दामहायनान्ताच्च

4-1-27 दामहायनान्तात् च प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् बहुव्रीहेः सङ्ख्याव्ययादेः ङीप्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

यस्य बहुव्रीहिसमासस्य उत्तरपदम् 'दामन्' उत 'हायन', तथा च यस्य पूर्वपदस्य प्रारम्भः सङ्ख्यावाचकशब्देन भवति, तस्मात् समस्तपदात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति ।

Kashika

Up

ऊधस इति निवृत्तम्। संख्याग्रहणमनुवर्तते, नाव्ययग्रहणम्। संख्यादेर्बहुव्रीहेर्दामशब्दान्ताद् हायनशब्दान्तात् च स्त्रियां ङीप् प्रत्ययो भवति। दामान्तात् डाप्प्रतिषेधविकल्पेषु प्राप्तेषु नित्यार्थं वचनम्। द्विदाम्नी। त्रिदाम्नी। हायनान्तात् टापि प्राप्ते, द्विहायनी। त्रिहायणी। चतुर्हायणी॥ हायनो वयसि स्मृतः॥ तेनेह न भवति — द्विहायना शाला। त्रिहायना। चतुर्हायना। <<णत्वमपि त्रिचतुर्भ्यां हायनस्येति वयस्येव स्मर्यते>> (महाभाष्य २.२१३)॥

