् संबुद्धिसंज्ञं भवति। हे पटो। हे देवदत्त। संबुद्धिप्रदेशाः — <<एङ्ह्रस्वात् संबुद्धेः>> ६.१.६९ इत्येवमादयः॥

Siddhanta Kaumudi

Up

संबोधने प्रथमाया एकवचनं संबुद्धिसंज्ञं स्यात् ॥

Laghu Siddhanta Kaumudi

Up

सम्बोधने प्रथमाया एकवचनं सम्बुद्धिसंज्ञं स्यात्॥

Neelesh Sanskrit Detailed

Up

<<सम्बोधने च>> 2.3.47 इत्यनेन प्रथमा-विभक्तेः प्रयोगः सम्बोधनस्य विषये अपि भवति । अस्मिन्नेव सन्दर्भे प्रथमा-एकवचनस्य सुँ-प्रत्ययः यदा सम्बोधनार्थम् प्रयुज्यते, तदा तस्य 'सम्बुद्धिः' इति संज्ञा भवति । यथा - 'बाल' शब्दस्य सम्बोधनैकवचनस्य रूपम् एवम् सिद्ध्यति - बाल + सुँ [<<सम्बोधने च>> 2.3.47 इत्यनेन सम्बोधनस्य विवक्षायाम् प्रथमा । <<स्वौजस्...>> 4.1.2 इत्यनेन प्रथमैकवचनस्य विवक्षायाम् सुँ-प्रत्ययः] → बाल [<<एङ्ह्रस्वात्सम्बुद्धेः>> 6.1.69 इत्यनेन सम्बुद्धिवाचकस्य सुँ-प्रत्ययस्य लोपः] सम्बुद्धि-संज्ञायाः प्रयोगः <<एङ्ह्रस्वात्सम्बुद्धेः>> 6.1.69, <<सर्वनामस्थाने चासम्बुद्धौ>> 6.4.8 एतादृशेषु सूत्रेषु कृतः दृश्यते ।

Balamanorama

Up

<<एकवचनं संबुद्धिः>> - हे रामसिति स्थिते,एङ्ह्रस्वात्संबुद्धेः॑ इति लोपं विधास्यन् संबुद्धिसंज्ञामाह — एकवचनम् ।प्रातिपदिकार्थलिङ्गे॑त्यतःप्रथमे॑त्यनुवृत्तं षष्ठआ विपरिणम्यते ।संबोधने चे॑त्यतः संबोधने इत्यनुवर्तते । तदाह-संबोधने इति ।सुः संबुद्धि॑रित्येव सुवचम् । प्रथमाग्रहणानुवृत्तेः सप्तमीबहुवचनस्य सुपो न ग्रहणम् । नचात्र प्रत्ययग्रहणपरिभाषया तदन्तग्रहणं शङ्क्यम् । 'ह्रस्वस्य गुणः' इति संबुद्धौ परतोऽङ्गस्य गुणविधिबलात्, संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिनिषेधाच्च । एतेन तदन्तसंज्ञानिवृत्त्यर्थमेकवचनग्रहणमित्यपास्तम् ।

Padamanjari

Up

एकवचनं संबुद्धिः॥ हे पटो इति। संबुद्धौ च'ह्रस्वस्य गुणः' इति गुणः,'सुः संबुद्धिः' इति वक्तव्ये एकवचनग्रहणमेकोऽर्थ उच्यते येन तावन्मात्रस्य प्रत्ययस्य संज्ञार्थम्; अग्न्यथा प्रक्रमाभेदाय तदन्तस्य स्यात्॥