5-4-93 अग्राख्यायाम् उरसः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समासान्ताः तत्पुरुषस्य टच्
अग्र-आख्यायाम् तत्पुरुषस्य उरसः टच्
यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण 'अग्रः' अस्मिन् अर्थे 'उरस्' शब्दः विधीयते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति ।
उरःशब्दान्तात् तत्पुरुषात् टच् प्रत्ययो भवति, स चेदुरःशब्दोऽग्राख्यायां भवति। अग्रं प्रधानमुच्यते। यथा शरीरावयवानामुच्यत उरः प्रधानम्, एवमन्योऽपि प्रधानभूत उरःशब्देनोच्यते। अश्वानामुरः अश्वोरसम्। हस्त्युरसम्। रथोरसम्। अग्राख्यायामिति किम् ? देवदत्तस्योरः देवदत्तोरः॥
टच् स्यात् । अश्वानामुर इव अश्वोरसम् । मुख्योऽश्व इत्यर्थः ॥
'उरस्' इति शब्दः 'अग्रः' (= प्रमुखः, प्रधानः, मुख्यः) अस्मिन् अर्थे यदा तत्पुरुषसमासस्य उत्तरपदरूपेण विधीयते, तदा तस्मात् तत्पुरुषसमासात् 'टच्' इति समासान्तप्रत्ययः भवति । यथा - अश्वानाम् उरः [<<षष्ठी>> 2.2.8 इति तत्पुरुषसमासः] → अश्व + उरस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → अश्वोरस् + अ [<<आद्गुणः>> 6.1.87 इति गुण-एकादेशः] → अश्वोरस अश्वानामुरः अश्वोरसम् । एवमेव - हस्तिनामुरः हस्त्युरसम् । रथानामुरः रथोरसम् । यत्र उरस्-शब्दः अन्येषु अर्थेषु प्रयुज्यते, तत्र अस्य सूत्रस्य प्रयोगः न भवति । यथा - देवदत्तस्य उरः देवदत्तोरः । अत्र 'उरस्' शब्दः 'वक्षः' (chest) अस्मिन् अर्थे प्रयुक्तः अस्ति, अतः अत्र 'टच्' प्रत्ययः न भवति ।
<<अग्राख्यायामुरसः>> - अग्राख्याया । शेषपूरणेन सूत्रं व्याचष्टे — टच् स्यादिति । पञ्चम्यर्थे सप्तमी । अग्रं प्रधानं, तद्वाची य उपश्शब्दस्तदन्तात्तत्पुरुषाट्टाच्स्यादित्यर्थः ।अग्नाख्याया॑मिति पाठान्तरम् । अग्रे भवमग्रयं । मुख्यमिति यावत् । अआआनामुर इवेति । उरो यथा प्रधानं तथेत्यर्थः । उपश्शब्दस्य मुख्ये वृत्तौ लक्षणाबीजमिदम् । अआओरसमिति । उरश्शब्देन मुख्यवाचिना षष्ठीसमासः । टच् । 'परल्लिङ्गम्' इति नपुंसकत्वम् । अग्राख्यायामिति किं । देवदत्तस्योरः देवदत्तोरः ।
ठग्राख्यायाम्ऽ इति पञ्चम्यर्थे सप्तमी, पञ्चम्यन्तेनोरः शब्देन सामानाधिकरण्यात्। सामानाधिकरण्यं तु'स चेदुरःशब्दः' इत्यादिना दर्शितम् ॥