अल्पे

5-3-85 अल्पे प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः

Sampurna sutra

Up

index: 5.3.85 sutra: अल्पे


अल्पे प्रातिपदिकात् तिङः च कः

Neelesh Sanskrit Brief

Up

index: 5.3.85 sutra: अल्पे


'अल्प' इत्यस्य विशेष्यरूपेण विहितात् प्रातिपदिकात् तिङन्तात् च स्वार्थे यथाविहितं प्रत्ययः भवति ।

Kashika

Up

index: 5.3.85 sutra: अल्पे


परिमाणापचये अल्पशब्दः। प्रकृतिविशेषणं च एतत्। अल्पत्वविशिष्टे अर्थे वर्तमानात् प्रातिपदिकात् यथाविहितंप्रत्ययो भवति। अल्पं तैलम् तैलकम्। घृतकम्। सर्वकम्। विश्वकम्। उच्चकैः। नीचकैः। पचतकि। जल्पतकि।

Siddhanta Kaumudi

Up

index: 5.3.85 sutra: अल्पे


अल्पं तैलं तैलकम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.85 sutra: अल्पे


'अल्प' (लघु / little quantity) इत्यस्य विशेष्यरूपेण विहितं यत् प्रातिपदिकम्, तस्मात् वर्तमानसूत्रेण स्वार्थे औत्सर्गिकः क-प्रत्ययः उत तस्य अपवादः विधीयते । यथा -

  1. अल्पम् तैलम् इत्येव = तैल + क → तैलकम् । A little oil इत्याशयः ।

  2. अल्पम् क्षीरम् इत्येव = क्षीर + क → क्षीरकम् ।

  3. अल्पम् घृतम् इत्येव = घृत + क → घृतकम् ।

अव्ययानाम्, सर्वनामशब्दानाम्, तथा च तिङन्तानाम् विषये अपि अस्य सूत्रस्य प्रसक्तिः विद्यते, परन्तु एतेभ्यः परस्य क-प्रत्ययस्य अपवादरूपेण अव्ययसर्वनाम्नामकच् प्राक् टेः 5.3.71 इति अकच्-प्रत्ययः विधीयते, सः च अङ्गस्य टि-संज्ञकात् पूर्वमागच्छति । उदाहरणानि एतानि -

  1. अल्पमुच्चैः (a little above) = उच्चैस् + अकच् → उच्चकैः ।

  2. अल्पम् सर्वम् (a little of everything) = सर्वम् + अकच् → सर्वकम् । 'सर्व' शब्दस्य विषये 'अकच्' प्रत्ययः सुबन्तात् अनन्तरम् विधीयते इति अव्ययसर्वनाम्नामकच् प्राक् टेः 5.3.71 इत्यत्र स्पष्टीकृतमस्ति ।

  3. अल्पम् पचति (Cooks a little quantity) = पचति + अकच् → पचतकि । 'देवदत्तः पचतकि' एतादृशमस्य प्रयोगः भवति ।

Balamanorama

Up

index: 5.3.85 sutra: अल्पे


अल्पे - अल्पे । अल्पत्वविशिष्टे वर्तमानाद्यथाविहितं प्रत्ययाः स्युः । तैलकमिति । 'सर्वकम्' 'उच्चकैः'पचतकी॑त्याद्यप्युदाहार्यम् ।