द्विगोर्लुगनपत्ये

4-1-88 द्विगोः लुक् अनपत्ये प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्

Sampurna sutra

Up

अनपत्ये द्विगोः अचि तद्धितः लुक्

Neelesh Sanskrit Brief

Up

तद्धितार्थे विहितस्य द्विगु-समासस्य विषये अपत्यार्थं विहाय अन्येषु प्राग्दीव्यतीय-अर्थेषु विहितानां अजादि-तद्धितप्रत्ययानाम् लुक् भवति ।

Neelesh English Brief

Up

In case of a द्विगु-समास that gets created in context of a तद्धितार्थ, the अजादि तद्धितप्रत्यय involved in this समास is removed.

Kashika

Up

प्राग् दीव्यत इति वर्तते, न भवनादिति। द्विगोरिति षष्ठी। द्विगोर्यः संबन्धी निमित्तत्वेन तद्धितः प्राग्दीव्यतीयोऽपत्यप्रत्ययं वर्जयित्वा, तस्य लुग् भवति। पञ्चसु कपालेषु संस्कृतः पञ्चकपालः। दशकपालः। द्वौ वेदावधीते द्विवेदः। त्रिवेदः। अनपत्य इति किम्? द्वैदेवदत्तिः। त्रैदेवदत्तिः। प्राग् दीव्यत इत्येव — द्वैपारायणिकः। द्विगुनिमित्तविज्ञानादिह न भवति — पञ्चकपालस्येदं पाञ्चकपालम्। अथवा द्विगोरेवायं लुग् विधीयते, द्विगोरिति स्थानषष्ठी। ननु च प्रत्ययादर्शनस्यैषा संज्ञा? सत्यमेतत्। उपचारेण तु लक्षणया द्विगुनिमित्तभूतः प्रत्यय एव द्विगुः, तस्य लुग् भवति। द्विगुनिमित्तकोऽपि तर्हि गुणकल्पनया कस्माद् न द्विगुरुच्यते पाञ्चकपालमिति? न तस्य द्विगुत्वं निमित्तम्। इतरस्तु द्विगुत्वस्यैव निमित्तमित्यस्ति विशेषः। यद्येवमिह कथं पञ्चकपाल्यां संस्कृतः पञ्चकपाल इति? नैवात्र तद्धित उत्पद्यते। वाक्यमेव भवति। त्रैशब्द्यं हि साध्यम् — पञ्चसु कपालेषु संस्कृतः, पञ्चकपाल्यां संस्कृतः, पञ्चकपाल इति। तत्र द्वयोः शब्दयोः समानार्थयोरेकेन विग्रहः, अपरस्मादुत्पत्तिर्भविष्यति । अथेह कस्माद् न भवति — पञ्चभ्यो गर्गभ्य आगतं पञ्चगर्गरूप्यम् पञ्चगर्गमयमिति? वेत्यनुवर्तते। सा च व्यवस्थितविभाषा विज्ञायते ॥

