ह्रस्वे

5-3-86 ह्रस्वे प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः

Sampurna sutra

Up

index: 5.3.86 sutra: ह्रस्वे


ह्रस्वे प्रातिपदिकात् कः

Neelesh Sanskrit Brief

Up

index: 5.3.86 sutra: ह्रस्वे


'ह्रस्व' इत्यस्य विशेष्यरूपेण विहितात् प्रातिपदिकात् स्वार्थे यथाविहितं प्रत्ययः भवति ।

Kashika

Up

index: 5.3.86 sutra: ह्रस्वे


ह्रस्वत्वविशिष्टेऽर्थे वर्तमानात् प्रातिपदिकात् यथाविहितं प्रत्ययो भवति। दीर्घप्रतियोही ह्रस्वः। ह्रस्वो वृक्षः वृक्षकः। प्लक्षकः। स्तम्भकः।

Siddhanta Kaumudi

Up

index: 5.3.86 sutra: ह्रस्वे


ह्रस्वो वृक्षो वृक्षकः ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.86 sutra: ह्रस्वे


'ह्रस्व' (यत् दीर्घः नास्ति तत्, short) इत्यस्य विशेष्यरूपेण विहितं यत् प्रातिपदिकम्, तस्मात् वर्तमानसूत्रेण स्वार्थे 'क' प्रत्ययः उत तस्य अपवादः विधीयते । यथा -

  1. ह्रस्वः वृक्षः इत्येव = वृक्ष + क → वृक्षकः ।

  2. ह्रस्वः स्तम्भः (stem of a tree) इत्येव = स्तम्भ + क → स्तम्भकः ।

  3. ह्रस्वः प्लक्षः (= किञ्चन फलम्) इत्येव = प्लक्ष + क → प्लक्षकः ।

विशेषः - अस्मिन् प्रकरणे प्रायः सर्वेषु सूत्रेषु 'तिङः' इति अनुवृत्तिः स्वीकृता अस्ति । परन्तु अत्र अस्याः किमपि प्रयोजनम् न, अतः अत्र इयमनुवृत्तिः न स्वीक्रियते ।

ज्ञातव्यम् - पूर्वसूत्रे अल्पे 5.3.85 इत्यत्र 'अल्प' इत्यस्य विशेषणरूपेण विहितात् प्रातिपदिकात् प्रत्ययविधानं कृतमस्ति । अस्मिन् सूत्रे 'ह्रस्व' इत्यस्मिन् सन्दर्भे प्रत्ययविधानं कृतमस्ति । 'अल्प' तथा 'ह्रस्व' एतयोर्मध्ये सूक्ष्मः भेदः विद्यते । 'अल्प' इत्यनेन प्रमाणस्य मापनं क्रियते, तथा च 'ह्रस्व' इत्यनेन आयामस्य-

(अ) अल्प = little quantity ; यथा - अल्पम् तैलम् ।

(आ) ह्रस्व = short in length or size ; यथा - अल्पः पटः ।

इत्युक्ते, भाषायाम् 'अल्प' तथा 'ह्रस्व' शब्दाः भिन्नेषु अर्थेषु प्रयुक्ताः दृश्यन्ते । यत्र 'अल्प' इति शब्दः साधु अस्ति तत्र 'ह्रस्व' इत्यपि शब्दः साधु एव स्यात् इति नैव आवश्यकम् । अतएव द्वयोः अपि शब्दयोः भिन्नरूपेण ग्रहणम् क्रियते ।

Padamanjari

Up

index: 5.3.86 sutra: ह्रस्वे


यद्यपि वंशादिष्वल्पत्वह्रस्वत्वयोः समावेशो दृष्टः, तथापि घृतादिषु द्रवद्रव्येषु न कश्चिदाह - ह्रस्वं घृतम्, ह्रस्वं तैलमिति; तथा विस्तीर्णेष्वायामहीनेषु ह्रस्वः पट हत्युच्यते, न कश्चिदाह - अल्पः पट इति; तस्मादुभयनिर्देशः - ठल्पेऽ,'ह्रस्वे' इति ॥