4-1-112 शिवादिभ्यः अण् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्
'तस्य अपत्यम्' (इति) शिवादिभ्यः अण्
'तस्य अपत्यम्' अस्मिन् अर्थे शिवादिगणस्य शब्देभ्यःअण्-प्रत्ययः भवति ।
To indicate the meaning of 'his/her offspring', the words belonging to the शिवादिगण get the 'अण्' प्रत्यय.
गोत्र इति निवृत्तम्। अतः प्रभृति सामान्येन प्रत्यया विज्ञायन्ते। शिवादिभ्योऽपत्येऽण् प्रत्ययो भवति। यथायथमिञादीनामपवादः। शैवः। प्रौष्ठः। तक्षन्शब्दोऽत्र पठ्यते कारिलक्षणमुदीचामिञं ४.१.१५३ बाधितुम्। ण्यप्रत्ययस्य ४.१.१५२ तु बाधो नेष्यते। ताक्ष्णः। ताक्षण्यः। गङ्गाशब्दः पठ्यते तिकादिफिञा शुभ्रादिढका च समावेशार्थम्। तेन त्रैरूप्यं भवति। गाङ्गः, गाङ्गायनिः, गाङ्गेयः। विपाशशब्दः पठ्यते कुञ्जादिलक्षणेन च्फञा समावेशार्थम्। वैपाशः, वैपाशायन्यः॥ शिव। प्रौष्ठ। प्रौष्ठिक। चण्ड। जम्भ। मुनि। सन्धि। भूरि। कुठार। अनभिम्लान। ककुत्स्थ। कहोड। लेख। रोध। खञ्जन। कोहड। पिष्ट। हेहय। खञ्जार। खञ्जाल। सुरोहिका। पर्ण। कहूष। परिल। वतण्ड। तृण। कर्ण। क्षीरह्रद। जलह्रद परिषिक। जटिलिक। गोफिलिक। बधिरिका। मञ्जीरक। वृष्णिक। रेख। आलेखन। विश्रवण। रवण। वर्तनाक्ष। पिटक। पिटाक। तृक्षाक। नभाक। ऊर्णनाभ। जरत्कारु। उत्क्षिपा। रोहितिक। आर्यश्वेत। सुपिष्ट। खर्जूरकर्ण। मसूरकर्ण। तूणकर्ण। मयूरकर्ण। खडरक। तक्षन्। ऋष्टिषेण। गङ्गा। विपाश। यस्क। लह्य। द्रुघ। अयःस्थूण। भलन्दन। विरूपाक्ष। भूमि। इला। सपत्नी। द्व्यचो नद्याः (ग०सू० ७२)। त्रिवेणी त्रिवणं च (ग०सू० ७३)॥
गोत्रे इति निवृत्तम् । शिवस्यापत्यं शैवः । गाङ्गः । पक्षे तिकादित्वात्फिञ् । गाङ्गायनिः । शुभ्रादित्वाड्ढक् । गाङ्गेयः ॥
अपत्ये। शैवः। गाङ्गः॥
<<प्राग्दीव्यतः अण्>> 4.1.83 इत्यनेन सर्वेषु प्राग्दीव्यतीय-अर्थेषु औत्सर्गिकरूपेण अण्-प्रत्ययः भवति । तस्य अपवादत्वेन भिन्नैः सूत्रैः भिन्नासु अवस्थासु विविधाः प्रत्ययाः विधीयन्ते । शिवादिगणस्य शब्दानाम् विषये अपत्यार्थे परन्तु तान् सर्वान् बाधित्वा अण्-प्रत्ययः एव जायते । शिवादिगणस्य आवली इयम् - शिव। प्रोष्ठ। प्रोष्ठिक। चण्ड। जम्भ। मुनि। सन्धि। भूरि। कुठार। ककुभ् ।ककुभा । अनभिम्लान। कोहित । मुख । ककुस्थ । कहोड। कोहड । कहूय । कहय । रोध । कपिञ्जल । कुपिञ्जल । खञ्जन । वतण्ड । तृणकर्ण । क्षीरहृद । जलहृद । परिल । पथिक । पिष्ट । हैहय । पार्षिका । गोपिका । कपिलिका । जटिलिका । बधिरिका । मञ्जिरक । मजिरक । वृष्णिक । खञ्जास । खञ्जाह । कर्मार । रेख । लेख।