5-4-92 गोः अतद्वितलुकि प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य टच्
तत्पुरुषस्य गोः अ-तद्धित-लुकि टच्
यः तत्पुरुषसमासः तद्धितलुग्भिन्नः अस्ति, यस्मिन् 'गो' इति शब्दः उत्तरपदरूपेण विधीयते, तस्मात् टच् इति समासान्तप्रत्ययः भवति ।
गोशब्दान्तात् तत्पुरुषात् टच् प्रत्ययो भवति, स चेत् तत्पुरुषस्तद्धितलुग्विषयो न भवति। परमगवः। उत्तमगवः। पञ्चगवम्। दशगवम्। अतद्धितलुकीति किम्? पञ्चभिर्गोभिः क्रीतः पञ्चगुः। दशगुः। <<तेन क्रीतम्>> ५.१.३७ इत्यागतस्यार्हीयस्य ठको <<अध्यर्धपूर्वद्विगोः०>> ५.१.२८ इति लुक् । तद्धितग्रहणं किम् ? सुब्लुकि प्रतिषेधो मा भूत्। राजगवमिच्छति राजगवीयति। लुग्ग्रहणं किम् ? तद्धित एव मा भूत्। पञ्चभ्यो गोभ्य आगतं पञ्चगवरूप्यम्। पञ्चगवमयम्। दशगवरूप्यम्। दशगवमयम्॥
गोन्तात्तत्पुरुषाट्टच् स्यात् समासान्तो न तद्धितलुकि । पञ्चगवधनः ॥
गोऽन्तात्तत्पुरुषाट्टच् स्यात् समासान्तो न तु तद्धितलुकि। पञ्चगवधनः॥
यस्मिन् तत्पुरुषसमासे 'गो' इति शब्दः उत्तरपदरूपेण विद्यते, तथा च यत्र तद्धितप्रत्ययस्य लुक् न भवति, तत्र 'टच्' इति समासान्तप्रत्ययः विधीयते । कानिचन उदाहरणानि पश्यामश्चेत् सूत्रार्थः स्पष्टः स्यात् । 1. परमश्च असौ गौः [<<सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः>> 2.1.61 इति कर्मधारयसमासः] = परम + गो + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → परम + गव् + अ [<<एचोऽयवायावः>> 6.1.78 इति अवादेशः] → परमगव अत्र प्रक्रियायाम् टच्-प्रत्ययात् पूर्वम् कोऽपि अन्यः तद्धितप्रत्ययः नैव विधीयते, अतः तद्धितलुक् अप्यत्र न सम्भवति । अतः अत्र टच्-प्रत्ययः भवत्येव । एवमेव 'उत्तमश्चासौ गौ उत्तमगवः' इत्यपि सिद्ध्यति । 2. पञ्चानां गवां समाहारः [<<तद्धितार्थोत्तरपदसमाहारे च>> 2.1.51 इति द्विगुसमासः] → पञ्चन् + गो + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → पञ्चन् + गव् + अ [<<एचोऽयवायावः>> 6.1.78 इति अवादेशः] → पञ्च + गव् + अ [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारलोपः] → पञ्चगव पञ्चानां गवां समाहारः पञ्चगवम् । एवमेव - सप्तगवम्, दशगवम् एतादृशाः शब्दाः अपि सिद्ध्यन्ति । अत्रापि प्रक्रियायाम् टच्-प्रत्ययात् पूर्वम् कोऽपि अन्यः तद्धितप्रत्ययः नैव विधीयते, अतः तद्धितलुक् अप्यत्र न सम्भवति । अतः अत्र टच्-प्रत्ययः भवत्येव । 3. पञ्चभ्यः गोभ्यः आगतम् पञ्चन् + गो + रूप्य [<<ततः आगतः>> अस्मिन्नर्थे <<हेतुमनुष्येभ्यः रूप्यः>> 4.3.81 इत्यनेन रूप्य-प्रत्ययः । <<तद्धितार्थोत्तरपदसमाहारे च>> 2.1.51 इति तद्धितप्रत्ययस्य विषये द्विगुसमासः] → पञ्चन् + गो + टच् + रूप्य [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः । अयम् प्रत्ययः तद्धितप्रत्ययात् पूर्वम् विधीयते यतः समासः तु 'पञ्चन् + गो' इत्यस्यैव भवति । रूप्य-प्रत्ययः केवलम् समासनिमित्तकः अस्ति, समासस्य अवयवः न ।] → पञ्चन् + गव् + अ + रूप्य [<<एचोऽयवायावः>> 6.1.78 इति अवादेशः] → पञ्च + गव + रूप्य [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारलोपः] → पञ्चगवरूप्य पञ्चभ्यः गोभ्यः आगतम् पञ्चगवरूप्यम् । अत्र प्रक्रियायाम् 'रूप्य' इति तद्धितप्रत्ययः विधीयते, परन्तु तस्य लोपः नैव क्रियते (<<द्विगोर्लुगनपत्ये>> 4.1.88 इत्यस्य प्रसक्तिः अत्र न विद्यते यतः अत्र 'रूप्य' इति अजादिप्रत्ययः नास्ति) । अतः अत्र 'टच्' इति समासान्तप्रत्ययः अवश्यं कर्तव्यः । 