5-2-42 सङ्ख्यायाः अवयवे तयप् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा
'तत् अस्य' (इति) सङ्ख्यायाः अवयवे तयप्
प्रथमासमर्थात् सङ्ख्यावाचिशब्दात् 'अवयवाः अस्य' इत्यस्मिन् अर्थे तयप्-प्रत्ययः भवति ।
तदस्येत्येव। संख्याया अवयवे वर्तमानाया अस्येति षष्ठ्यर्थे तयप् प्रत्ययो भवति। अवयवा अवयविनः संबन्धिन इति सामर्थ्यादवयवी प्रत्ययार्थो विज्ञायते। पञ्च अवयवा अस्य पञ्चतयम्। दशतयम्। चतुष्टयम्। चतुष्टयी॥
पञ्चावयवा अस्य पञ्चतयं दारु ॥
पञ्च अवयवा अस्य पञ्चतमम् ॥
'अवयव' इत्युक्ते 'विभागः / parts'. कस्यचन पदार्थस्य निर्देशः तस्य विभागानाम् सङ्ख्यायाः साहाय्येन कर्तुमस्य सूत्रस्य प्रयोगः क्रियते । This sutra is used when an entity is to be expressed using the number of its parts. यथा - 'पञ्च अवयवाः अस्य' इत्यस्मिन् अर्थे 'पञ्चन्' शब्दात् 'तयप्' प्रत्ययः भवति । पञ्चन् + तयप् → पञ्च + तय [<<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इति नकारलोपः] → पञ्चतय । विशेषः - 'तयप्' प्रत्ययान्तशब्दाः शब्दः त्रिषु लिङ्गेषु प्रयुज्यते । पुंलिङ्गे एतेषाम् रूपाणि 'बाल'शब्दवत् भवन्ति । नपुंसकलिङ्गे अस्य रूपाणि 'फल'शब्दवत् भवन्ति । स्त्रीत्वे विवक्षिते <<टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः>> 4.1.15 इत्यनेन ङीप्-प्रत्ययं कृत्वा स्त्रीलिङ्गवाची प्रातिपदिकम् सिद्ध्यति, यस्य रूपाणि नदी'शब्दवत् भवन्ति । यथा - पञ्चतयी, पञ्चतय्यौ, पञ्चतय्यः । तथैव - 1) द्वौ अवयवौ अस्य तत् द्वितयम् । 2) त्रयः अवयवाः अस्य तत् त्रितयम् । 3) चत्वारः अवयवाः अस्य सः चतुष्टयः । प्रक्रिया इयम् - चतुर् + तयप् → चतुः + तय [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति रेफस्य विसर्गः] → चतुस् + तय [<<विसर्जनीयस्य सः>> 8.3.34 इति विसर्गस्य सकारादेशः] → चतुष् + तय [ <<ह्रस्वात् तादौ तद्धिते>> 8.3.101 इति षत्वम् ] → चतुष् + टय [<<ष्टुना ष्टुः>> 8.4.41 इति तकारस्य टकारादेशः] → चतुष्टय । 4) षट् अवयवाः अस्य सः षट्तयः । अत्र 'षष्' इति प्रातिपदिकमस्ति । प्रक्रिया इयम् - षष् + तयप् → षड् + तय [<<झलां जशोऽन्ते>> 8.2.39 इति जश्त्वम्] → षड् + तय [<<ष्टुना ष्टुः>> 8.4.41 इत्यनेन ष्टुत्वे प्राप्ते <<न पदान्ताट्टोरनाम्>> 8.2.42 इति निषेधः ; अतः तकारस्य टकारः न भवति ] → षट् + तय [<<खरि च>> 8.4.55 इति चर्त्वे डकारस्य टकारः] → षट्तय । 5) दश अवयवाः अस्य तत् दशतयम् । 6) विंशतिः अवयवाः यस्याः सा विंशतीतयी । 7) शतमवयवाः अस्य सः शततयः । स्मर्तव्यम् - <<प्रथमचरमतयाल्पार्धकतिपयनेमाश्च>> 1.1.33 इत्यनेन 'तयप्' प्रत्ययान्तशब्दाः पुंलिङ्गे जस्-प्रत्यये परे विकल्पेन सर्वनामसंज्ञां प्राप्नुवन्ति । सर्वनामसंज्ञायां सत्याम् इयम् प्रक्रिया विधीयते - पञ्चतय + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः] → पञ्चतय + शी [<<जसः शी>> 7.1.17 इत्यनेन अदन्तात् सर्वनामसंज्ञकात् परस्य 'जस्' प्रत्ययस्य 'शी' इति आदेशः भवति । अनेकाल्त्वात् <<अनेकाल्शित्सर्वस्य>> 1.1.55 इति सर्वादेशः ।] → पञ्चतय + ई [इत्संज्ञालोपः] → पञ्चतये [<<आद्गुणः>> 6.1.87 इति गुण-एकादेशः] यथा - पञ्चतये प्रश्नाः (Questions which have five parts each इत्यर्थः) । पक्षे 'पञ्चतयाः प्रश्नाः' इत्यपि साधु ।
<<संख्याया अवयवे तयप्>> - सङ्ख्यायाः । तदस्येत्यनुवर्तते । द्वित्र्यादिसङ्ख्याका अवयवा अस्यावयविन इति विग्रहे अवयवीभूतसङ्ख्यावाचिनः प्रथमान्तादस्यावयविन इत्यर्थे तयवित्यर्थः । पञ्चतयमिति । पञ्चावयवकः समुदाय इत्यर्थः ।
इहास्येत्यधिकारात्संख्याया अवयवे वर्तमानायाः स्वार्थे तावत्प्रत्ययो न भवति; अवयवस्वामिनि तु प्राप्नोति - पञ्च अवयवा अस्य देवदतस्येति। तत्राह - अवयवावयविनः सम्बन्धिन इति। अवयवशब्दस्य सम्बन्धिशब्दत्वाद्यं प्रत्यवयवत्वं तत्रैवावयविनि प्रत्यय इत्यर्थः। यथा द्वयसजादिषु प्रमाणे प्रकृत्यर्थे प्रमेयः प्रत्ययार्थः, तद्वत्। ????????? रेफस्य विसर्जनीये तस्य सत्वे'ह्रस्वातादौ तद्विते' इति षत्वम्,'टिड्ढाणञ्' इति ङीप् ॥