5-3-91 वत्सोक्षाश्वर्षभेभ्यः च तनुत्वे प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः
index: 5.3.91 sutra: वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे
वत्स-उक्ष-अश्व-ऋषभेभ्यः तनुत्वे ष्टरच्
index: 5.3.91 sutra: वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे
वत्स, उक्षन्, अश्व तथा ऋषभ - एतेभ्यः शब्देभ्यः तनुत्वे द्योत्ये स्वार्थे 'ष्टरच्' प्रत्ययः भवति ।
index: 5.3.91 sutra: वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे
ह्रस्वे इति निवृत्तम्। वत्स उक्षनश्व ऋषभ इत्येतेभ्यः तनुत्वे द्योत्ये ष्टरच्प्रत्ययो भवति। यस्य गुणस्य हि भावाद् द्रव्ये शब्दनिवेशः तस्य तनुत्वे प्रत्ययः। वत्सतरः। उक्षतरः। अश्वतरः। ऋषभतरः। प्रथमवया वत्सः, तस्य तनुत्वं द्वितीयवयःप्राप्तिः। तरुण उक्षा, तस्य तनुत्वं तृतीयवयःप्राप्तिः। अश्वेन अश्वायामुत्पन्नोऽस्वः, तस्य तनुत्वमन्यपितृकता। अनुड्वानृषभः, तस्य तनुत्वं भारवहने मन्दशक्तिता।
index: 5.3.91 sutra: वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे
वत्सतरः । द्वितीयं वयः प्राप्तः । उक्षतरः । अश्वतरः । ऋषभतरः । प्रवृत्तिनिमित्ततनुत्व एवायम् ॥
index: 5.3.91 sutra: वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे
'तनुत्व' अस्मिन् सन्दर्भे अनेन सूत्रेण 'ष्टरच्' प्रत्ययः उक्तः अस्ति । 'तनुत्वम्' इत्युक्ते 'गुणस्य न्यूनत्वम्' / 'गुणस्य अभावः' । Lack of a certain characteristics इति अर्थः । सन्दर्भं पश्यामश्चेत् अधिकम् स्पष्टम् स्यात् -
वत्स + ष्टच्
→ वत्स + तर [षकारचकारयोः इत्संज्ञे, लोपः भवति । षकारलोपे <ऽअकृतव्यूहाः पाणिनीयाःऽ> इत्यनया परिभाषया (= <ऽनिमित्तापाये नैमित्तिकस्याप्यपायःऽ> इत्यनेन सिद्धान्तेन) ष्टुत्वमपि विनश्यति, अतः 'तर' इत्येव अवशिष्यते।]
→ वत्सतर
वत्सतरः = कुमारावस्थायां प्राप्तः वत्सः = A baby of cow that has become young adult.
स्त्रीत्वे षिद्गौरादिभ्यश्च 4.1.41 इति ङीष्-प्रत्ययं कृत्वा - 'वत्सतरी' इति सिद्ध्यति ।
उक्षन् + ष्टरच्
→ उक्षन् + तर [षकारलोपे ष्टुत्वनिवृत्तिः]
→ उक्ष + तर [नलोपः प्रातिपदिकान्तस्य 8.2.7 इति नकारलोपः]
→ उक्षतर
A mature / old bull is called उक्षतर ।
अश्व + ष्टरच् → अश्वतरः । mule इत्यर्थः ।
विशेषः - अस्य सूत्रस्य विषये काशिकाकारः वदति - 'अन्यपितृकता' । इत्यस्य अयमेव अर्थः - अश्वायाः सह कस्यचन अन्यस्य पशोः मेलनं कृत्वा जायमानः पशुः, यस्य पिता स्वयमश्वः नास्ति, तस्य निर्देशः अत्र 'अश्वतर' इत्यनेन भवति । Note that a mule is the offspring of a male donkey and a female horse. Reverse breeding is not very common and it is not clear from the commentaries whether it also gets the same name.
एतादृशमनेन सूत्रेण 'वत्सतर', 'उक्षतर', 'अश्वतर' तथा 'ऋषभतर' एतेषाम् शब्दानां सिद्धिः भवति ।
index: 5.3.91 sutra: वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे
वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे - वत्सोक्ष । ह्रस्व इति निवृत्तम् । वत्स, उक्षन्, अआ, ऋषभ — एभ्यस्तनुत्वविशिष्टवृत्तिभ्यः ष्टरच्प्रत्ययः स्यादित्यर्थः । तनुत्वं — न्यूनत्वम् । वत्सः-प्रथमवयाः । वयसश्च प्रथमस्य तनुत्वम् — उत्तर वयः प्राप्त्या ज्ञेयम् । तदाह — द्वितीयं वयःप्राप्त इति । उक्षतर इति । उक्षा — तरुणो बलीवर्दः । तारूण्यस्य तनुत्वं तृतीयवयः प्राप्त्या ज्ञेयम् । अआतर इति । गर्दमेन अआआयामुत्पादितः । अआतरः — अआतरत्वं च अआत्वापेक्षया न्यूनमेव । ऋषभतर इति । ऋषभो-भारस्य वोढा तस्य तनुत्वं भारोद्वहने मन्दशक्तिता, तद्वानित्यर्थः । तनुः कृशो वत्सो वत्सतर इति कुतो नेत्यत आह — प्रवृत्तिनिमित्ततनुत्वे एवायमिति । एतच्च भाष्ये स्पष्टम् ।
index: 5.3.91 sutra: वत्सोक्षाश्वर्षभेभ्यश्च तनुत्वे
'तनुत्वे' इति सामान्याभिधानात्कार्श्येऽपि प्रत्ययप्रसङ्गः, तत्राह - यस्य हि गुणस्येति। एतच्च प्रत्यासतेर्लभ्यते। प्रत्यासन्नं हि शब्दस्य प्रवृत्तिनिमितम्। प्रथमवया वत्स इति। प्रथमं वयो वत्सशब्दस्य प्रवृत्तिनिमितमित्«अथः। तस्येति गुणभूतमपि वयोऽत्र परामृश्यते, तस्य प्रथमस्य वयस इत्यर्थः। द्वितीयवयःप्राप्तिरिति। द्वितीयं हि वयः प्राप्नुषतो वत्सस्य प्रथमं वयोऽल्पशेषं भवति। तरुण इति। द्वितीयवया इत्यर्थः। तस्य तनुत्वमित्यादि पूर्ववत्। अन्यपितृकतेति। गर्दभपितृकतेत्यर्थः। गर्दबेन त्वश्वायामुत्पादितोऽश्वतर उच्यते। अनड्वानिति। अनसो वोढेअत्यर्थः, अनसि वहेः क्विप्, डश्चानसः ॥