5-2-1 धान्यानां भवने क्षेत्रे खञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा
धान्यानाम् भवने क्षेत्रे खञ्
धान्यविशेषवाचिभ्यः षष्ठीसमर्थेभ्यः शब्देभ्यः तेषामुत्पत्तेः क्षेत्रस्य निर्देशार्थम् खञ् प्रत्ययः भवति ।
निर्देशादेव समर्थविभक्तिः। धान्यविशेषवाचिभ्यः षष्ठीसमर्थेभ्यो भवनेऽभिधेये खञ् प्रत्ययो भवति, तच्चेद् भवनं क्षेत्रं भवति। भवनमिति भवन्ति जायन्तेऽस्मिन्निति भवनम्। मुद्गानां भवनं क्षेत्रं मौद्गीनम्। कौद्रवीणम्। कौलत्थीनम्। धान्यानामिति किम् ? तृणानां भवनं क्षेत्रमित्यत्र न भवति। क्षेत्रमिति किम् ? मुद्गानां भवनं कुसूलम्। बहुवचनं स्वरूपविधिनिरासार्थम्॥
भवन्त्यस्मिन्निति भवनम् । मुद्गानां भवनं क्षेत्रं मौद्गीनम् ॥
भवत्यस्मिन्निति भवनम्। मुद्गानां भवनं क्षेत्रं मौद्गीनम्॥
अस्मिन् सूत्रे चत्वारः शब्दाः प्रयुक्ताः सन्ति - 1) धान्यानाम् - अयम् षष्ठीसमर्थः । धान्यवाचिभ्यः शब्देभ्यः प्रत्ययविधानम् भवति - इत्यर्थः । अत्र बहुवचनस्य रूपम् 'स्वरूपविधिनिरासार्थम्' प्रयुक्तमस्ति । इत्युक्ते, 'धान्यानाम्' इत्यनेन 'धान्य' इत्यस्य शब्दरूपस्य निर्देशः न भवति अपितु धान्यवाचिनः शब्दस्य (यथा - मुद्ग, तण्डुल - आदयः) निर्देशः भवति । 2) भवने - भू-धातोः ल्युट्-प्रत्ययान्तरूपम् 'भवन' इति । भवति / जायते यत्र तत् भवनम् । अत्र <<करणाधिकरणयोश्च>> 3.3.117 इत्यनेन अधिकरणे ल्युट्-प्रत्ययः कृतः अस्ति । 3) क्षेत्रे - क्षेत्र (farm) इत्यस्य सप्तम्येकवचनमस्य रूपम् । अयम् शब्दः 'भवन' इत्यस्य विशेषणरूपेण प्रयुक्तः अस्ति । धान्यानामुत्पत्तिस्थानम् (= भवनम्) यदि क्षेत्रमस्ति, तर्हि एव अस्य सूत्रस्य प्रयोगः भवति - इति आशयः । 4) खञ् - अयम् तद्धितप्रत्ययः । अत्र ञकारः इत्संज्ञकः अस्ति, तस्य च प्रयोजनद्वयम् - <<ञ्नित्यादिर्नित्यम्>> 6.1.197 इत्यनेन तद्धितान्तस्य आद्युदात्तत्वम्, तथा च <<तद्धितेष्वचामादेः>> 7.2.117 इत्यनेन आदिवृद्धिः । अतः अस्य सूत्रस्य अर्थः अयम् - षष्ठीसमर्थात् धान्यवाचिशब्दात् तस्य निर्मितेः क्षेत्रस्य निर्देशं कर्तुं खञ् प्रत्यय भवति । यथा - मुद्गानाम् भवनम् क्षेत्रम् मौद्गीनम् । प्रक्रिया इयम् - मुद्ग + खञ् → मुद्ग + ईन [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ईन-आदेशः] → मौद्ग + ईन [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → मौद्ग् + ईन [<<यस्येति च>> 6.4.148 इति अकारलोपः] → मौद्गीन तथैव - कुलत्थानाम् भवनम् क्षेत्रम् कौलत्थीनम् । कोद्रवानामुत्पत्तिस्थानम् कौद्रवीनम् । ज्ञातव्यम् - अस्मिन् सूत्रे 'भवने' तथा 'क्षेत्रे' द्वयोः ग्रहणम् कृतमस्ति । अस्य प्रयोजनम् 'भवन-शब्दस्य अर्थनियमनम्' इति अस्ति । इत्युक्ते, वस्तुतः 'भवन' शब्दस्य अर्थः 'भवति / अस्ति / विद्यते यत्र, तत् भवनम्' एतादृशमपि भवितुमर्हति । अतः धान्यभाण्डारम् (storage unit) अपि धान्यानाम् भवनमस्तीति वक्तुम् शक्यते । परन्तु 'क्षेत्रे' इत्यस्य ग्रहणेन केवलम् क्षेत्रस्य निर्देशार्थम् एव अस्य सूत्रस्य प्रयोगः कर्तव्यः - इति स्पष्टीभवति, येन 'भवन'शब्दस्य अर्थः अपि केवलम् 'जायते / उद्भवति यत्र तत् भवनम्' इति नियम्यते । अतः सूत्रार्थे 'भवन' शब्दस्य अर्थः 'उत्पत्ति-क्षेत्रम्' इति उक्तः अस्ति । एतदेव स्पष्टीकर्तुम् न्यासकारः वदति - 'क्षेत्रग्रहणे त्वसति, भवतिः सत्तावचनोऽपि गृह्रते। तथा कुसूलेऽपि प्रसज्येत' । इत्युक्ते, 'क्षेत्र' शब्दः न स्वीक्रियेत चेत् 'भवन' इत्यनेन 'कुसूल' (store-room) शब्दात् अपि प्रत्ययः विधीयते, यः च न इष्यते । अतएव अत्र 'क्षेत्र'ग्रहणमावश्यकमस्ति ।
<<धान्यानां भवने क्षेत्रे खञ्>> - अथ पाञ्चमिका निरूप्यन्ते । धान्यानां भवने । धान्यवाचिभ्यः षष्ठन्तेभ्यो भने क्षेत्रेऽर्थे खञित्यर्थः । भवनशब्दस्य भावल्युडन्तत्वे क्षेत्रशब्दसामानाधिकरण्यानुपपत्तेराह — भवन्त्यस्मिन्निति । भवनमिति । भूधातुरुत्पत्तिवाची । उत्पत्तिस्थानं भवनमिति लभ्यते । धान्योत्पत्तिस्थानं क्षेत्रम् ।केदारः क्षेत्र॑मित्यमरः । क्षेत्रशब्दाऽभावे भूधातोः सत्तावाचित्वमाश्रित्य यत्र विद्यते तद्भवनमिति व्युत्पत्त्या आधारसामान्यं गृहकुसूलादिलभ्येत, अतः क्षेत्रपदम् । भवनपदाऽभावे तु क्षेत्रशब्देन सेतुवन्धकाश्यादिपुण्यप्रदेशोऽपि लभ्येत, अतो भवनपदम् । उभयोपादाने तु धान्योत्पत्तिप्रदेश एव लभ्यत इति न पौनरुक्त्यम् ।
धिनोतेः'कृत्यल्युटो बहुलम्' इति कर्तरि ण्यत्, अस्मादेव निपातनादन्त्यस्य लोपः, इकारस्य चात्वम्। धिनोतीति धान्यम्।'धान्यमसि धिनुहि देवान्' इति हि दृश्यते। धान्यानामिति भवनापेक्षया कर्तरि षष्ठी। भवनमित्यधिकरणे ल्युट्। क्षियष्ट्रन्, क्षेत्रम्। भवति जायतेऽस्मिन्निति भवनमिति। एतेनोत्पतिवचनोऽत्र भवतिर्गृह्यते, न सतावचन इति दर्शयति। एतच्च क्षेत्रग्रहणाल्लभ्यते। क्षेत्रशब्दो हि तृणानां धान्यानां चोत्पत्याधारमाचष्टे। न हि धान्यानां सतां प्रति भूमिः क्षेत्रव्यपदेशमासादयति। मुद्रानां भवनं कुसूलमिति। असति क्षेत्रग्रहणे सतावचनस्यापि भवतेर्ग्रहणं स्यादिसि भावः। किञ्च - भवनशब्दो गृदे रुढ इति मुद्गानां गृहमित्यत्रैव प्रसङ्ग इत्यपि शक्यते वक्तुम्। यदि तर्हिह क्षेत्रग्रहणमवश्यं कर्तव्यम्, तदेवास्तु, किं भवनग्रहणेन ? धान्यानामिति शेषलक्षणषष्ठी, क्षेत्रं प्रत्ययार्थः। न चैवं क्षेत्रशब्दस्यापि शरीरभार्याद्यनेकार्थत्वादतिप्रसङ्ग; धान्यसम्बन्धादुत्पत्तिभूमिरेव प्रत्यष्यते। तदेतद्भवनग्रहणं चिन्त्यप्रयोजनम् ॥