द्व्यचः

4-1-121 द्व्यचः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् स्त्रीभ्यः ढक्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

स्त्रीभ्य इत्येव। द्व्यचः स्त्रीप्रत्ययान्तादपत्ये ढक् प्रत्ययो भवति। तन्नामिकाणोऽपवादः॥ दत्ताया अपत्यं दात्तेयः। गौपेयः। द्व्यच इति किम् ? यामुनः॥

Siddhanta Kaumudi

Up

द्व्यचः स्त्रीप्रत्ययान्तादपत्ये ढक् । तन्नामिकाणोऽपवादः । दात्तेयः । पार्थः इत्यत्र तु तस्येदम् <{SK1500}> इत्यण् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<द्व्यचः>> - द्व्यचः । ननुस्त्रीभ्यो ढ॑गित्येव सिद्धे किमर्थमिदमित्यत आह — तन्नामिकेति । दात्तेय इति । दत्ता नाम काचिन्मानुषी, तस्या अपत्यमिति विग्रहः । ननु पृथाया अपत्यं पार्थ इति कथम्, तन्नामिकाऽणं बाधित्वा 'द्व्यचः' इति ढक्प्रसङ्गादित्यत आह — पार्थ इत्यत्रेति । शिवादित्वादपत्य एवाऽणित्यन्ये ।

Padamanjari

Up

तन्नामिकाणोऽपवाद इति । अन्यत्र पूर्वेणैव सिद्धत्वात् ॥