मेर्निः

3-4-89 मेः निः प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लोटः

Sampurna sutra

Up

लोटः लस्य मेः निः

Neelesh Sanskrit Brief

Up

लोट्लकारस्य मिप् -इत्यस्य नि-आदेशः भवति ।

Neelesh English Brief

Up

In the context of लोट्लकार, the मिप् प्रत्यय is converted to नि.

Kashika

Up

लोट इत्येव। लोडादेशस्य मेर्निरादेशो भवति। उत्वलोपयोरपवादः। पचानि। पठानि॥

Siddhanta Kaumudi

Up

लोटो मेर्निः स्यात् ॥

Laghu Siddhanta Kaumudi

Up

लोटो मेर्निः स्यात्॥

Neelesh Sanskrit Detailed

Up

उत्तमपुरुषैकवचनस्य यः मिप्-प्रत्ययः, तस्य लोट्लकारस्य विषये अनेन सूत्रेण 'नि' आदेशः भवति । यथा, पठ्-धातोः लोट्-लकारस्य उत्तमपुरुषैकवचनस्य रूपसिद्धिः एतादृशी - पठ् + लोट् [<<लोट् च>> 3.3.162 इति लोट्-लकारः] → पठ् + मिप् [<<तिप्तस्..>> 3.4.78 इति उत्तमपुरुषैकवचनस्य विवक्षायाम् मिप्-प्रत्ययः] → पठ् + शप् + मिप् [<<कर्तरि शप्>> 3.1.68 इति औत्सर्गिकः विकरणप्रत्ययः शप् ] → पठ् + अ + नि [<<मेर्नि>> 3.4.89 इति मिप्-प्रत्ययस्य 'नि' आदेशः] → पठ् + अ + आट् + नि [<<आडुत्तमस्य पिच्च>> 3.4.92 इत्यनेन लोट्लकारस्य उत्तमपुरुषस्य प्रत्ययस्य आट्-आगमः] → पठ् + आ + नि [<<अकः सवर्णे दीर्घः>> 6.1.101 इति वृद्धि-एकादेशः] → पठानि एतत् सूत्रम् <<तस्थस्थमिपां तान्तन्तामः>> 3.4.101 तथा <<एरुः>> 3.4.86 एतयोः अपवादरूपेण आगच्छति ।

Balamanorama

Up

<<मेर्निः>> - लोटो मिपि शपि गुणेऽवादेशे मिपस्तस्थस्थमिपामित्यमादेशे प्राप्ते — मेर्निः ।लोटो लङ्व॑दित्यतो इत्यनुवर्तते । तदाह — लोटो मेरिति ।

Padamanjari

Up

उत्वलोपयोरपवाद इति । यथाक्रमम् ठेरुःऽ'लोटो लङ्वत्' इति प्राप्तयोः, ठितश्चऽ इतीकारलोपस्यापि लङ् दृष्टित्वादतिदेशतः प्राप्तिः । वयं तु ब्रूमः -'लोटो लङ्वत्' इति प्राप्तस्यामादेशस्यापवाद इति ॥