3-1-79 तनादिकृञ्भ्यः उः प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः सार्वधातुके कर्तरि
कर्त्तरि सार्वधातुके तनादिकृञ्भ्यः धातोः परः उ-प्रत्ययः
सार्वधातुके कर्तरि प्रत्यये परे तनादिगणस्य धातोः परः उ-प्रत्ययः विधीयते ।
A verb belonging to the तनादिगण gets the विकरणप्रत्यय 'उ' in presence of a सार्वधातुक प्रत्यय in कर्तरि प्रयोग.
<<तनु विस्तारे>> इत्येवमादिभ्यो धातुभ्यः कृञश्च उप्रत्ययो भवति। शपोऽपवादः। तनोति। सनोति। क्षणोति। कृञः खल्वपि — करोति। तनादिपाठादेव उप्रत्यये सिद्धे करोतेरुपादानं नियमार्थम्, अन्यत् तनादिकार्यं मा भूदिति। <<तनादिभ्यस्तथासोः>> (२.४.७९) इति विभाषा सिचो लुङ् न भवति। अकृत । अकृथाः॥
तनादेः कृञश्च उप्रत्ययः स्यात् । शपोऽपवादः । तनादित्वादेवसिद्धे कृञ्ग्रहणं गणकार्यस्यानित्यत्वे लिङ्गम् । तेन न विश्वसेदविश्वस्तमित्यादि सिद्धम् । विदांकरोतु ॥
तनादेः कृञश्च उः प्रत्ययः स्यात्। शपोऽपवादः। गुणौ। विदाङ्करोतु॥
किम् नाम सार्वधातुकप्रत्ययः? <<तिङ्शित्सार्वधातुकम्>> 3.4.113 इत्यनेन तिङ्-प्रत्ययाः तथा शित्-प्रत्ययाः सार्वधातुकसंज्ञां प्राप्नुवन्ति । किम् नाम कर्तरिप्रयोगः? <<लः कर्मणि च भावे च अकर्मकेभ्यः>> 3.4.69 अनेन सूत्रेण लकारः कर्तारम्, कर्म, तथा भावं निदर्शयितुम् शक्नोति । यत्र लकारः कर्तारम् निदर्शयति, सः कर्तरिप्रयोगः । कर्तरि प्रयोगे सार्वधातुके प्रत्यये परे तनादिगणस्य धातुभ्यः 'उ' इति गणविकरणम् प्रत्ययरूपेण आगच्छति । यथा - 1) तनादिगणस्य प्रथमः धातुः तनुँ (विस्तारे) । अस्य लट्लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् - तन् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्-लकारः] → तन् + तिप् [<<तिप्तस्झि...>> 3.4.78 इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः] → तन् उ ति [सार्वधातुके प्रत्यये परे <<तनादिकृञ्भ्यः उः>> 3.1.79 इति विकरणप्रत्ययः 'उ' ] → त नो ति [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः] 2) डुकृञ् (करणे) -अयम् तनादिगणस्य धातुः । अस्मात् शतृ-प्रत्यये परे प्रक्रिया इयम् - कृ + शतृ [<<लटः शतृशानचौ अप्रथमासमानाधिकरणे>> 3.2.124 इत्यनेन शतृ-प्रत्ययः ।] → कृ + उ + अत् [सार्वधातुके प्रत्यये परे <<तनादिकृञ्भ्यः उः>> 3.1.79 इति विकरणप्रत्ययः 'उ' ] → कर् + उ + अत् [<<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति गुणः] → कुर् उ अत् [<<अत उत् सार्वधातुके>> 6.4.100 इति अकारस्य उकारः] → कुर्वत् [<<इको यणचि>> इत्यनेन यणादेशः] 'उ' गणविकरणस्य भिन्नेषु प्रत्ययेषु परेषु किञ्चित् परिवर्तनमपि भवति । यथा - 1. पित्-प्रत्ययेषु परेषु <<सार्वधातुकार्धधातुकयोः>> 7.3.84 इति उकारस्य गुणादेशः ओकारः जायते । यथा - तन् + उ + ति → तनोति । तन् + उ + आनि → तन् + ओ + आनि = तनवानि । 