5-3-6 सर्वस्य सः अन्यतरस्यां दि प्रत्ययः परः च आद्युदात्तः च तद्धिताः प्राक् दिशः विभक्तिः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः
index: 5.3.6 sutra: सर्वस्य सोऽन्यतरस्यां दि
सर्वस्य सः दि प्राग्दिशः अन्यतरस्याम्
index: 5.3.6 sutra: सर्वस्य सोऽन्यतरस्यां दि
प्राग्दिशीये दकारादौ तद्धितप्रत्यये परे 'सर्व' इत्यस्य विकल्पेन 'स' इति आदेशः भवति ।
index: 5.3.6 sutra: सर्वस्य सोऽन्यतरस्यां दि
सर्वस्य स इत्ययमादेशो भवति प्राग्दिशीये दकारादौ प्रत्यये परतोऽन्यतरस्याम्। सर्वदा। सदा। प्राग्दिशीये इत्येव, सर्वं ददातीति सर्वदा ब्राह्मणी।
index: 5.3.6 sutra: सर्वस्य सोऽन्यतरस्यां दि
प्राद्गिशीये दकारादौ प्रत्यये परे सर्वस्य सो वा स्यात् ॥
index: 5.3.6 sutra: सर्वस्य सोऽन्यतरस्यां दि
दादौ प्राग्दिशीये सर्वस्य सो वा स्यात्। सर्वस्मिन् काले सदा सर्वदा। अन्यदा। कदा। यदा। तदा। काले किम्? सर्वत्र देशे॥
index: 5.3.6 sutra: सर्वस्य सोऽन्यतरस्यां दि
'सर्व' इति सर्वनामशब्दः । सर्वैकान्यकिंयत्तदः काले दा 5.3.15 इत्यनेन 'दा' इति दकारादिः प्राग्दिशीयः विभक्तिसंज्ञकः तद्धितप्रत्ययः अस्मात् शब्दात् विधीयते । अस्मिन् प्रत्यये परे 'सर्व' इत्यस्य वर्तमानसूत्रेण विकल्पेन 'स' इति आदेशः भवति । सर्व + दा → सर्वदा, सदा । 'सर्वस्मिन् काले' इति उभयोः शब्दयोः अर्थः ।
स्मर्तव्यम् - अस्मिन् सूत्रे 'दकारादौ प्रत्यये परे' इति उच्यते । प्राग्दिशीय-प्रकरणे द्वौ दकारादौ प्रत्ययौ पाठ्येते - 'दानीम्' तथा 'दा' । एताभ्याम् 'दानीम्' इति प्रत्ययः 'सर्व' शब्दात् नैव विधीयते, अतः अस्य सूत्रस्य प्रसक्तिः केवलम् 'दा' प्रत्यये परे एव अस्ति ।
index: 5.3.6 sutra: सर्वस्य सोऽन्यतरस्यां दि
सर्वस्य सोऽन्यतरस्यां दि - सर्वस्य सो । 'दि' इति सप्तम्येकवचनं प्राग्दिशीयविशेषणम् ।यस्मिन्विधि॑रिति तदादिविधिः । तदाह — प्राग्दिशीये दकाराविति । सदा इत्युदाहरणम् ।
index: 5.3.6 sutra: सर्वस्य सोऽन्यतरस्यां दि
'दि' इति दकारदियं सप्तमी, तत्र'यस्मिन् विधिः' इति तदादेर्ग्रहणं विज्ञायत इत्याह - दकारादौ प्रत्यये परत इति। सर्वदा ब्राह्मणीति। किमर्थं स्त्रीलिङ्गोपन्यासः ? यो हि मन्यते - दीति दाशब्दादियं सप्तमी न तु दकारात्, तत्र क्त्वो ल्यप्,'हलः' 'श्नः' इत्यादिवदातो लोप इति, तं प्रति दाशब्दः प्रत्युदाहृतः। एवमपि लाक्षणिकत्वादत्र दाशब्दस्य न भविष्यति ? एवं विजन्तमेतद् द्रष्टव्यम्, एवं च कृत्वा पुंल्लिङ्गमप्युदाहरणं भवत्येव ॥