आलेखन। विश्रवण। रवण। वर्तनाक्ष। ग्रीवाक्ष । पिटक। पिटाक। तृक्षाक। नभाक। ऊर्णनाभ। जरत्कारु। पृथा । उत्क्षेप । पुरोहोतिका । सुरोहितिका । मुरोहिका ।आर्यश्वेत। अर्यश्वेत । सुपिष्ट। मसूरकर्ण। मयूरकर्ण । खर्जुरकर्ण ।कदूरक । तक्षन् । ऋष्टिषेण। गङ्गा। विपाश। यस्क। लह्य। द्रुह्य । अयस्थूण। तृणकर्ण । तृण । कर्ण । पर्ण । भलन्द । विरूपाक्ष। भूमि। इला। सपत्नी। द्व्यचो नद्याः। त्रिवेणी त्रिवणं च। अस्मिन् गणे द्वे गणसूत्रे स्तः - 1. द्व्यचो नद्याः - यदि नद्याः नाम्नि द्वौ स्वरौ स्तः तर्हि तस्मात् अपत्यार्थे अण्-प्रत्ययः भवति । यथा - अ) सन्ध्यायाः अपत्यम् = सन्ध्या + अण् → सान्ध्यः । आ) कुल्यायाः अपत्यम् = कुल्या + अण् → कौल्यः । अनेन गणसूत्रेण उक्तः अण्-प्रत्ययः <<द्व्यचः>> 4.1.121 इत्यनेन निर्दिष्टस्य ढक्-प्रत्ययस्य अपवादरूपेण विधीयते । 2. त्रिवेणी त्रिवणं च - त्रिवेणी शब्दात् अपत्यार्थे अण्-प्रत्ययः भवति, तथा त्रिवेणी-शब्दस्य 'त्रिवण' आदेशः जायते । यथा - त्रिवेणी + अण् → त्रिवण + अण् → त्रैवण । कानिचन उदाहरणानि - 1. शिव + अण् → शैव 2. प्रोष्ठ + अण् → प्रौष्ठ 3. चण्ड + अण् → चाण्ड 4. मुनि + अण् → मौनः । अत्र इकारस्य <<यस्येति च>> 6.4.148 इत्यनेन लोपः जायते । 5. पथिक + अण् → पाथिक 6. वृष्णिक + अण् → वार्ष्णिक 7. लेख + अण् → लैख 8. पृथा + अण् → पार्थ 9. तक्षन् + अण् → ताक्ष्ण। अत्र नकार-अकारयोः <<नस्तद्धिते>> 6.4.144 इति लोपे प्राप्ते <<षपूर्वहन्धृतराज्ञामणि>> 6.4.135 इति उपधा-षकारस्य लोपः भवति । 10. भूमि + अण् → भौम 11. सपत्नी + अण् → सापत्नः । अत्र <<स्त्रीभ्यो ढक्>> 4.1.120 इत्यनेन विहितस्य ढक्-प्रत्ययस्य अपवादरूपेण अण्-प्रत्ययः विधीयते ।] ज्ञातव्यम् - 1. शिवादिगणे 'गङ्गा' शब्दः पाठितः अस्ति । अयम् शब्दः <<तिकादिभ्यः फिञ्>> 4.1.154 इत्यत्र निर्दिष्टे तिकादिगणे अपि अस्ति । तथा, <<शुभ्रादिभ्यश्च>> 4.1.123 इत्यनेन निर्दिष्टे आकृतिगणे अपि तस्य स्वीकारः क्रियते । त्रिषु गणेषु अयं शब्दः पाठितः अस्ति, अतः अस्मात् शब्दात् अपत्यार्थे त्रयः प्रत्ययाः विधीयन्ते - अ) शिवादिगणस्य अण्-प्रत्ययः = गङ्गा + अण् → गाङ्ग आ) तिकादिगणस्य फिञ्-प्रत्ययः = गङ्गा + फिञ् → गाङ्गायनि इ) शुभ्रादिगणस्य ढक्-प्रत्ययः = गङ्गा + ढक् → गाङ्गेय । अयम् शब्दः यद्यपि स्त्रीप्रत्ययान्तः अस्ति, तथापि <<द्व्यचः>> 4.1.121 इत्यनेन अस्मात् शब्दात् ढक्-प्रत्ययः न भवति, यतः तं बाधित्वा त्रिभिः सूत्रैः त्रयः प्रत्ययाः विधीयन्ते । 