Siddhanta Kaumudi

Up

सङ्ख्यादेर्बहुव्रीहेर्दामान्ताद्धायनान्ताच्च ङीप् स्यात् । दामान्ते डाप्प्रतिषेधयोः प्राप्तयोर्हायनान्ते टापि प्राप्ते वचनम् । द्विदाम्नी । अव्ययग्रहणाऽननुवृत्तेरुद्दामा वडवेत्यत्र डाब्निषेधावपि पक्षे स्तः । द्विहायनी बाला ॥<!त्रिचतुर्भ्यां हायनस्य णत्वं वाच्यम् !> (वार्तिकम्) ।<!वयोवाचकस्यैव हायनस्य ङीप् णत्वं चेष्यते !> (वार्तिकम्) ॥ त्रिहायणी । चतुर्हायणी । वयसोऽन्यत्र । त्रिहायना चतुर्हायना शाला ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<स्त्रियाम्>> 4.1.3 इत्यस्मिन् अधिकारे पाठितेषु नवसु स्त्रीप्रत्ययेषु अपरः ङीप् प्रत्ययः प्रकृतसूत्रेण पाठ्यते । यस्य बहुव्रीहिसमासस्य उत्तरपदम् दामन् (string) अथवा हायन (वर्षम्) इति अस्ति तथा च यस्य पूर्वपदस्य प्रारम्भः सङ्ख्यावाचकशब्देन भवति, तस्मात् समस्तपदात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः भवति — इति अस्य सूत्रस्य अर्थः । क्रमेण उदाहरणे एतादृशे — 1. दामन्-शब्दान्त-सङ्ख्यादि-बहुव्रीहिसमासः — द्वे दाम्नी अस्याः इत्यत्र द्वि + दामन् इति बहुव्रीहिसमासे कृते स्त्रीत्वं द्योतयितुम् <<डाबुभाभ्यामन्यतरस्याम्>> 4.1.13 इत्यनेन वैकल्पिके डाप्-प्रत्यये प्राप्ते; तथा च <<अन उपधालोपिनोन्यतरस्याम्>> 4.1.28 इत्यनेन वैकल्पिके ङीप्-प्रत्यये प्राप्ते, द्वौ अपि बाधित्वा प्रकृतसूत्रेण नित्यं ङीप्-प्रत्ययस्य विधानं भवति, येन द्विदाम्नी इति शब्दः सिद्ध्यति । प्रक्रिया इयम् — द्वे दाम्नी अस्याः धेनोः → द्वि + दामन् + ङीप् [<<अनेकमन्यपदार्थे>> 2.2.24 इति बहुव्रीहिसमासः । तत्र स्त्रीत्वं द्योतयितुम् <<दामहायनान्ताच्च>> 4.1.27 इत्यनेन ङीप्-प्रत्ययः भवति] → द्वि + दाम्न् + ई [<<अल्लोपोऽनः>> 6.4.134 इति अकारलोपः]। → द्विदाम्नी प्रकृतसूत्रे सङ्ख्यादिः इति पदम् अनुवर्तते, अतः द्विविधे दाम्नी अस्याः = द्विविध + दामन् + ङीप् → द्विविधदाम्नी इत्यपि प्रयोगः सिद्ध्यति । 2. हायन-शब्दान्त-सङ्ख्यादि-बहुव्रीहिसमासः — द्वे हायनी अस्याः इत्यत्र द्वि + हायन इति बहुव्रीहिसमासे कृते स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन वैकल्पिके टाप्-प्रत्यये प्राप्ते तद्बाधित्वा प्रकृतसूत्रेण नित्यं ङीप्-प्रत्ययः विधीयते, येन द्विहायनी इति शब्दः सिद्ध्यति । प्रक्रिया इयम् — द्वे हायने अस्याः बालिकायाः (a girl who is two years old) → द्वि + हायन + ङीप् [<<अनेकमन्यपदार्थे>> 2.2.24 इति बहुव्रीहिसमासः । तत्र स्त्रीत्वं द्योतयितुम् <<दामहायनान्ताच्च>> 4.1.27 इत्यनेन ङीप्-प्रत्ययः भवति] → द्वि + हायन् + ई [<<यस्येति च>> 6.4.148 इति अकारलोपः]। → द्विहायनी हायन-शब्दस्य सन्दर्भे अत्र व्याख्यानेषु द्वे वार्त्तिके अपि पाठिते स्तः — 1. <!त्रिचतुर्भ्यां हायनस्य णत्वं वाच्यम्!> — यस्य बहुव्रीहिसमासस्य उत्तरपदम् हायन इति शब्दः अस्ति; तथा च पूर्वपदम् त्रि अथवा चतुर् इति शब्दः अस्ति; तस्य विषये समस्तपदनिर्माणसमये हायन-शब्दस्य नकारस्य णत्वं भवति — इति अस्य वार्त्तिकस्य अर्थः । यथा, त्रीणि हायनानि अस्या: बालिकायाः इत्यत्र त्रि + हायन + ङीप् → त्रिहायणी इति णत्वे कृते अन्तिमं रूपं सिद्ध्यति । एवमेव, चत्वारि हायनानि अस्या: बालिकायाः इत्यत्रापि चतुर् + हायन + ङीप् → चतुर्हायणी इति णत्वे कृते अन्तिमं रूपं सिद्ध्यति । 2. <!वयोवाचकस्यैव हायनस्य ङीप् णत्वं चेष्यते!> — यत्र हायन इति शब्दः वयः (age) अस्मिन् अर्थे प्रयुज्यते; तत्रैव प्रकृतसूत्रस्य प्रयोगः (तदनुषङ्गेन णत्वस्य च विधानम्) भवति — इति अस्य वार्त्तिकस्य अर्थः । यदि हायन-शब्दः वयोवाचिनि अर्थे नैव प्रयुक्तः विद्यते; तर्हि प्रकृतसूत्रं तत्र नैव प्रयोक्तव्यम्, इति अत्र आशयः अस्ति । यथा, त्रीणि हायनानि अस्या: शालायाः इत्यत्र हायन-शब्देन केवलं वर्षस्य निर्देशः भवति, वयसः न — यतः वयः केवलम् प्राणिनां सम्भवति, न हि शालादिकानां पदार्थानाम् । अस्यां स्थितौ त्रि + हायन इति स्थिते अत्र न हि प्रकृतसूत्रेण ङीप्-प्रत्ययः भवति; न च णत्वम् अपि विधीयते । अतः अत्र <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्यये कृते त्रिहायना (शाला) इत्येव शब्दः सिद्ध्यति । पूर्वसूत्रात् केवलम् <qt>सङ्ख्यादेः</qt> इत्येव अत्र अनुवर्तते, न हि अव्ययादेः इति पूर्वसूत्रे विद्यमानात् संख्याव्ययादेः इत्यस्मात् शब्दात् अत्र केवलम् सङ्ख्यादेः इत्येव अंशः अनुवर्तते; अव्ययादेः इत्यंशः अत्र नैव स्वीक्रियते । अतएव, उत्क्रान्तं दाम यस्याः अस्मिन् अर्थे उत् + दामन् इत्यत्र <!प्रादिभ्यो धातुजस्य वाच्यो वा चोत्तरपदलोपः!> इति वार्त्तिकेन बहुव्रीहिसमासे कृते तत्र स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययः नैव भवति; अपितु <<डाबुभाभ्यामन्यतरस्याम्>> 4.1.13 इति वैकल्पिकः डाप्, तदभावपक्षे <<अन उपधालोपिनोन्यतरस्याम्>> 4.1.28 इति वैकल्पिकः ङीप्, तदभावपक्षे च स्त्रीप्रत्ययस्यैव अभावः — इति त्रिभिः पद्धतिभिः यथासङ्ख्यम् उद्दामा, उद्दाम्नी तथा च उद्दामन् इति स्त्रीलिङ्गशब्दाः सिद्ध्यन्ति ।

