4-1-123 शुभ्रादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् ढक्
'तस्य अपत्यम्' (इति) शुभ्रादिभ्यः ढक्
'तस्य अपत्यम्' अस्मिन् अर्थे शुभ्रादिगणस्य शब्देभ्यः ढक् प्रत्ययः भवति ।
शुभ्र इत्येवमादिभ्यः प्रातिपदिकेभ्यो ढक् प्रत्ययो भवति। यथायोगमिञादीनामपवादः। शौभे्रयः। वैष्टपुरेयः। चकारोऽनुक्तसमुच्चयार्थ आकृतिगणतामस्य बोधयति। तेन गाङ्गेयः पाण्डवेय इत्येवमादि सिद्धं भवति॥ शुभ्र। विष्टपुर। ब्रह्मकृत। शतद्वार। शतावर। शलाका। शालाचल। शलाकाभ्रू। लेखाभ्रू। विमातृ। विधवा। किंकसा। रोहिणी। रुक्मिणी। दिशा। शालूक। अजबस्ति। शकन्धि। लक्षणश्यामयोर्वासिष्ठे (ग०सू० ७४)। गोधा। कृकलास। अणीव। प्रवाहण। भरत। भारम। मृकण्डु। मघष्टु। मकष्टु। कर्पूर। इतर। अन्यतर। आलीढ। सुदत्त। सुचक्षस्। सुनामन्। कद्रु। तुद। अकशाप। कुमारिका। किशोरिका। कुवेणिका। जिह्माशिन्। परिधि। वायुदत्त। ककल। खट्वा। अम्बिका। अशोका। शुद्धपिङ्गला। खडोन्मत्ता। अनुदृष्टि। जरतिन्। बलिवर्दिन्। विग्रज। बीज। श्वन्। अश्मन्। अश्व। अजिर॥
ढक् स्यात् । शुभ्रस्यापत्यं शौभ्रेयः ॥
<<शुभ्रादिभ्यश्च>> - शुभ्रादिभ्यश्च । ढक् स्यादिति । शेषपूरणम् । इञाद्यपवादः । शुभ्रस्यापत्यमिति । अस्त्रीत्वादप्राप्तौ ढगिति भावः ।
यथायोगमित्यादि । तत्रादन्तेष्विञोऽपवादः, शलाकादिषु तन्नामिकाणः, विधवाशब्दातु क्षुद्रालक्षणस्य ढ्रकः, चतुष्पाद्वाचिषु चतुष्पाल्लक्षणस्य ढञः, गोधाशब्दाद्गोधाया ढ्रकः; वचनात्सोऽपि भवति । क्वचिदौत्सर्गिकस्याणः । पाण्डवेय इति ।'ढेअलोपो' कद्रवाऽ इति लोपो न भवति, कद्रूपर्युदासेन स्त्रीलिङ्गस्य ग्रहणात्, पाण्डवशब्दाद्वा प्रत्ययः । लक्षणश्यामयोर्वासिष्ठ इति । लाक्षणेयो भवति वासिष्ठश्चेत्, लाक्षणिरन्यः; श्यामेयो वासिष्ठः, श्यामायनोऽन्यः, अश्वादित्वात्फञ् ॥