2. अनेन सूत्रेण पाठितः अण्-प्रत्ययः एतादृशमपवादकार्यम् करोति - अ) अस्मिन् गणे पाठितानामदन्तशब्दानाम् विषये <<अत इञ्>> 4.1.95 इत्यनेन विहितस्य इञ्-प्रत्ययस्य अपवादः । आ) अस्मिन् गणे पाठितानाम् इदन्तशब्दानाम् विषये <<इतश्चानिञः>> 4.1.122 इत्यनेन विहितस्य ढक् -प्रत्ययस्य अपवादः । इ) अस्मिन् गणे पाठितानामाबन्त/ङ्यन्त-शब्दानाम् विषये <<स्त्रीभ्यो ढक्>> 4.1.120 इत्यनेन निर्दिष्टस्य ढक्-प्रत्ययस्य अपवादः । ई) 'ऋष्टिषेण' शब्दस्य विषये <<सेनान्तलक्षणकारिभ्यश्च>> 4.1.152 इत्यनेन विहितस्य ण्य-प्रत्ययस्य अपवादः । उ) 'गङ्गा'शब्दस्य विषये <<द्व्यचः>> 4.1.121 इत्यनेन विहितस्य ढक्-प्रत्ययस्य अपवादः ।
<<शिवादिभ्योऽण्>> - शिवादिभ्योऽण् । निवृत्तमिति । वृत्तिकैयटयोस्थोक्तत्वादिति भावः ।यूनि लु॑गिति सूत्रस्य भाष्यकैयटयोस्तु गोत्रसंज्ञासूत्रपर्यन्तं गोत्राधिकार इति लभ्यते । तत्तु मतान्तरमित्येके । तदेव युक्तमिति शब्देन्दुशेखरे प्रपञ्चितम् ।
यथायथमित्यादि । तत्रादन्तेष्विञोऽपवादः, मुनि -सन्धिभूमिप्रभृतिषु ठितश्चानिञःऽ इति ढकः, स्त्रीप्रत्ययान्तेषुं'स्त्रीभ्यो ढक्' 'द्र।ल्चः' इति प्राप्तस्य ढकः, गङ्गाविपाट्शब्दयोस्तु यस्मिन्प्राप्ते स वृत्तिकारणैवोक्तः, जरत्कारुशब्दस्य तु पाठे प्रयोजनं चिन्त्यम् । केचिदाहुः - शुभ्रादिष्वयं पठनीयः, जारत्कारेय इति यथा स्यात्, तत्र तु ढका समावेशार्थोऽस्य पाठ इति । ण्यप्रत्ययस्य तु बाधो नेष्यत इति । अत्रा हेतुम् ठुदीचामिञ्ऽ इत्यत्र वक्ष्यति । शुभ्रादिढका चेति ।'शुभ्रादिभ्यश्च' इत्यत्र वक्ष्यति -ठ्चकारोऽनुक्तसमुच्चयार्थ आकृकिगणतामस्य बोधयति, तेन गाङ्गेयः पाण्डवेय इत्यादिसिद्धं भवतिऽ इति, तदभिप्रायेणेदमुक्तम् । रवणविश्रवणशब्दौ पठ।लेते, तौ विश्रवः शब्दस्यादेशौ प्रकृत्यन्तरे वा वृत्तिविषये तत्समानार्थे, विश्रवसोऽपत्यं वैश्रवणो रावणः । द्व्यचो नद्या इति । नदीवाचिनो ये द्व्यचः कुल्याप्रभृतयस्तेभ्यस्तन्नामिकाणोऽपवादे'द्व्यचः' इति ढकि प्राप्तेऽण् भवति । त्रिवेणी त्रिवणं चेति । त्रिवेण्या अपत्यं त्रैवणः, तन्नमिकाणि सिद्धे आदेशार्यं वचनम् । अथाण्ग्रहणं किमर्थम्, न यताविहितमित्येवोच्येत, एवगुच्यमाने इञादय एव स्युस्ते विहिताः, पुनरारम्भसामर्थ्याद्यो विहितो न च प्राप्नोति स एवाण् भविष्यति ? इदं तर्हि प्रयोजनम् - ऋष्टिषेणशब्दोऽत्र पठ।ल्ते, तत्र यथाविहितमित्युच्यमाने ठत इञ्ऽ प्राप्तः, तस्य सेनान्तलक्षणो ण्यो बाधकः प्राप्तः, तत्रारम्भसामर्थ्यादिञ् प्रसज्येत, पुनरण्ग्रहणादणेव भवति ॥