Balamanorama

Up

<<दामहायनान्ताच्च>> - दामहायनान्ताच्च । 'सङ्ख्यादेः'ङी॑विति चानुवर्तते । तदाह — सङ्ख्यादेरिति । अव्ययग्रहणं तु नानुवर्तते, अस्वरितत्वादिति भावः । बहुव्रीहिविशेषणत्वादेव सिद्धेऽन्तग्रहणं स्पष्टार्थम् । दामान्ते इति द्विदामन्शब्दे दामान्तेडाबुभाभ्या॑मिति डापि 'अन उपधालोपिनः' इति ङीपि,अनो बहुव्रीहे॑रिति ङीप्प्रतिषेधे च-प्राप्ते, द्विहायनीत्यत्रापि हायनान्तेऽदन्तत्वाट्टापि प्राप्तेदामहायनान्ताच्चे॑ति वचनमित्यर्थः । द्विदाम्नीति । द्वे दामनी यस्या इति विग्रहः । ङीपि 'अल्लोपोऽनः' इति भावः । नन्वव्ययग्रहणानुवृत्तौ किं बाधकमित्यत आह्म अव्ययग्रहणेति । उद्दामेति । उद्दामेति । उत्क्रान्तं दाम यस्या इति विग्रहः । डाब्विषेधावपीति । अपिनाअन उपधे॑ति ङीप् गृह्रते, अन्ग्रहणे अनर्थकस्यापि ग्रहणात् । अथ हायनान्तस्य उदाहरति — द्विहायनी बालेति । द्वौ हायनौ यस्या इति विग्रहः ।अथ त्रिहायणीत्यत्र भिन्नपदत्वाण्णत्वाऽप्राप्तावाह — त्रिचतुभ्र्यामिति । नन्वेवमपिद्विहायना शाले॑त्यत्रापि ङीप् स्यात्,त्रिहायना शाले॑त्यत्र तु ङीप् णत्वं च स्यातामित्यत आह — वयोवाचकस्येति । इष्यते इति ।भाष्यकृते॑ति शेषः ।

Padamanjari

Up

'स्वीरितेनाधिकारः' इत्यत्र द्वौ पक्षौ - शब्दाधिकारः, अर्थाधिकारश्चेति । तत्राद्ये पक्षे यस्यैव शब्दस्य स्वरितत्वं प्रतित्रातं स एवानुवर्तते, द्वितीये तु द्वन्द्वार्थस्यैकत्वातस्यैवानुवृत्तिः स्याद्वा न वा, तदिहाद्यं पक्षमाश्रित्याह - सख्याग्रहणमनुवर्तते नाव्ययग्रहणमिति । हायनो वयसि स्मृत इति । प्रकृतिरिति शेषः । हायनान्तो बहुव्रीहिर्वयसि गम्यमाने ङीपः प्रकृतिराचार्यैः स्मृत इत्यर्थः । त्रिहायना शालेति । प्राणिधर्मो वयः शालाया न सम्भवति । अथ मूलोदाहरणवत्'त्रिचतुर्भ्या हायनस्य' इत्यौपसंख्यानिकं णत्वं कस्मान्न भवतीत्यत आह - णत्वं चेत्यादि । बहुव्रीह्यधिकारादेव तदन्तविधिसिद्धेरन्तग्रहणं विस्पष्टार्थम् ॥