शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात्

5-3-84 शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः लोपः अचः

Sampurna sutra

Up

प्रातिपदिकात् अनुकम्पायाम् ठ-अजादौ शेवल-सुपरि-विशाल-वरुण-अर्यमा-आदीनाम् तृतीयात् ऊर्ध्वमचः लोपः

Neelesh Sanskrit Brief

Up

अनुकम्पायाम् गम्यमानायाम् विहिते ठकारादौ अजादौ वा प्रत्यये परे 'शेवल', 'सुपरि', 'विशाल', 'वरुण', 'अर्यमन्' एते शब्दाः यस्य आदौ सन्ति, तस्य अङ्गस्य तृतीयात् अच्-वर्णात् अनन्तरम् विद्यमानस्य शब्दखण्डस्य लोपः भवति ।

Kashika

Up

शेवलादीनां मनुष्यनाम्नां ठाजादौ प्रत्यये परतः तृतीयादच ऊर्ध्वस्य लोपो भवति। पूर्वस्यायमपवादः। अनुकम्पितः शेवलदत्तः शेवलिकः। शेवलियः। शेवलिलः। सुपरिकः। सुपरियः। सुपरिलः। विशालिकः। विशालियः। विशालिलः। वरुणिकः। वरुणियः। वरुणिलः। अर्यमिकः। अर्यमियः। अर्यमिलः॥ शेवलादीनां तृतीयादचो लोपः स चाकृतसन्धीनामिति वक्तव्यम्॥ शेवलेन्द्रदत्तः, सुपर्याशीर्दत्तः,शेवलिकः, सुपरिक इति यथा स्यात्। शेवलयिकः, सुपर्यिक इति मा भूत्॥

Siddhanta Kaumudi

Up

एषां मनुष्यनाम्नां ठाजादौ परे तृतीयादच ऊर्ध्वं लोपः स्यात् । पूर्वस्यापवादः । अनुकम्पितः शेवलदत्तः शेवलिकः । शेवलियः । सेवलिलः । सुपरिकः । विशालिकः । वरुणिकः । अर्यमिकः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<अनुकम्पायाम्>> 5.3.76 इत्यस्मात् सूत्रात् आरभ्य <<अजिनान्तस्योत्तरपदलोपश्च>> 5.3.82 इति सूत्रपर्यन्तम् सर्वेषु सूत्रेषु अनुकम्पायाम् गम्यमानायाम् भिन्नाः प्रत्ययाः उक्ताः सन्ति । यदि एषु कश्चन प्रत्ययः ठकारादिः अजादिः वा अस्ति, तर्हि औत्सर्गिकरूपेण <<ठाजादावूर्ध्वं द्वितीयादचः>> 5.3.83 इत्यनेन अङ्गस्य द्वितीयात् अच्-वर्णात् अनन्तरम् विद्यमानस्य शब्दखण्डस्य लोपे प्राप्ते ; 'शेवल', 'सुपरि', 'विशाल', 'वरुण', 'अर्यमन्' एते शब्दाः यस्य प्रारम्भे विद्यन्ते, तेषाम् विषये अपवादत्वेन अङ्गस्य तृतीयात् अच्-वर्णात् अनन्तरम् विद्यमानस्य शब्दखण्डस्य लोपः भवति । कानिचन उदाहरणानि एतानि - 1. अनुकम्पितः शेवलदत्तः = शेवलदत्त + ठच् / घन् / इलच् [<<बह्वचो मनुष्यनाम्नष्ठज्वा>> 5.3.78 इति ठच् । पक्षे <<घनिलचौ च>> 5.3.79 इत्यनेन 'घन्' तथा 'इलच्' एतौ प्रत्ययौ अपि भवतः] → शेवल + ठच् / घन् / इलच् [वर्तमानसूत्रेण तृतीयात् अचः अग्रे विद्यमानस्य शब्दखण्डस्य लोपः] → शेवल + इक / इय / इल [<<ठस्येकः>> 7.3.50 इति ठकारस्य 'इक्' आदेशः । <<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इत्यनेन घकारस्य 'इय्' आदेशः] → शेवल् + इक / इय + इल [<<यस्येति च>> 6.4.148 इति अकारलोपः] → शेवलिक / शेवलिय / शेवलिल एवमेव - 2. अनुकम्पितः सुपरिदत्तः = सुपरिकः / सुपरियः / सुपरिलः । 3. अनुकम्पितः विशालदत्तः = विशालिकः / विशालियः / विशालिलः । 4. अनुकम्पितः वरुणदत्तः = वरुणिकः / वरुणियः / वरुणिलः । 5. अनुकम्पितः अर्यमादत्तः = अर्यमिकः / अर्यमियः / अर्यमिलः । अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!शेवलादीनां तृतीयादचो लोपः स चाकृतसन्धीनाम् इति वक्तव्यम्!> । इत्युक्ते, यदि अङ्गस्य आदौ विद्यमानानाम् शेवलादीनाम् शब्दानाम् सन्धिकार्यम् कृतम् दृश्यते, तर्हि सन्धिच्छेदं कृत्वा ततः अस्य सूत्रस्य प्रयोगः करणीयः । यथा - अनुकम्पितः शेवलेन्द्रदत्तः = शेवलेन्द्रदत्त + ठच् / घन् / इलच् → शेवल+इन्द्रदत्त + ठच् / घन् / इलच् [सन्धिच्छेदः] → शेवल + ठच् / घन् / इलच् [तृतीयात् अच्-वर्णात् अनन्तरं विद्यमानः 'इन्द्रदत्त' इति खण्डः लुप्यते ।] → शेवलिक / शेवलिय / शेवलिल यदि अत्र सन्धिकार्यात् पूर्वमस्य सूत्रस्य प्रयोगः क्रियेत, तर्हि 'शेवले + ठच् / घन् / इलच्' इति अवशिष्य 'शेवलयिक / शेवलयिय / शेवलयिल' एतानि अनिष्टरूपाणि सिद्ध्येयुः । तत् तथा मा भूत्, अतः अस्य वार्त्तिकस्य निर्माणं कृतमस्ति ।

Balamanorama

Up

<<शेवलसुपरिविशालवरुणार्यमादीनां तृतीयात्>> - शेवल । एषामिति । शेवल, सुपरि, विशाल, वरुण, अर्यमन्-एतत्पूर्वपदकानामित्यर्थः । पूर्वस्येति । 'ठाजादौ' इत्यस्येत्यर्थः । शेवलिक इति । शेवलदत्त शब्दाट्ठचि तृतीयादचः परस्य दत्तशब्दस्य लोपः । शेवलिल इति । इलचि रूपम् । सुपरिक इति । सुपरिदत्तशब्दाट्ठचि दत्तशब्दलोपः । विशालिक इति । विशालदत्तशब्दाट्ठचि रूपम् । वरुणिक इति । वरुणदत्तात् — वरुणिकः । अर्यमिक इति । अर्यमदत्तात्-अर्यमिकः ।अकृतसन्धीनामेषा॑मिति वार्तिकं भाष्ये स्थितम् । तेन सुपर्याशीर्दत्तः सुपरिक इत्यादि सिध्यति ।

Padamanjari

Up

शेवलादीनामित्यादि। योऽयं शेवलादीनां तृतीयादच ऊर्ध्वस्य लोप उच्यते, सोऽकृतसन्धीनामेव वक्तव्यः। सन्धीयतेऽनेनेति संहिताकार्यमुच्यते ॥