2. वकारादि-प्रत्यये परे मकारादि प्रत्यये परे च उ-इत्यस्य उकारस्य <<लोपश्चास्यान्यतरस्याम् म्वोः>> 6.4.107 इत्यनेन वैकल्पिकः लोपः भवति । यथा - तन् + उ + वः → तन्वः, तनुवः । ज्ञातव्यम् - <<कर्तरि शप्>> 3.1.68 इत्यनेन सार्वधातुके कर्तरि प्रत्यये परे धातोः परः औत्सर्गिकरूपेण शप्-प्रत्ययः विधीयते । तनादिगणस्य धातुभ्यः अस्य अपवादरूपेण उ-प्रत्ययः भवति । विशेषः - यद्यपि कृ-धातुः तनादिगणे एव अस्ति, तथापि अस्मिन् सूत्रे कृ-धातोः विशेषरूपेण ग्रहणम् कृतमस्ति । महाभाष्ये अस्मिन् विषये भाष्यकारः वदति - 'तनादित्वात् कृञः सिद्धम्' - इत्युक्ते - 'तनादि'ग्रहणेन कृ-ग्रहणम् भवत्येव, अस्य पुनः आवश्यकता नास्ति - इति । परन्तु सिद्धान्तकौमुद्याम् दीक्षितः 'गणकार्यस्य अनित्यत्वम् कृ-धातोः विषये मा भूत्' एतत् स्पष्टीकर्तुमत्र कृ-ग्रहणम् कृतमस्ति - इति वदति ।
<<तनादिकृञ्भ्य उः>> - तनादिकृञ्भ्यः उः । शपोऽपवाद इति । अनेन शब्विषय एवास्य प्रवृत्तिरिति सूचितम् ।सार्वधातुके य॑गित्यतः सारवधातुकग्रहणस्यकर्तरि श॑बित्यतः कर्तरीत्यस्य चानुवृत्तेरिति भावः । तेनेति । गणकार्यस्याऽनित्यतया 'आसे' दित्यत्र अदादिगणकार्यं शपो लुङ्न भवतीत्यर्थः । वस्तुतस्तु कृञ्ग्रहणस्यात्र भाष्ये प्रत्याख्यातत्वादुक्तज्ञापनाऽभावाद्विआसेदित्यसंबद्धमेवेत्याहुः ।विआस्त॑मित्यत्र तुआगमशास्त्रस्याऽनित्यत्वान्नेडित्याहुः । विदांकरोत्विति । अत्र विदेर्लोटि आमि लोटोलुकिआमन्ताद्विदेः कृञो लोडन्तस्यानुप्रयोगः ।तत्र लोटस्तिपि 'एरु' रित्युत्वे शपं बाधित्वा उप्रत्यये ऋकारस्य गुणे रपरत्वे उकारस्य तिब्निमित्तो गुणः । तातङि तु ऋकारस्य गुणे रपरे तातङो ङित्त्वादुकारस्य गुणाऽभावे विदाङ्करुतादिति स्थिते —
तनादिकृञ्भ्य उः॥ तनीतीत्यादि।'तनु विस्तारे' 'षणु दाने' 'क्षणु हिसायाम्' । अन्यतनादिकार्यमिति। तनादिकार्यापेक्षो नियम इत्यर्थः। व्यावर्त्यदर्शयति - तनादिभ्यस्तथासोरिति विभाषा सिचो लुग् न भवतीति। नन्वस्तु लुग्विकल्पः, तदभावे'ह्रस्वादङ्गात्' इति लोपो भविष्यति, न च विकल्पेन बाधः, विकल्पं प्रति नित्यस्यासिद्धत्वात्; न च तनादिपाठसमार्थ्यादपदावो वचनप्रामाण्यादिति न्यायेनासिद्धत्वबाधाद्विकल्पेन नित्यस्य वाधः,तनादिपाठस्य विकरणविधौ चरितार्थत्वात्; विकल्पोऽप्यततः अतथा इत्यादौ चरितार्थः; प्रत्युत क्रियमाणे कृञ्ग्रहणे तनादिषु कृञः पाठस्यानन्यार्थत्वाद्येननाप्राप्तिन्यायेन विकल्पो नित्यविधिं बाधेत? इदं हि कृञ्ग्रहणविधौ तनादिषु पाठश्चरितार्थो मा विज्ञायीत्येवमर्थमेव स्यादिति कृञ्ग्रहणप्रत्याख्यानमेव न्याय्यं मन्यामहे॥