ह्रस्वात् तादौ तद्धिते

8-3-101 ह्रस्वात् तादौ तद्धिते पूर्वत्र असिद्धम् संहितायाम् अपदान्तस्य मूर्धन्यः सः इण्कोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ह्रस्वादुत्तरस्य सकारस्य मूर्धन्यादेशो भवति तादौ तद्धिते परतः। तरप् तमप् तय त्व तल् तस् त्यप् एतानि प्रयोजयन्ति। तरप् — सर्पिष्टरम्। यजुष्टरम्। तमप् — सर्पिष्टमम्। यजुष्टमम्। तय — चतुष्टये ब्राह्मणानां निकेताः। त्व — सर्पिष्ट्वम्। यजुष्ट्वम्। तल् — सर्पिष्टा। यजुष्टा। तस् — सर्पिष्टः। यजुष्टः। त्यप् — आ॒विष्ट्यो॑ वर्धते॒ (ऋ० १.९५.५)। ह्रस्वादिति किम्? गीस्तरा। धूस्तरा। तादाविति किम्? सर्पिस्साद् भवति। प्रत्ययसकारस्य <<सात्पदाद्योः>> ८.३.१०९ इति सत्यपि प्रतिषेधे प्रकृतिसकारस्य स्यात्। तद्धित इति किम्? सर्पिस्तरति॥ तिङन्तस्य प्रतिषेधो वक्तव्यः॥ भिन्द्युस्तराम्। छिन्द्युस्तराम्॥

Siddhanta Kaumudi

Up

ह्रस्वादिणः परस्य सस्य षः स्यात्तादौ तद्धिते । निर्गतो वर्णाश्रमेभ्यो निष्टयश्चाण्डालादिः ।<!अरण्याण्णः !> (वार्तिकम्) ॥ आरण्याः सुमनसः ।<!दूरादेत्यः !> (वार्तिकम्) ॥ दूरेत्यः । उत्तरादाहञ् ॥ औत्तराहः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ह्रस्वात् तादौ तद्धिते>> - एति संज्ञायामगात् । एकारे परे सस्य षः स्यादित्यर्थः ।

Padamanjari

Up

ततक्षुः ष्विति सकारान्तानुकरणात्परस्य सुष्सकारस्य'नुम्विसर्जनीयशर्व्यवाये' पिऽ इति षत्वम् । तकारादिष्विति । एतद्यौष्मद एव विशेषणम्; इतरयोरव्यभिचारात् । त्वं त्वा इत्यादि । एतेषामेव सम्भव इत्यर्थः । अग्निस्तत्पुनराहेति । अग्निरित्ययं पूर्वस्य पादस्यान्तः - यन्म आत्मनो मिन्दाभूदग्निरिति; तेनायं पादान्ते सकारः, न पादमध्ये ॥