तसेश्च

5-3-8 तसेः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः तसिल्

Sampurna sutra

Up

किम्-सर्वनामबहुभ्यः अद्व्यादिभ्यः तसेः तसिल्

Neelesh Sanskrit Brief

Up

सर्वादिगणे विद्यमानेभ्यः 'सर्व' इत्यस्मात् आरभ्य 'एक' इति यावत् शब्देभ्यः, 'बहु' शब्दात् तथा च 'किम्' शब्दात् विहितस्य 'तसि' प्रत्ययस्य 'तसिल्' आदेशः भवति ।

Kashika

Up

<<प्रतियोगे पञ्चम्यास्तसिः>> ५.४.४४,<<अपादाने चाहीयरुहोः>> ५.४.४५ इति वक्ष्यति। तस्य तसेः किंसर्वनामबहुभ्यः परस्य तसिलादेशो भवति। कुत आगतः। यतः। ततः। बहुत आगतः। तसेस्तसिल्वचनं स्वरार्थं विभक्त्यर्थं च॥

Siddhanta Kaumudi

Up

किंसर्वनामबहुभ्यः परस्य तसेस्तसिलादेशः स्यात् । स्वरार्थं विभक्त्यर्थं च वचनम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'तसि' इति कश्चन तद्धितप्रत्ययः स्वार्थिकप्रकरणे <<प्रतियोगे पञ्चम्यास्तसिः>> 5.4.44 तथा <<अपादाने चाहीयरुहोः>> 5.4.45 एताभ्याम् सूत्राभ्याम् पञ्चमीविभक्तिभ्यः शब्देभ्यः पाठितः अस्ति । यदि अयम् तसि-प्रत्ययः सर्वादिगणे विद्यमानेभ्यः 'सर्व' इत्यस्मात् आरभ्य 'एक' इति यावत् शब्देभ्यः, 'बहु' शब्दात् तथा च 'किम्' शब्दात् विधीयते, तर्हि तस्य वर्तमानसूत्रेण 'तसिल्' आदेशः भवति । यथा - कस्मात् + तसि [<<प्रतियोगे पञ्चम्यास्तसिः>> 5.4.44 इत्यनेन तसि-प्रत्ययः] → कस्मात् + तसिल् [वर्तमानसूत्रेण 'तसि' प्रत्ययस्य 'तसिल्' आदेशः] → किम् + तस् [<<कृत्तद्धितसमासाश्च>> 1.2.46 इति प्रातिपदिकसंज्ञा, <<सुपो धातुप्रातिपदिकयोः>> 2.4.71 इति पञ्चमीप्रत्ययस्य लुक्] → कु + तस् [<<किमः कः>> 7.2.103 इत्यनेन विभक्तिसंज्ञके प्रत्यये परे 'किम्' इत्यस्य 'क' इति आदेशे प्राप्ते तं बाधित्वा तकारादौ प्रत्यये परे <<कु तिहोः>> 7.2.104 इति 'कु' आदेशः ] → कुतः [<<ससजुषो रुँः>> 8.2.66 इति रुँत्वम् । <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] एवमेव 'यतः', 'ततः', 'सर्वतः' - आदयः शब्दाः अपि सिद्ध्यन्ति । ज्ञातव्यम् - 'तसि'-प्रत्ययस्य 'तसिल्' इत्यस्य आदेशस्य प्रयोजनद्वयम् - अ) 'तसिल्' प्रत्ययः विभक्तिसंज्ञकः अस्ति, अतः अस्मिन् आदेशे कृते विभक्तिविशिष्टाः आदेशाः (यथा - <<त्यदादीनामः>> 7.2.102, <<किमः कः>> 7.2.103 - आदयः) भवितुमर्हन्ति । 'तसिल्' आदेशः न भवेत् चेत् एते आदेशाः अपि न विधीयन्ते, अतः इष्टरूपम् न सिद्ध्येत । आ) 'तस्' प्रत्ययस्य आदिस्वरः तकारः <<आद्युदात्तश्च>> 3.1.3 इत्यनेन आद्युदात्तः भवति । परन्तु तसिल्-प्रत्यये परे <<लिति>> 6.1.193 इत्यनेन प्रत्ययात् पूर्वं विद्यमानः स्वरः उदात्तत्वं प्राप्नोति, न हि प्रत्ययस्य आदिस्वरः । एतम् स्वरभेदम् दर्शयितुमपि 'तसि' इत्ययस्य 'तसिल्' आदेशः आचार्येण प्रोक्तः अस्ति । स्मर्तव्यम् - तसिल्-प्रत्यये परे <<तसिलादिष्वाकृत्वसुचः>> 6.3.35 इत्यनेन स्त्रीवाचिनः अङ्गस्य पुंवद्भावः भवति । यथा - बह्व्याः इत्येव = बह्वी + तस् [<<प्रतियोगे पञ्चम्यास्तसिः>> 5.4.44 इत्यनेन तसि-प्रत्ययः] = बह्वी + तसिल् [वर्तमानसूत्रेण 'तसि' प्रत्ययस्य 'तसिल्' आदेशः] → बहु + तसिल् [पुंवद्वावः] → बहुतः ।

Balamanorama

Up

<<तसेश्च>> - तसेश्च । परस्य तसेरिति ।प्रतियोगे पञ्चम्यास्तसिः॑अपादाने चाहीयरुहो॑रिति वक्ष्यमाणस्य तसेरित्यर्थः । ननु तसेस्तसिल्किमर्थमित्यत आह — स्वराथमिति । लित्स्वरार्थमित्यर्थः । विभक्त्यर्थमिति । विभक्तिनिमित्तकत्यदाद्यत्वार्थमित्यर्थः । अन्यथा परत्वात्तसौ कृते तस्य अप्राग्दिशीयत्वाद्विभक्तित्वाऽभावात्त्यदाद्यत्वादिकं न स्यादित्यर्थः ।

Padamanjari

Up

तस्य तसेरिति। परत्वात्कृतस्य तसिलोऽवकाशः - कुतोऽवहीयते, कुतोऽवरोहतीति, तसेस्तु ग्रमत आगच्छतीत्यादिः; कुत आगच्छतीत्यादावुभयप्रसङ्गे परत्वातसकिर्भवति, तस्यानेन तसिलादेसः। तसेस्तसिल्वचनं स्वरार्थमिति। लित्करणस्योक्तं प्रयोजनम्। विभक्त्यर्थं चेति। विभक्तिसंज्ञार्थं चेत्यर्थः। अन्यथा परत्वातसौ कृते तस्याप्राग्दिशीयत्वाद्विभक्तिसंज्ञाया अभावात्यदाद्यत्वं न स्यादिति रूपमेव न सिद्ध्येत् ॥