प्रागिवात्कः

5-3-70 प्राक् इवात् कः प्रत्ययः परः च आद्युदात्तः च तद्धिताः तिङः

Sampurna sutra

Up

प्राक् इवात् प्रातिपदिकात् कः

Neelesh Sanskrit Brief

Up

अधिकारोऽयम् । इतः परम् 'इवे प्रतिकृतौ' 5.3.96 इति यावत् उक्तेषु विषयेषु प्रातिपदिकेभ्यः 'क' प्रत्ययः भवति ।

Kashika

Up

<<इवे प्रतिकृतौ>> ५.३.९६ इति वक्ष्यति। प्रागेतस्मादिवसंशब्दनाद् यानित ऊर्ध्वमनुक्रमिष्यामः, कप्रत्ययस्तेष्वधिकृतो वेदितव्यः। वक्ष्यति — <<अज्ञाते>> ५.३.७३ इति। अश्वकः। गर्दभकः। तिङन्तादयं प्रत्ययो नेष्यते, अकजिष्यते। <<तिङश्च>> ५.३.५६ इत्यनुवृत्तमुत्तरसूत्रेणैव संबन्धनीयम्॥

Siddhanta Kaumudi

Up

इवे प्रतिकृतौ <{SK2051}> इत्यतः प्राक् काधिकारः ॥

Laghu Siddhanta Kaumudi

Up

इवे प्रतिकृतावित्यतः प्राक्काधिकारः॥

Neelesh Sanskrit Detailed

Up

अधिकारसूत्रम् इदम् । अस्य अधिकारः <<अवक्षेपणे कन्>> 5.3.95 इतिपर्यन्तम् प्रचलति । अस्मिन् अर्थे उक्तेषु सन्दर्भेषु प्रातिपदिकेभ्यः औत्सर्गिकरूपेण क-प्रत्ययः स्वार्थे विधीयते । अस्मिन् अधिकारे पाठिताः मुख्याः सन्दर्भाः एतादृशाः सन्ति - 1. अज्ञातम् - <<अज्ञाते>> 5.3.73 इति सूत्रम् । 2. कुत्सितम् - <<कुत्सिते>> 5.3.74 तथा <<संज्ञायां कन्>> 5.3.75, <<अवक्षेपणे कन्>> 5.3.95 एतानि सूत्राणि । 3. अनुकम्पा - <<अनुकम्पायाम्>> 5.3.76 इत्यतः <<शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात्>> 5.3.84 एतावन्ति सूत्राणि । 4. अल्पम् - <<अल्पे>> 5.3.85 एतत् सूत्रम् । 5. ह्रस्वम् - <<ह्रस्वे>> 5.3.86 इत्यतः <<कासूगोणीभ्यां ष्टरच्>> 5.3.90 एतानि सूत्राणि । 6. तनुत्वम् - <<वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे>> 5.3.91 इति सूत्रम् । 7. निर्धारणम् - <<किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच्>> 5.3.92 इत्यतः <<एकाच्च प्राचाम्>> 5.3.94 एतानि सूत्राणि । एतेषु सर्वेष विषयेषु प्रातिपदिकात् स्वार्थे 'क' प्रत्ययः (उत तस्य अपवादः) विधीयते । स्मर्तव्यम् - 1. 'क' इति प्रत्ययः तद्धितप्रत्ययः अस्ति, अतः <<लशक्वतद्धिते>> 1.3.8 इत्यनेन अस्य इत्संज्ञा न भवति । 2. अङ्गस्य अन्ते यदि विसर्गः विद्यते, तर्हि तस्मात् क-प्रत्यये परे <<सोऽपदादौ>> 8.3.38 इत्यनेन विसर्गस्य नित्यम् सकारादेशः एव भवति । यथा - यशः + क → यशस्क ।

Balamanorama

Up

<<प्रागिवात्कः>> - प्रागिवात्कः ।इवशब्दस्तद्घटितसूत्रपर इति मत्वाह — इवे प्रतीति ।

Padamanjari

Up

तिङ्न्तादयं प्रत्ययो नेष्यत इति। तदर्थमत्र'सुपः' इत्येव सम्बन्धनीयमिति भावः। अकजिष्यत इति। तदर्थं तत्र'सुपः' इत्येव सम्बन्धनीयमिति भावः। कथं पुनरनुवर्तमानं शक्यमसम्भनधुम् ? तत्राह - तिङ्श्चेत्यनुवृतमिति। अत्र च व्याख्यानमेव शरणम्। इह'प्राक्कुट।लः' इति वक्तव्यम्, न हि'कुटीशमीशुण्डाब्यो रः' इत्यारब्यास्योपयोगः; प्रत्ययान्तरैरवष्टब्धत्वात्? उतरार्थं त्वियतोऽवधेर्ग्रहणम्,'वा बहूनाम्' इत्यत्र हि वावचनमकजर्थम्। एवमपि प्राक्कन इति वक्तव्यम् ठवक्षेपणे कन्ऽ इत्ययमवधिः। कुतो नु खल्वेतद्? अयमेव कनवधिः, न पुनर्हस्वे,'संज्ञायां कन्' 'कुत्सिते संज्ञायां कन्' इत्येतयोरन्यतरोऽवधिः स्यात् ॥ अव्ययसर्वनाम्नामकच् प्राक् टेः ॥ कस्यापवाद इति। ननु च विरोधे सति बाध्यबाधकभावो भवति, काकचोश्च देशभेदान्नास्ति विरोधः, तत्कथं तस्यापवादः? नावश्यं देशकृत एव विरोधः, कि तहि? अर्थकृतोऽपि। काकचोश्च प्रयोजनमेकम् - अज्ञाताद्यर्थद्योतनं नाम, तस्मिन्नकचा कृते प्रयोजनाभावात्को न भविष्यति। सर्वके इति। अकचस्तन्मध्यपतितस्य तद्ग्रहणेन ग्रहणात्'जसः शी' भवति, के तु सति न स्यात्। द्वयमपीहानुवर्तत इति। यद्येवम्, सर्वत्र सुबन्तस्य प्रातिपदिकस्य च प्राक् टेः प्रत्ययप्रसङ्गः? तत्राह - तत्रेति। क्वचित्प्रतिपदिकस्येति। ओकारसकारभकारादौ विभक्तौ। क्वचित्सुबन्तस्येति। उक्तादन्यत्र विभक्तौ। त्वयकीति। अकचो द्वितीयोऽकार उच्चारणार्थः। चित्करणं तु समुदायस्यान्तोदातार्थम्;'चितः सप्रकृतेर्बह्वकजर्थम्' इति वचनात्। इदमेव चित्करणं लिङ्गम् - सप्रकृतेश्चितोऽन्तोदातत्वम्, न चिन्मात्रस्येति। तूष्णीमः कामिति। यथासम्भवमज्ञातादिष्वर्थेषु। मकारो देशविध्यर्थः। अन्त्यादचः परः काम् भवति। अज्ञाताद्यर्थाविवक्षायां तूण्णीमित्येव भवति। शीले क इति। शीलमुस्वभावः, नियमश्च। अज्ञाताद्यपवादः। शीलं तूष्णीं स्वभावाच्चा दद्वान् तूष्णीक इत्युच्यते, न तच्छीलमात्रम् ॥