संज्ञायां कन्

5-3-75 सञ्ज्ञायां कन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः कुत्सिते

Sampurna sutra

Up

index: 5.3.75 sutra: संज्ञायां कन्


कुत्सिते प्रातिपदिकात् संज्ञायां कन्

Neelesh Sanskrit Brief

Up

index: 5.3.75 sutra: संज्ञायां कन्


'कुत्सितः' इत्यस्य विशेषणरूपेण विहितात् प्रातिपदिकात् संज्ञायाः निर्देशार्थम् कन्-प्रत्ययः भवति ।

Kashika

Up

index: 5.3.75 sutra: संज्ञायां कन्


कुत्सिते इत्येव। कुत्सितत्वोपाधिकेऽर्थे वर्तमानात् प्रातिपैद्कात् कन्प्रत्ययो भवति, कस्य अपवादः, प्रत्ययान्तेन चेत् संज्ञा गम्यते। शूद्रकः। धारकः। पूर्णकः।

Siddhanta Kaumudi

Up

index: 5.3.75 sutra: संज्ञायां कन्


कुत्सिते कन् स्यात्तदन्तेन चेत्संज्ञा गम्यते । शूद्रकः । राधकः । स्वरार्थं वचनम् ॥

Neelesh Sanskrit Detailed

Up

index: 5.3.75 sutra: संज्ञायां कन्


सर्वेभ्यः प्रातिपदिकेभ्यः कुत्सिते 5.3.74 इत्यनेन स्वार्थे 'क' प्रत्ययः भवति । परन्तु केचन संज्ञावाचकाः शब्दाः केभ्यचन प्रातिपदिकेभ्यः 'कन्' प्रत्ययं कृत्वा सिद्ध्यन्ति । एतेषाम् साधुत्वज्ञापनार्थमस्य सूत्रस्य निर्माणम् कृतमस्ति । यथा -

  1. कुत्सितः (= निन्दितः) शूद्रः = शूद्र + कन् → शूद्रकः । कस्यचन राज्ञः इयम् संज्ञा ।

  2. कुत्सितः राधः (= inappropriate gift) = राध + कन् → राधकः ।

  3. कुत्सितः पूर्णः = पूर्णकः ।

ज्ञातव्यम् - 'क' प्रत्ययेन अपि ते एव शब्दाः सिद्ध्यन्ति ते 'कन्' प्रत्ययेन सिद्ध्यन्ति । परन्तु द्वयोर्मध्ये स्वरभेदः जायते । यथा, 'क'प्रत्ययान्तस्य 'शुद्रक' शब्दस्य ककारोत्तरः अकारः आद्युदात्तश्च 3.1.3 इत्यनेन उदात्तत्वं प्राप्नोति ।परन्तु 'कन्'प्रत्ययान्तस्य 'शूद्रक'शब्दस्य शकारोत्तरः उकारः ञ्नित्यादिर्नित्यम् 6.1.197 इत्यनेन उदात्तसंज्ञां प्राप्नोति । संज्ञारूपेण प्रयुज्यमाने 'शूद्रक' शब्दे शकारोत्तरः उकारः उदात्तः अस्ति, न हि ककारोत्तरः अकारः । अतएव अस्य शब्दस्य निर्माणार्थम् भिन्नरूपेण 'कन्' प्रत्ययः अस्मिन् सूत्रे उच्यते । एवमेव 'राधकः', 'पूर्णकः' एतादृशानां शब्दानां विषये अपि ज्ञेयम् ।

Balamanorama

Up

index: 5.3.75 sutra: संज्ञायां कन्


संज्ञायां कन् - संज्ञायां कन् । कुत्सिते इत्यनुवर्तते । तदाह — कुत्सित इति । तदन्तेन चेदिति । कुत्साहेतुकसंज्ञाविषये कनिति यावत् ।