4. षड्भ्यः गोभ्यः आगतम् = षष् + गो + मयट् [<<ततः आगतः>> अस्मिन्नर्थे <<मयट् च>> 4.3.81 इत्यनेन रूप्य-प्रत्ययः । <<तद्धितार्थोत्तरपदसमाहारे च>> 2.1.51 इति तद्धितप्रत्ययस्य विषये द्विगुसमासः] → षष् + गो + टच् + मय [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः । अयम् प्रत्ययः तद्धितप्रत्ययात् पूर्वम् विधीयते यतः समासः तु 'षष् + गो' इत्यस्यैव भवति । मयट्-प्रत्ययः केवलम् समासनिमित्तकः अस्ति, समासस्य अवयवः न ।] → षष् + गव् + अ + मय [<<एचोऽयवायावः>> 6.1.78 इति अवादेशः] → षड् + गव् + अ + मय [पदान्तषकारस्य <<झलां जशोऽन्ते>> 8.2.29 इति जश्त्वे डकारः] → षड्गवमय । षड्भ्यः गोभ्यः आगतम् षड्गवमयम् । अत्र प्रक्रियायाम् 'मयट्' इति तद्धितप्रत्ययः विधीयते, परन्तु तस्य लोपः नैव क्रियते । अतः अत्र 'टच्' इति समासान्तप्रत्ययः अवश्यं कर्तव्यः । 5. पञ्चभिः गोभिः क्रीतम् पञ्चन् + गो + ठक् [<<आर्हादगोपुच्छसङ्ख्यापरिमाणात् ठक्>> 5.1.19 इति ठक्-प्रत्ययः । <<तद्धितार्थोत्तरपदसमाहारे च>> 2.1.51 इति तद्धितप्रत्ययस्य विषये द्विगुसमासः] → पञ्चन् + गो [<<अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्>> 5.1.28 इति द्विगुसमासस्य विषये विहितस्य आर्हीय-प्रत्ययस्य लुक्] → पञ्च + गु [<<प्रथमानिर्दिष्टं समास उपसर्जनम्>> 1.2.43 इत्यनेन 'गो' शब्दस्य उपसर्जनसंज्ञा । <<गोस्त्रियोरुपसर्जनस्य>> 1.2.48 इति ह्रस्वादेशः] → पञ्चगु । पञ्चभिः गोभिः क्रीतम् तत पञ्चगु । अत्र वस्तुतः तत्पुरुषसमासः एव भवति, परन्तु प्रक्रियायाम् 'ठक्' इति समासनिमित्तकस्य तद्धितप्रत्ययस्य लुक् क्रियते । अतः अत्र वर्तमानसूत्रेण समासान्तप्रत्ययः न भवति । विशेषः - यदि तद्धितभिन्नस्य प्रत्ययस्य लुक् भवति तदा अनेन सूत्रेण उक्तः निषेधः नैव प्रयुज्यते (इत्युक्ते, टच्-प्रत्ययः तत्र भवत्येव) । यथा - 'राज्ञः गाम् आत्मानम् इच्छति' इत्यत्र <<सुपः आत्मनः क्यच्>> 3.1.8 इत्यनेन 'राजन् + गो + टच् + अम् + क्यच्' इति स्थिते <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इत्यनेन 'अम्' प्रत्ययस्य लोपः भवति । परन्तु अयमम्-प्रत्ययः सुप्-प्रत्ययः अस्ति, न हि तद्धितप्रत्ययः, अतः अत्र टच्-प्रत्ययः अवश्यम् कर्तव्यः । टच्-प्रत्यये कृते अग्रे अन्यां प्रक्रियां कृत्वा अत्र 'राजगवीयम्' इति रूपम् सिद्ध्यति ।
<<गोरतद्धितलुकि>> - गोरतद्धितलुकि ।तत्पुरुषस्याङ्गुले॑रित्यतस्तत्पुरुषस्येत्यनुवृत्तं पञ्चम्या विपरिणतं गोरित्यनेन विशेष्यते । तदन्तविधिः ।॒राजाहः सखिभ्यः॑ इत्यतष्टजित्यनुवर्तते । 'समासान्त' इत्यधिकृतम् । तदाह — गोऽन्तादित्यादिना । अतद्धितलुकीति किम् । पञ्चभिर्गोभिः क्रीतः पञ्चगुः । अत्र तद्धितस्यअध्यर्धे॑ति लुक् । पञ्चगवधन इति । त्रिपदबहुव्रीहौ कृते सति धनशब्दे उत्तरपदे परे पूर्वयोस्तत्पुरुषे टचि अवादेश इति भावः । अत्रद्वन्द्वतत्पुरुषयो॑रिति वार्तिके द्वन्द्वस्योदाहरणं तु वाक् च त्वक् च प्रिया यस्य स वाक्त्वचप्रिय इति बोध्यम् । इह त्रिपदबहुव्रीहौ कृते पूर्वयोर्नित्यद्वन्द्वः । तेनद्वन्द्वाच्चुदषहान्तात्समाहारे॑ इति टजपि नित्य एव । न च वाक्त्वक्छब्दयोः परस्परसामानाधिकरण्याऽभावात्कथमिह त्रिपदबहुव्रीहिरिति वाच्यं, द्वयोः प्रियाशब्दसामानाधिकरण्यमादाय तदुपपत्तेः । सप्तमीविशेषणे बहुव्रीहौ॑ इति ज्ञापकेन 'कण्ठेकाल' इत्यादाविव व्यधिकरणबहुव्रीहिसंभवाच्च । 'वाक्त्वचप्रियः' इति भाष्ये उदाहरणमेवात्र लिङ्गमित्यलम् । अथ समाहारे उदाहर्तुं विग्रहं दर्शयति — पञ्चानां गवां समाहार इति ।
पञ्चगवामिति। समाहारे द्विगुः, पञ्चगुरित्यत्र तद्वितार्थे। पञ्चगवरूप्यम्, पञ्चगवमयमिति। यथात्र'द्विगोर्लुगनपत्ये' इति रूप्यमयटोर्लुग्न भवति तथा तत्रैवोक्तम् ॥