4-3-81 हेतुमनुष्येभ्यः अन्यतरस्यां रूप्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् ततः आगतः
हेतुभ्यो मनुष्येभ्यश्चान्यतरस्यां रूप्यः प्रत्ययो भवति तत आगत इत्येतस्मिन् विषये। मनुष्यग्रहणमहेत्वर्थम्। हेतुः कारणम्। हेतुभ्यस्तावत् — समादागतं समरूप्यम्, समीयम्। विषमरूप्यम्, विषमीयम्। गहादित्वात् ४.२.१३८ छः। मनुष्येभ्यः — देवदत्तरूप्यम्। यज्ञदत्तरूप्यम्। दैवदत्तम्। याज्ञदत्तम्। बहुवचनं स्वरूपविधिनिरासार्थम्॥
समादागतं समरूप्यम् । विषमरूप्यम् । पक्षे गहादित्वाच्छः । समीयम् । विषमीयम् । देवदत्तरूप्यम् । देवदत्तीयम् । दैवदत्तम् ॥
समादागतं समरूप्यम्। पक्षे - गहादित्वाच्छः। समीयम्। विषमीयम्। देवदत्तरूप्यम्। दैवदत्तम्॥
समादागतमिति । समाद्धेतोरागतमित्यर्तः । तत्र'हेतौ' इति तृतीया प्राप्नोति, ज्ञापकत्सिद्धम्, यदयं पञ्चम्यन्ताद्धेतोः प्रत्ययमाह तज्ज्ञापयति - भवति हेतौ पञ्चमिति । नैतदस्ति ज्ञापकम्, यत्र'विभाषा गुणे' इति पञ्चमी, तदर्थमेतत्स्यात् - जाड।लदागत इति ? तस्मात्'विभाषा गुणे' इत्यत्र विभाषेति योगविभागादगुणवचनादपि पञ्चमी भवति ॥