4-1-113 अवृद्धाभ्यः नदीमानुषीभ्यः तन्नामिकाभ्यः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम् अण्
'तस्य अपत्यम्' इति अवृद्धाभ्यः नदीमानुषीभ्यः तन्नामिकाभ्यः अण्
यः शब्दः वृद्धसंज्ञकः नास्ति, तथा च नद्याः / मानुष्याः नाम्नः निर्देशं करोति, तादृशात् शब्दात् 'तस्य अपत्यम्' अस्मिन् अर्थे अण्-प्रत्ययः भवति ।
To indicate the meaning of 'his/her offspring', the words that are not वृद्धसंज्ञक and represent name of a river or a human female get the 'अण्' प्रत्यय.
<<वृद्धिर्यस्याचामादिस्तद् वृद्धम्>> १.१.७३। अवृद्धाभ्य इति शब्दधर्मः, नदी — मानुषीभ्य इत्यर्थधर्मः, तेनाभेदात् प्रकृतयो निर्दिश्यन्ते। तन्नामिकाभ्य इति सर्वनाम्ना प्रत्ययप्रकृतेः परामर्शः। अवृद्धानि यानि नदीनां मानुषीणां च नामधेयानि, तेभ्योऽपत्येऽण् प्रत्ययो भवति। ढकोऽपवादः। यमुनाया अपत्यं यामुनः। इरावत्या अपत्यम् ऐरावतः। वैतस्तः। नार्मदः। मानुषीभ्यः खल्वपि — शिक्षिताया अपत्यं शैक्षितः। चिन्तिताया अपत्यं चैन्तितः। अवृद्धाभ्य इति किम्? चान्द्रभागाया अपत्यं चान्द्रभागेयः। वासवदत्तेयः। नदीमानुषीभ्य इति किम्? सौपर्णेयः। वैनतेयः। तन्नामिकाभ्य इति किम्? शोभनायाः शौभनेयः॥
अवृद्धेभ्यो नदीमानुषीनामभ्योऽण् स्यात् । ढकोऽपवादः । यामुनः । नार्मदः । चिन्तिताया अपत्यं चैन्तितः । अवृद्धेभ्यः किम् ? वासवदत्तेयः । नदी इत्यादि किम् ? वैनतेयः । तन्नामिकाभ्यः किम् । शोभनाया अपत्यं शौभनेयः ॥
'वृद्ध' इति काचन संज्ञा । <<वृद्धिर्यस्याचामादिस्तद् वृद्धम्>> 1.1.73 इत्यनेन सूत्रेण इयम् संज्ञा दीयते । येषु शब्देषु प्रथमः अच्-वर्णः वृद्धिसंज्ञकः अस्ति (इत्युक्ते, आकारः / ऐकारः / औकारः अस्ति) तेषामनेन सूत्रेण 'वृद्ध'संज्ञा विधीयते । यथा - माला, वैनतेय, औपगव - आदयः । यः शब्दः वृद्धसंज्ञकः नास्ति, तस्य निर्देशः अस्मिन् सूत्रे 'अवृद्ध' इत्यनेन कृतः अस्ति । एतादृशः अवृद्धः शब्दः यदि नद्याः / मानुष्याः (= मनुष्यस्त्रियाः) नाम्नः निर्देशं करोति, तस्मात् शब्दात् अपत्यार्थे वर्तमानसूत्रेण अण्-प्रत्ययः विधीयते । इत्युक्ते, यथा काशिकायामुक्तम् - अवृद्धानि यानि नदीनां मानुषीणां च नामधेयानि, तेभ्यः अपत्ये अण् प्रत्ययः भवति । यथा - नदीवाचकाः अवृद्धसंज्ञकाः शब्दाः = अ) यमुनायाः अपत्यम् = यमुना + अण् → यामुन आ) सरस्वत्याः अपत्यम् = सरस्वती + अण् → सारस्वत इ) नर्मदायाः अपत्यम् = नर्मदा + अण् → नार्मद ई) इरावत्याः अपत्यम् = इरावती + अण् → ऐरावत उ) वितस्तायाः अपत्यम् = वितस्ता + अण् → वैतस्त मानुषीवाचकाः अवृद्धसंज्ञकाः शब्दाः (इत्युक्ते - मनुष्यस्त्रीणाम् नामानि) अ) सुभद्रायाः अपत्यम् = सुभद्रा + अण् → सौभद्र आ) शिक्षितायाः अपत्यम् = शिक्षिता + अण् → शैक्षित इ) चिन्तितायाः अपत्यम् = चिन्तिता + अण् → चैन्तित ई) संस्कृतायाः अपत्यम् = संस्कृता + अण् → सांस्कृत उ) हिडिम्बायाः अपत्यम् = हिडिम्बा + अण् → हैडिम्ब एतेषाम् सर्वेषाम् शब्दानामपत्यार्थे <<स्त्रीभ्यो ढक्>> 4.1.120 इत्यनेन ढक्-प्रत्यये प्राप्ते अपवादत्वेन वर्तमानसूत्रेण अण्-प्रत्ययः भवति । ज्ञातव्यम् - 1. यदि नद्याः मानुष्याः वा नाम वृद्धसंज्ञकः अस्ति, तर्हि वर्तमानसूत्रस्य प्रसक्ति एव नास्ति । यथा - अ) चान्द्रभागायाः अपत्यम् = चान्द्रभागा + ढक् → चान्द्रभागेय । अत्र <<स्त्रीभ्यो ढक्>> 4.1.120 इत्यनेन ढक्-प्रत्ययः विधीयते । आ) वासवदत्तायाः अपत्यम् = वासवदत्ता + ढक् → वासवदत्तेय । अत्र <<स्त्रीभ्यो ढक्>> 4.1.120 इत्यनेन ढक्-प्रत्ययः विधीयते । 2. यदि अवृद्धः शब्दः नद्याः मानुष्याः वा नाम नास्ति, तर्हि वर्तमानसूत्रस्य प्रसक्तिः न भवति । यथा - अ) विनतायाः अपत्यम् = विनता + ढक् → वैनतेय । अत्र 'विनता' इति पक्षिण्याः नाम अस्ति, नद्याः उत मानुष्याः न । अतः अत्र <<स्त्रीभ्यो ढक्>> 4.1.120 इत्यनेन ढक्-प्रत्ययः एव विधीयते । आ) शोभनायाः अपत्यम् = शोभना + ढक् → शौभनेय् । अत्र 'शोभना' इति मानुष्याः विशेषणरूपेण प्रयुक्तमस्ति, मानुष्याः अभिधानरूपेण न (यथा - शोभना सुभद्रा) । अतः अत्र <<स्त्रीभ्यो ढक्>> 4.1.120 इत्यनेन ढक्-प्रत्ययः एव विधीयते । परन्तु यदि 'विनता' / 'शोभना' एतौ शब्दौ नद्याः / मानुष्याः अभिधानरूपेण प्रयुज्येयाताम्, तर्हि तयोर्विषये वर्तमानसूत्रेण अण्-प्रत्ययः एव भवेत् । यथा - विनता-नाम-मानुष्याः अपत्यम् = विनता + अण् → वैनत । शोभना-नाम-नद्याः अपत्यम् = शोभना + अण् → शौभन । 3. यः अवृद्धः शब्दः द्व्यच् अस्ति, स्त्रीप्रत्ययान्तः अस्ति, तथा च नद्याः अभिधानमपि अस्ति, तस्य विषये अपत्यार्थे - अ) <<प्राग्दीव्यतः अण्>> 4.1.83 इत्यनेन औत्सर्गिकरूपेण अण्-प्रत्यये प्राप्ते - आ) तस्य अपवादत्वेन <<स्त्रीभ्यो ढक्>> 4.1.120 इत्यनेन ढक्-प्रत्यये प्राप्ते - इ) तस्यापि अपवादत्वेन <<अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः>> 4.1.113 इति वर्तमानसूत्रेण पुनः अण्-प्रत्यये प्राप्ते - ई) तस्यापि अपवादत्वेन <<द्व्यचः>> 4.1.121 इत्यनेन ढक्-प्रत्यये प्राप्ते - उ) तं बाधित्वा <<शिवादिभ्यः अण्>> 4.1.112 इत्यत्र निर्दिष्टम् 'द्व्यचः नद्याः' एतत् यत् गणसूत्रम्, तेन अण्-प्रत्ययः एव भवति । यथा - सन्ध्यायाः अपत्यम् = सन्ध्या + अण् → सान्ध्य । 