Siddhanta Kaumudi

Up

द्विगोर्निमित्तः यः तद्धितः अजादिः अनपत्यार्थः प्राग्दीव्यतीयः, तस्य लुक्स्यात् । पञ्चसु कपालेषु संस्कृतः पुरोडाशः पञ्चकपालः । द्विगोर्निमित्तमिति किम्? । पञ्चकपालस्येदं खण्डं पाञ्चकपालम् । अजादिः किम् ? पञ्चगर्गरूप्यम् । अनपत्ये किम् ? द्वयोर्मित्रयोरपत्यं द्वैमित्रिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'द्विगु' इति तत्पुरुषसमासस्य कश्चन भेदः । <<तद्धितार्थोत्तरपदसमाहारे च>> 2.1.51 अनेन सूत्रेण अस्य समासस्य तद्धितार्थस्य विषये विधानम् कृतमस्ति । अस्यां प्रक्रियायाम् विहितस्य अजादि-तद्धितप्रत्ययस्य अनेन सूत्रेण लुक् भवति । यथा - 1. 'द्वौ वेदौ अधीते सः' इत्यत्र आदौ 'द्वौ' शब्दस्य 'वेदौ' शब्देन सह द्विगु समासं कृत्वा अग्रे <<तदधीते तद्वेद>> 4.2.59 इत्यस्मिन् अर्थे <<प्राग्दीव्यतोऽण्>> 4.1.83 इत्यनेन अण्-प्रत्ययः भवति । 'द्विवेद + अण्' इति स्थिते वर्तमानसूत्रेण अण्-प्रत्ययस्य लुक्-कृत्वा 'द्विवेद' इत्येव रूपं सिद्ध्यति । अतः - द्वौ वेदौ अधीते सः द्विवेदः । तथैव, त्रीन् वेदान् अधीते सः त्रिवेदः । चतुरः वेदान् अधीते सः चतुर्वेदः । 2. 'पञ्चसु कपालेषु संस्कृतः' इत्यत्र 'पञ्चसु' शब्दस्य 'कपालेषु' शब्देन सह समासं कृत्वा अग्रे <<संस्कृतं भक्षाः>> 4.2.16 इत्यनेन अण्-प्रत्ययः भवति । 'पञ्चकपाल + अण्' इति स्थिते वर्तमानसूत्रेण अण्-प्रत्ययस्य लुक्-कृत्वा 'पञ्चकपाल' इत्येव रूपं सिद्ध्यति । ज्ञातव्यम् - 1. यदि प्रत्ययः अजादिः नास्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - 'पञ्चभ्यः गर्गेभ्यः आगतम्' इत्यत्र <<हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः>> 4.3.81 इत्यनेन 'रूप्य'प्रत्ययः विधीयते । अयम् प्रत्यययः अजादिः नास्ति, अतः अस्य लुक् अपि न भवति, अतः 'पञ्चगर्गरूप्य' इति प्रातिपदिकं सिद्ध्यति । 2. अपत्यार्थे विहितस्य तद्धितप्रत्ययस्य विषये अपि अस्य सूत्रस्य प्रसक्तिः न विद्यते । यथा, 'द्वयोः मित्रयोः अपत्यम्' इत्यत्र <<अत इञ्>> 4.1.95 इत्यनेन इञ्-प्रत्ययं कृत्वा 'द्वैमित्रि' इति प्रातिपदिकं सिद्ध्यति । 3. अनेन सूत्रेण विहितः प्रत्ययलुक् केवलं प्राग्दीव्यतीयेषु अर्थेषु एव अस्ति, अन्यत्र न । यथा, 'द्वयोः पारायणयोः कर्म वृत्तमस्य' इत्यत्र <<कर्माध्ययने वृत्तम्>> 4.4.63 इत्यनेन ठक्-प्रत्ययः भवति । अयम् प्रत्ययः प्राग्वहतीय-अधिकारे वर्तते, प्राग्दीव्यतीय न । अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति । अतः द्विपारायण + ठक् → द्वैपारायणिक इति रूपं सिद्ध्यति । 4. यदि तद्धितप्रत्ययः द्विगुनिमित्तकः नास्ति, तर्हि अस्य सूत्रस्य प्रसक्तिः न वर्तते । यथा, 'पञ्चकपालस्य इदम्' इत्यत्र यद्यपि द्विगुसमासः कृतः अस्ति, तथापि अयं द्विगुसमासः <<तस्येदम्>> 4.3.120 अस्मिन् अर्थे न क्रियते, अपितु <<तस्येदम्>> 4.3.120 इत्यस्य प्रयोगात् पूर्वमेव (तद्धितार्थभिन्नस्य विषये) अस्य समासस्य निर्माणं भवति । अस्यां स्थितौ वर्तमानसूत्रस्य प्रसक्तिः नास्ति । अतः अत्र लुग् अपि न भवति । 'पञ्चकपाल + अण् = पाञ्चकपाल' इत्येव प्रातिपदिकं सिद्ध्यति । 5. अस्मिन् सूत्रे वस्तुतः 'अजादि' इत्यस्य अनुवृत्तिः नास्ति । परन्तु कौमुदीकारः <<गोत्रेऽलुगचि>> 4.1.89 इत्यस्मात् सूत्रात् 'अचि' इति अपकर्षं कारयति । काशिकाकारः तु अस्य सूत्रस्य प्रसक्तिः 'सर्वेषाम् प्रत्ययानाम् विषये अस्ति' इति उक्त्वा इयम् 'व्यवस्थितविभाषा' अस्ति, अतः केषाञ्चन प्रत्ययानाम् विषये अस्य सूत्रस्य प्रसक्तिः न स्यात् - इति ब्रूते ।

