5-2-43 द्वित्रिभ्यां तयस्य अयच् वा प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा
index: 5.2.43 sutra: द्वित्रिभ्यां तयस्यायज्वा
द्वित्रिभ्याम् तयस्य अयच् वा
index: 5.2.43 sutra: द्वित्रिभ्यां तयस्यायज्वा
'द्वि' तथा 'त्रि' एताभ्याम् शब्दाभ्याम् विहितस्य 'तयप्' प्रत्ययस्य विकल्पेन 'अयच्' इति आदेशः भवति ।
index: 5.2.43 sutra: द्वित्रिभ्यां तयस्यायज्वा
पूर्वेण विहितस्य तयस्य द्वित्रिभ्यां परस्य वा अयजादेशो भवति। द्वौ अवयवौ अस्य द्वयम्, द्वितयम्। त्रयम्, त्रितयम्। तयग्रहणं स्थानिनिर्देशार्थम्। अन्यथा प्रत्ययान्तरमयज् विज्ञायेत। तत्र को दोषः? त्रयी गतिः इति तयनिबन्धन ईकारो न स्यात्, प्रथमचरमतयाल्पार्धकतिपय. नेमाश्च 1.1.33। इत्येष विधिर्न स्यात्। द्वये। द्वयाः। चकारः स्वरार्थः।
index: 5.2.43 sutra: द्वित्रिभ्यां तयस्यायज्वा
द्वयम् । द्वितयम् । त्रयम् । त्रितयम् ॥
index: 5.2.43 sutra: द्वित्रिभ्यां तयस्यायज्वा
द्वयम्। द्वितयम्। त्रयम्। त्रितयम्॥
index: 5.2.43 sutra: द्वित्रिभ्यां तयस्यायज्वा
संख्याया अवयवे तयप् 5.2.42 इत्यनेन सूत्रेण सङ्ख्यावाचिभ्यः शब्देभ्यः 'अवयवाः अस्य' अस्मिन् अर्थे 'तयप्' इति प्रत्ययः विधीयते । यदि अस्य प्रत्ययस्य अङ्गम् 'द्वि' तथा 'त्रि' एतत् अस्ति, तर्हि अस्य प्रत्ययस्य वर्तमानसूत्रेण विकल्पेन 'अयच्' इति आदेशः भवति । यथा -
= द्वि + तयप् [संख्याया अवयवे तयप् 5.2.42 इति तयप्-प्रत्ययः]
→ द्वि + अयच् ['तयप्' प्रत्ययस्य वर्तमानसूत्रेण वैकल्पिकः 'अयच्' आदेशः]
→ द्व् + अयच् [यस्येति च 6.4.148 इति इकारलोपः]
पक्षे 'अयच्' आदेशस्य अप्राप्तौ 'द्वितय' इति प्रातिपदिकमपि सिद्ध्यति । द्वौ अवयवौ यस्य तत् द्वयम् द्वितयम् वा ।
= त्रि + तयप् [संख्याया अवयवे तयप् 5.2.42 इति तयप्-प्रत्ययः]
→ त्रि + अयच् ['तयप्' प्रत्ययस्य वर्तमानसूत्रेण वैकल्पिकः 'अयच्' आदेशः]
→ त्र् + अयच् [यस्येति च 6.4.148 इति इकारलोपः]
पक्षे 'अयच्' आदेशस्य अप्राप्तौ 'त्रितय' इति प्रातिपदिकमपि सिद्ध्यति । त्रयः अवयवाः यस्य तत् त्रयम् त्रितयम् वा ।
विशेषः - यदि आचार्यः अस्मिन् सूत्रे 'तयस्य' इति न उक्त्वा 'अयच्' प्रत्ययस्य स्वतन्त्ररूपेण विधानम् कुर्यात्, तर्हि अपि एते एव रूपे भवेताम् । एवं सति 'अयच्' इति प्रत्ययः स्वतन्त्ररूपेण किमर्थम् न उच्यते , तयप्-प्रत्ययस्य आदेशरूपेण किमर्थमुच्यते - इति प्रश्नः उपतिष्ठति । अस्य उत्तरम् एतत् - 'तयप्' प्रत्ययस्य आदेशरूपेण उक्तः अयच्-प्रत्ययः स्थानिवद्भावेन 'तयप्' प्रत्ययस्य गुणान् अपि स्वीकरोति । यथा -
अ) स्त्रीत्वे विवक्षिते तयप्-प्रत्ययान्तशब्दाः यथा टिड्ढाणञ्द्वयसज्दघ्नञ्मात्रच्तयप्ठक्ठञ्कञ्क्वरपः 4.1.15 इत्यनेन ङीप्-प्रत्ययम् प्राप्नुवन्ति, तथैव अयच्-प्रत्ययान्तशब्दाः अपि प्राप्नुवन्ति ; येन 'द्वयी, त्रयी' एते रूपे सिद्ध्यतः । यदि 'अयच्' इति स्वतन्त्ररूपेण ब्रूयात्, तर्हि स्त्रीत्वे विवक्षिते ङीप्-प्रत्ययः न विधीयेत ।
(आ) यथा तयप्-प्रत्ययान्तशब्दाः जस्-प्रत्यये परे प्रथमचरमतयाल्पार्धकतिपयनेमाश्च 1.1.33 इत्यनेन विकल्पेन सर्वनामसंज्ञां प्राप्नुवन्ति; तथैव 'अयच्' प्रत्ययान्तशब्दाः अपि विकल्पेन सर्वनामसंज्ञकाः भवन्ति । सर्वनामसंज्ञायां प्राप्तायाम् जस्-प्रत्ययस्य विकल्पेन इकारादेशः भवति, येन 'द्वये', 'त्रये' एते रूपे सिद्ध्यतः । यदि अयच्-प्रत्ययः स्वतन्त्ररूपेण विधीयेत, तर्हि एते रूपे न सिद्ध्येताम् ।
index: 5.2.43 sutra: द्वित्रिभ्यां तयस्यायज्वा
द्वित्रिभ्यां तयस्यायज्वा - द्वित्रिभ्यां द्वित्रिभ्यां परस्य तयपोऽयज्वा स्यादित्यर्थः । द्वयमिति । द्विशब्दात्तयपोऽयचिःयस्येति चे॑ति इकारलोपः । द्व्यवयवकसमुदाय इत्यर्थः । एवम् त्रयम् ।
index: 5.2.43 sutra: द्वित्रिभ्यां तयस्यायज्वा
ननु तयः प्रकृतः सोऽनुवर्तिष्यते,'द्वित्रिभ्याम्' इति पञ्चमी,'तस्मादित्युतरस्य' इति तस्य षष्ठ।ल्न्ततां सम्पादयिप्यति; तत्किं'तयस्य' इत्यनेन ? तत्राह - तयब्ग्रहणमित्यादि। असत्यामपेक्षायामनुवृत्तिः षष्ठीप्रकृतिश्च दुर्जानेति बावः। अथ प्रत्ययान्तरे को दोषः ? त्रयी गतिरिति तयब्निबन्धन ईकारो न स्यात्,'प्रथमचरमतय' क इति चैष विधिर्न स्याद् - द्वये, द्वया इति। क्वचित् तत्र को दोष इत्यादि वृतावेव वृतावेव पठ।ल्ते। चकारः स्वरार्थ इति। तेन स्थानिवद्भावेनानुदातत्वं न भवति ॥