उपसर्जनं पूर्वम्

2-2-30 उपसर्जनं पूर्वम् आ कडारात् एका सञ्ज्ञा समासः

Kashika

Up

index: 2.2.30 sutra: उपसर्जनं पूर्वम्


समासे इति वर्तते। उपसर्जनसंज्ञकं समासे पूर्वं प्रयोक्तव्यम्। पूर्ववचनं परप्रयोगनिवृत्त्यर्थम्। अनियमो हि स्यात्। द्वितीया कष्टश्रितः। तृतीया शङ्कुलाखण्डः। चतुर्थी यूपदारु। पञ्चमी वृकभयम्। षष्ठी राजपुरुषः। सप्तमी अक्षशौण्डः।

Siddhanta Kaumudi

Up

index: 2.2.30 sutra: उपसर्जनं पूर्वम्


समासे उपसर्जनं प्राक्प्रयोज्यम् ॥

Laghu Siddhanta Kaumudi

Up

index: 2.2.30 sutra: उपसर्जनं पूर्वम्


समासे उपसर्जनं प्राक् प्रयोज्यम्। इत्यधेः प्राक् प्रयोगः। सुपो लुक्। एकदेशविकृतस्यानन्यत्वात्प्रातिपदिकसंज्ञायां स्वाद्युत्पत्तिः। अव्ययीभावश्चेत्यव्ययत्वात्सुपो लुक्। अधिहरि॥

Balamanorama

Up

index: 2.2.30 sutra: उपसर्जनं पूर्वम्


उपसर्जनं पूर्वम् - उपसर्जनं पूर्वम् । प्राक्कडारात् समास इत्यदिकृतम् । समास इति प्रथमान्तं योग्यतया सप्तम्यन्तं विपरिणम्यते । तदाह — समासे उपसर्जनं प्राक् प्रयोज्यमिति । पूर्वमित्यस्य पूर्वं प्रयोज्यमित्यर्थ इति भावः । एवंच प्रकृते अपेत्यस्य पूर्वं प्रयोगनियमः सिद्धः । अप दिशा इति स्थितम् ।

Padamanjari

Up

index: 2.2.30 sutra: उपसर्जनं पूर्वम्


उपसर्जनं पूर्वम्॥ आनयमो हि स्यादिति। यद्यपि विपरीतप्रयोगो लोके न द्दष्टः परपुरुषापराधातु वाक्यवत्सम्भाव्येतेत्यर्थः। इह राज्ञः पुरुषस्य पुत्रो राजापुरुषपुत्र इति षष्ठीसमासशास्त्रे द्वयोरपि प्रथमानिर्द्दिष्टत्वेऽप्युपसर्जनसंज्ञाऽन्वर्थत्वादप्रधानस्यैव भवति, पुरुषश्चात्र राजापेक्षया प्रधानमिति पूर्वनिपातनियमः॥