Balamanorama

Up

<<द्विगोर्लुगनपत्ये>> - द्विगोर्लुगनपत्ये । द्विगोरिति हेतुत्वसंबन्धे षष्ठी । लुक्श्रवणात्प्रत्ययस्येत्युपस्थितम्, प्रत्ययाऽदर्शनस्यैव लुक्त्वात् । तताचद्विगुनिमित्तस्य प्रत्ययस्य लु॑गिति लभ्यते । द्विगुनिमित्तश्च प्रत्ययस्तद्धित एव भवति तद्धितार्थे विषये तद्विधानात् । ततश्चद्विगुनिमित्तस्य तद्धितस्ये॑ति लभ्यते । द्विगुनिमित्तस्य तद्धितस्ये॑ति लभ्यते । प्राग्दीव्यत॑ इत्यनुवृत्तेः । तद्धितविशेषणं ।गोत्रेऽलुगची॑त्युत्तरसूत्रेऽचीति सप्तम्यन्तस्य गोत्रविशेषणतया तदादिविधिः । अजादावित्यर्थकमचीति पदमिहाऽपकृष्यते । तच्च षष्ठआ विपरिणतं तद्धितविशेषणम् । तदाह — द्विगोर्निमित्तमित्यादिना । पञ्चकपाल इति । 'संस्कृतं भक्षाः' इत्यण् । तद्धितार्थे द्विगुः । अणो लुक् । प्रत्ययलक्षणाऽभावान्नादिवृद्धिः । पञ्चकपालस्येदमिति । पञ्चसु कपालेषु संस्कृतः पुरोडाश इत्यर्थे अणि विवक्षिते द्विगुसमासेऽणो लुकि निष्पन्नात्पञ्चकपालशब्दात्तस्येद॑मित्यणि आदिवृद्धौ पाञ्चकपालमित्यत्राऽणोलुङ्न भवति अणो द्विगुनिमित्तत्वाऽभावादिति भावः । पञ्चगर्गरूप्यमिति । पञ्चभ्यो गर्गेभ्य आगतमित्यर्थे 'हेतुमनुष्येभ्यः' इति रूप्यप्रत्ययः । 'तद्ध#इतार्थ' इति द्विगुसमासनिमित्तत्वेऽपि अजादित्वाऽभावान्न लुगिति भावः । द्वैमित्रिरिति । अत्रअत इ॑ञिति इञोऽपत्यार्थकत्वान्न लुगिति भावः । न च तिस्नो विद्या अधीयानस्तैविद्य इत्यत्राप्यणो लुक् स्यादिति वाच्यं, त्र्यवयवा विद्या त्रिविद्या । शाकपार्थिवादिः । त्रिविद्यामधीते त्रैविद्य इति विग्रहे त्रिविद्याशब्दादणो द्विगुनिमित्तत्वाऽभावात् । प्राग्दीव्यतीयस्येति । किम् । पञ्चभ्यः कपालेभ्यो हितं पञ्चकपालीयम् ।

