1-2-66 स्त्री पुंवत् च एकशेषः वृद्धः यूना तल्लक्षणः चेत् एव विशेषः
index: 1.2.66 sutra: स्त्री पुंवच्च
शेषः इति वर्तते, वृद्धो यूना इति च सर्वम् स्त्री वृद्धा यूना सहवचने शिष्यते, तल्लक्षणश्चेदेव विशेषो भवति। पुंसः इव अस्याः कार्यं भवति। स्त्र्यर्थः पुमर्थवद् भवति। गर्गी च गर्ग्यायणश्च गार्ग्यौ। वात्सी च वात्स्यायनश्च वात्स्यौ। दाक्षी च दाक्षायाणश्च दाक्षी।
index: 1.2.66 sutra: स्त्री पुंवच्च
यूना सहोक्तौ वृद्धा स्त्री शिष्यते तदर्थश्च पुंवत् । गार्गी च गार्ग्यायणौ च गर्गाः । अस्त्रियामित्यनुवर्तमाने यञञोश्च <{SK1108}> इति लुक् । दाक्षी च दाक्षायणश्च दाक्षी ॥
index: 1.2.66 sutra: स्त्री पुंवच्च
स्त्री पुंवच्च - स्त्री पुंवच्च ।वृद्धेति स्त्रीलिङ्गेन विपरिणम्यते । तदाह — यूना सहोक्तौ वृद्धा स्त्री शिष्यत इति । गोत्रप्रत्ययान्तः स्त्रीवाचकः शब्दः शिष्यत इति भावः । स्त्रीत्वस्य वैरूप्यकारणस्याधिकस्य सत्त्वात् सत्त्वात् पूर्वेणाऽप्राप्ते वचनमिदम् । तदर्थ इति । तस्य=शिष्यमाणस्य स्त्रीवाचकगोत्रप्रत्ययान्तस्यार्थः पुमानिव स्यादित्यर्थः । गर्गी चेति । गर्गस्यापत्यं स्त्रीत्यर्थः । गर्गादियञन्तात्यणश्चे॑ति ङीप् । गाग्र्यायणौ चेति । गर्गाद्यञन्ताद्यून्यपत्येयञिञोश्चे॑ति फक् । गर्गा इति । अत्र स्त्रीत्वकृतवैरूप्याधिक्येऽपि गोत्रप्रत्ययान्तः स्त्रीवाचको गार्गीशब्दः शिष्यते । स पुंवत् । कर्हि यञ् कितो न श्रूयत इत्यत आह — अस्त्रियामितीति । उपलक्षणमिदम् ।तद्राजस्य बहुषु तेनैवास्त्रियामि॑त्यतोऽस्त्रियामिति, तेनैवेति, बहुष्विति चानुवर्तमाने सतीत्यर्थः । एतेनपुंव॑दित्यतस्य प्रयोजनमुक्तम् । गार्गी च गाग्र्यायणश्चेति विग्रहस्तु न दर्शितः । तता सत्यबहुत्वाद्यञो लुगभावे सति पुंस्त्वे स्त्रीत्वे च रूपं तुल्यं — गाग्र्याविति । तत्र पुंवत्त्वं निरर्थकं स्यात् । उदाहरणान्तरमाह — दाक्षी चेति । दक्षस्य गोत्रा पत्यं स्त्री दाक्षी ।अत इञि॑तीञन्तात्इतो मनुष्यजाते॑रिति ङीष् । दाक्षायणश्चेति । दक्षस्यापत्यं पुमान् दाक्षिः, तस्यापत्यं युवा दाक्षायणः ।यञिञोश्चे॑ति फक् । दाक्षी च दाक्षीयणश्चेति विग्रहे दाक्षीशब्दः शिष्यते । तस्य पुंवत्त्वे निरर्थकं स्यात् । उदाहरणान्तरमाह — दाक्षी चेति । दक्षस्य गोत्रापत्यं स्त्री दाक्षी ।अत इञि॑तीञन्तात्इतो मनुष्यजाते॑रिति ङीष् । दाक्षायणश्चेति । विग्रहे दाक्षीशब्दः शिष्यते । तस्य पुंवत्त्वे सति ङीषो निवृत्तौ दाक्षिशब्दात् प्रथमाद्विवचनेदाक्षी॑इति भवति । अत्र तल्लक्षणश्चेदेव विशेष इत्यप्यनुवर्तते । ततश्च भागवित्ती च भागवित्तिकश्च, गर्गी च वात्स्याययनश्चेत्यत्र न भवति ।
index: 1.2.66 sutra: स्त्री पुंवच्च
स्त्रीत्वस्य वैरूप्यकारणस्याधिक्याद्वचनं पुंवच्चेति वक्ष्यामीति च । अत्र स्त्रीशब्दस्य स्वरित्वे स्त्र्यधिकारविहितानां टाबादीनां ग्रहणादयमर्थो भवति- पुंवत् स्त्रीप्रत्ययो न भवति । यथा पुंवदस्यास्तनावित्यभावातिदेशस्तद्वत् । ततश्च स्त्रीत्वस्यानिवृतत्वाद् गार्ग्यश्च स्त्रियो गार्ग्यायणश्च गर्गा इत्यत्र ऽयञञोश्चऽ इति लुग् न स्यात् । ऽअस्त्रियाम्ऽ इत्यधिकारात् प्रसज्यप्रतिषेधेऽयं दोषः । पर्युदासे तु शिष्यमाणस्य निवर्तमानार्थाभिधायित्वादिस्ति स्त्रीसदृशोऽयं दोषः ।च पर्युदासे तु शिष्यमाणस्य निवर्तमानार्थाभिधायित्वादस्ति स्त्रीसदृशोऽर्थं इति सिद्ध्यति । इह तु गर्गान्पश्येति स्त्रीत्वस्यानिवृतत्वान्नायं पुंसां बहुत्वे शस् उत्पन्न इति नत्वं न स्यात् । स्त्र्यर्थवृतेः शब्दस्य तु ग्रहणे स्त्रीशब्दस्य पुंशब्दस्येव रूपं भवतीत्यर्थः स्यात् । स्त्रीत्वं त्वनुवृतमेव । तत्र यद्यपि गर्गा इति बहुषु पुंशब्दस्य रूपमिति तस्मिन्नतिदिष्टे जसादिषु न दोषः, नत्वं तु विभक्तिकार्यं न स्यात् । एवं स्त्र्यर्थग्रहणे तु पुमर्थातिदेशातत्प्रतिबद्धानां कार्याणां सिद्धिरिति न कश्चिद् दोषः । स्त्रीति चोक्तेऽर्थ एव प्रतीयते । शब्दानामर्थपरत्वात्स्वरूपग्रहणं त्वनाशङ्क्यमेव; वृद्धो यूनेत्यनुवर्तनाद् । अतोऽर्थस्यैव ग्रहणमित्याह-स्त्र्यर्थः पुमर्थवद्भवतीति । गार्गी चेत्यादि । गार्ग्यवात्स्यशब्दाभ्याम् । ऽयञश्चऽ इति ङीप् । दाक्षीति । ऽइतो मनुष्यजातेःऽ दाक्षी इति ङीषि निवृते इञन्ताद् द्विचने ऽप्रथमयोःऽ इति दीर्घः । इतमपि द्वन्द्वनिवृत्यर्थमेव वचनम् ॥