4. यः अवृद्धः शब्दः द्व्यच् अस्ति, स्त्रीप्रत्ययान्तः अस्ति, तथा च मानुष्याः अभिधानमपि अस्ति, तस्य विषये अपत्यार्थे - अ) <<प्राग्दीव्यतः अण्>> 4.1.83 इत्यनेन औत्सर्गिकरूपेण अण्-प्रत्यये प्राप्ते - आ) तस्य अपवादत्वेन <<स्त्रीभ्यो ढक्>> 4.1.120 इत्यनेन ढक्-प्रत्यये प्राप्ते - इ) तस्यापि अपवादत्वेन <<अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः>> 4.1.113 इति वर्तमानसूत्रेण पुनः अण्-प्रत्यये प्राप्ते - ई) तस्यापि अपवादत्वेन <<द्व्यचः>> 4.1.121 इत्यनेन ढक्-प्रत्ययः भवति । यथा - दत्तायाः अपत्यम् = दत्ता + ढक् → दात्तेय ।
<<अवृद्धाभ्यो नदीमानुषीभ्यस्तन्नामिकाभ्यः>> - अवृद्धाभ्यो नदी । नदीमानुषीशब्दापेक्षमवृद्धाभ्य इति स्त्रीत्वम् । वस्तुतस्तुअवृद्धेभ्यो नदीमानुषीनामभ्य॑ इत्येव सूत्रयितुमुचितमिति व्याचष्ट — अवृद्धेभ्य इत्यादि । ननुतस्यापत्य॑मित्येकसिद्धे किमर्थमिदमित्यत आह — ढकोऽपवाद इति । चिन्तिता नाम काचिन्मानुषी । वासवदत्तेय इति । वासवदत्ता नाम काचिन्मनुष्यस्त्री । तस्या अपत्यमिति विग्रहः । वृद्धसंज्ञकत्वादणभावे ढगिति भावः । वैनतेय इति । विनताया अपत्यमिति विग्रहः । विनता नाम गरुडमाता, सा न मानुषी, नापि नदीति भावः । शौभनेय इति । शोभनाशब्दोऽयं न नदीमानुषीनामेति भावः ।
अपत्यमन्तर्हितं वृद्धमिति शास्त्रान्तरे यत्परिभाषितं तस्यापि ग्रहणं दृष्टम्, वृद्धस्य च पूजायाम्'वृद्धो यूना इति, इह तु प्रत्यासतेरेतच्छास्त्रसिद्धस्यैव वृद्धस्य ग्रहणमित्याह - वृद्धिर्यस्येति । अवृद्भाभ्य इति शब्दधर्म इति । वृद्धपर्युदासे सति नञिवयुक्तन्यायेन तत्सदृशस्यैव शब्दस्य सम्प्रत्ययात् । स्त्रीलिङ्गनिर्देशस्तु'नदीमानुषीभ्यः' इत्यनेन सामानाधिकरण्यात् । कथं पुनरर्थवृतेः शब्दवृत्तिना सामानाधिकरण्यम् ? अभेदोपचारात् । अवृद्धशब्दवाच्यत्वान्नदीमानुष्य एवावृद्धा उक्ताः । नदीमानुषीभ्य इत्यर्थधर्म इति । स्वरूपग्रहणं तु न भवति, बहुवचननिर्देशात्, वृद्धपर्युदासाच्च संज्ञानद्या अपि ग्रहणं न भवति; लौकिकार्थवृत्तिना मानुषीशब्देन साहचर्यात् । तन्नामिकाभ्य इति सर्वनाम्ना प्रत्ययप्रकृतेः परामर्श इति । ता अवृद्धाः प्रकृतयो नामानि यासां नदीमानुषीणामिति बहुव्रीहिः । तदेवं त्रिभिरपि पदैरर्थ एव निर्दिश्यते, तत्रार्थात्प्रत्ययविधानानुपपतेस्तद्वाचिनीभ्यः प्रकृतिभ्यः प्रत्ययो विजायते । तदिदमुक्तम् - तेनाभेदात्प्रकृतयो निदिश्यन्त इति । तेनार्थोनाबेदात् । एतदुक्तं भवति - अवृद्धशब्दाच्यास्तन्नामिका या नदीमानुष्यस्ताभ्यो' ण् प्रत्ययो भवति, कोऽर्थः ? तद्वाचिनीभ्यः प्रत्ययो भवतीति । तदेतदाह - आवृद्धानि यानीत्यादि । एवं च कृत्वा - अवृद्धेभ्यो नदीमनुषीनामभ्य इति वक्तव्यम्, तथा तु न कृतमित्येव । ढकोऽपवाद इति । स्त्रीलिङ्गनिर्देशात् भैद्योद्ध्यशोणादिष्वयं विधिर्न भवतीति भावः ॥