Padamanjari

Up

द्विगोरिति षष्ठीति । आनन्तर्यलक्षणायां तु पञ्चम्यां पञ्चकपालस्य पुरोडाशस्येदम्'तस्येदम्' इत्यण्, पाञ्चकपालमित्यत्रापि प्राप्नोतीति भावः । षष्ठ।ल्पि यद्यानन्तर्ययोगे स्यात्स एव दोषो यः पञ्चम्याम्, ततश्च षष्ठ।लश्रयणमनर्थकं स्यादिति मत्वाऽऽह - द्विगोर्यः सम्बन्धी निमितत्वेनेति । यस्य तद्धितस्यार्थे'तद्धितार्थोतरपद' इति द्विगुविहितः स निमितत्वेन सम्बन्धी । पञ्चकपाल इति ।'संस्कृतं भक्षाः' इत्यत्रार्थे विवक्षिते द्विगुः, अम्, तस्य लुक् । द्विवेद इति ।'तदधीते तद्वेद' इत्यत्रार्थे द्विगुः । द्वैदेवदतिरिति । द्वयोर्देअवदतयोरपत्यम्, ठत इञ्ऽ, अपतनादपत्यम्, यस्य पित्रादिषु द्वौ देवदतसंज्ञकौ स एवमुच्यते, एकस्य वा दतपुत्रोऽन्यस्य साक्षात्पुत्रः । द्विगुनिमितविज्ञानादिति । द्विगुनिमितस्य प्रत्ययस्य लुग्विधानादित्यर्थः । पञ्चकपालस्येदमिति । अत्र संस्कृतार्थे यः प्रथममुत्पन्नः प्रत्ययः स एव - द्विगोर्निमितं न द्वितीय इति तस्य लुग्न भवति । अथ वैत्यादि । पूर्वं लुगित्यनेनोपस्थापतिस्य प्रत्ययस्य द्विगोरित्यनेन वैयधिकरण्यमाश्रित्य व्याख्यातम्, इदानीं सामानाधिकरण्यमित्येष विशेषः । कथं पुनद्विगोरेव लुग् लभ्यत इत्याह - द्विगोरिति स्थानषष्ठीति । ननु चेत्यादि ।'प्रत्ययस्य लुक्श्लुलुपः' इति प्रत्ययादर्शनस्य लुगादयः संज्ञा विहिताः, ततश्च द्विगोर्लुगिति नैव समञ्जसमिति भावः । उपचारेण त्वित्यादि । अतस्मिंस्तद्रूपारोपःऊपचारः, परत्र परशब्दप्रयोगःउलक्षणा, उपचारेण निमितेन या लक्षणा तयेत्यर्थः । अन्ये तूपचारेणेत्यस्य विवरणं लक्षणयेत्येतदित्याहुः । अद्विगुरूपस्तद्धितो द्विगुरूपतया यथा बुद्ध्या विवक्ष्यते सा लक्षणा उपचार एवेति । उपचारस्य निबन्धनं द्विगुनिमितत्वम् । भवति हि कारणे कार्योपचारः - आयुर्घृतमिति यथा । द्विगुनिमितकोऽपि तर्हीत्यादि । कार्येऽपि कारणवदुपचारो दृश्यते, यथा - पुरातनं कर्म भुज्यत इति, ततश्च द्विगुर्यस्य प्रत्ययस्य निमितं सोऽपि गुणकल्पनया गुणशब्देनोपचारस्य निमितभूतो धर्मो विवक्षितः, तन्निमिता कल्पना गुणकल्पना, मा पुनरुपचांरात्मिका बुद्धिः, तया कस्मान्न द्विगुरित्यच्यते ? अर्हत्येवायमेवंविधं वचनमित्यर्थः । परिहरति - न तस्येति । तत्र हि सन्निहितमपि द्विगुत्वं प्रत्ययोत्पतौ नोपयुज्यते, न ह्यसौ द्विगोरित्येवं विधीयते, किं तर्हि ? प्रातिपदिकादित्येवमित्यर्थः । इतरस्त्विति । प्रत्ययः, यस्य लुग्दर्शितः । द्विगुत्वस्यैव निमितमिति । तदर्थे हि समासो विधीयते, तस्यैव च द्विगुसंज्ञा, तेनासौ द्विगुत्वस्यैव निमितम् । यद्येवमित्यादि । उभयोरपि पक्षयोरेतच्चोद्यम् । न ह्यत्र द्विगोर्निमितत्वेन सम्बन्धी तद्धितः, नापि द्विगुनिमितत्वादु पचारेण तद्व्यपदेशार्हः, अत्र हि समाहारे द्विगौ निष्पन्ने पश्चातद्धित उत्पद्यते, स च द्विगोर्निमितं न भवतीति चोद्यार्थः । परिहरति - नैवात्र तद्धित उत्पद्यत इति । अनभिधानादिति भावः । यदि नोत्पद्यते, कथमस्मिन्नर्थे पञ्चकपाल इति रूपसिद्धिस्तस्मादुत्पद्यत एवात्र तद्धितः, तस्य च लुग्विधेयः ? इत्यत आह - त्रैशब्द्यं हीति । त्रय एव शब्दास्त्रैशद्ब्यमुचातुर्वर्ण्यादिः । इह ह्यस्माभिस्त्रैशद्ब्यं साध्यम्, तच्च पञ्चकपालीशब्दातद्धितोत्पतिमन्तरेणापि सिद्ध्यतीति नास्मातद्धित उत्पद्यते । तानेव त्रीन् शब्दान्दर्शयति - पञ्चसु कपालोष्विति । द्वयोः शब्दयोरिति । यः समाहारे द्विगुः, यश्च तद्धितार्थे, द्वावपि तौ समानार्थौ, तयोरेकेन पूर्वेण विग्रहः । अवधारणमत्र द्रष्टव्यं विग्रह एव, न तद्धितोत्पतिः; अनभिधानात् । अपरस्मात् पञ्चकपालादुत्पत्तिः । सोऽयमव्यविकन्याय उच्यते, तद्यथा अवेर्मांसमित्यविशब्देन विग्रह एव, अविकशब्दादुत्पत्तिर्विग्रहश्च आविकमविकस्य मांसमिति । सा च व्यवस्थितविभाषेति । एवं कृत्वा त्रैविद्यः, पाञ्चनदम्, षाट्कुल इत्यत्रापि लुग्न भवति । अथ वा - त्र्यवयवा विद्या त्रिविद्या, शाकपार्थिवादिः, तामधीते त्रैविद्यः, विद्यात्रयरूपस्य च समुदायस्य विद्यात्वं विवक्षितमित्यर्थभेदाभावः । पञ्चानां नदीनां समाहारः पञ्चनदम्,'नदीभिश्च' इत्यव्ययीभावः'गोदावर्याश्च नद्याश्च' इत्यच्समासान्तः, पञ्चनदे भवः पाञ्चनदः । अथ वा - अभिधाने हि सति समाहारद्विगोरपि भवत्येव तद्धितः । तथा षण्णामादिपुरुषाणां कुलानि तत्र भवः षाट्कुलः । अव्यविकन्यायाच्च तिस्रो विद्या अधीते, पञ्चसु नदीषु भवः, षट्सुकुलेषु भव इति विग्रह एव; न द्विगुः, नापि तद्धितः ॥