5-3-90 कासूगोणीभ्यां ष्टरच् प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः
index: 5.3.90 sutra: कासूगोणीभ्यां ष्टरच्
ह्रस्वे कासू-गोणीभ्याम् ष्टरच्
index: 5.3.90 sutra: कासूगोणीभ्यां ष्टरच्
'ह्रस्व' इत्यस्य विशेष्यरूपेण विहितात् 'कासू' तथा 'गोणी' शब्दाभ्याम् स्वार्थे 'ष्टरच्' प्रत्ययः भवति ।
index: 5.3.90 sutra: कासूगोणीभ्यां ष्टरच्
ह्रस्वे इत्येव। कासूगोणीशब्दाभ्यां ह्रस्वस्वे द्योत्ये ष्टरच् प्रत्ययो भवति। कस्य अपवादः। षकारो ङीषर्थः। ह्रस्वा कासूः कासूतरी। गोणीतरी। कासूः इति शक्तिः, आयुधविशेसः उच्यते।
index: 5.3.90 sutra: कासूगोणीभ्यां ष्टरच्
आयुधविशैषः कासूः । ह्रस्वा सा कासूतरी गोणीतरी ॥
index: 5.3.90 sutra: कासूगोणीभ्यां ष्टरच्
'ह्रस्व' (यत् दीर्घः नास्ति तत्, short) इत्यस्य विशेष्यरूपेण विहितं यत् प्रातिपदिकम्, तस्मात् ह्रस्वे 5.3.86 इत्यनेन औत्सर्गिकरूपेण क-प्रत्यये प्राप्ते 'कासू' तथा 'गोणी' एतयोः विषये अपवादत्वेन 'ष्टरच्' प्रत्ययः भवति ।
विशेषः - अत्र मूलरूपेण 'तर' इति प्रत्ययः अस्ति । षकारः प्रत्यये अनुबन्धरूपेण प्रयुज्यते, अतः ष्टुत्वं अपि भवति येन तकारस्य टकारादेशः भवति । प्रक्रियायाः प्रथमसोपाने षः प्रत्ययस्य 1.3.6 इत्यनेन षकारस्य इत्संज्ञा तथा तस्य लोपः 1.3.9 इत्यनेन लोपे कृते <ऽनिमित्तापाये नैमित्तिकस्याप्यपायःऽ> अनेन सिद्धान्तेन ष्टुत्वं अपि निवर्तते -
ह्रस्वा कासूः (A type of weapon) इत्येव
= कासू + ष्टरच्
→ कासू + तर [षकारचकारयोः इत्संज्ञा, लोपः । षकारलोपे <ऽअकृतव्यूहाः पाणिनीयाःऽ> इत्यनया परिभाषया (= <ऽनिमित्तापाये नैमित्तिकस्याप्यपायःऽ> इत्यनेन सिद्धान्तेन) ष्टुत्वमपि विनश्यति, अतः 'तर' इत्येव अवशिष्यते ।
→ कासूतर
→ कासूतर + ङीष् [स्त्रीत्वे विवक्षिते षिद्गौरादिभ्यश्च 4.1.41 इति ङीष्]
→ कासूतर् + ई [यस्येति च 6.4.148 इति अकारलोपः]
→ कासूतरी । a small weapon - इत्याशयः ।
एवमेव ह्रस्वा गोणी (small sack / bag) इत्येव = गोणी + ष्टरच् → गोणीतरी ।
index: 5.3.90 sutra: कासूगोणीभ्यां ष्टरच्
कासूगोणीभ्यां ष्टरच् - कासूगोणीभ्यां ष्टरच् । ह्रस्व इत्येव । कासूतरीति । षित्त्वान्ङीषिति भावः ।कासूर्बुद्धे कुवाच्येऽस्त्रे॑ इति नानार्थरत्नमालायाम् । एवं गोणीतरीति ।