3-4-76 क्तः अधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः प्रत्ययः परः च आद्युदात्तः च धातोः कृत्
ध्रौव्यार्था अकर्मकाः, प्रत्यवसानार्था अभ्यवहारार्था इति स्वनिकायप्रसिद्धिः। ध्रौव्यगतिप्रत्यवसानार्थेभ्यो यः क्तो विहितः, सोऽधिकरणे भवति। चकाराद् यथाप्राप्तं च। ध्रौव्यार्थेभ्यः कर्तृभावाधिकरणेषु, गत्यर्थेभ्यः कर्तृकर्मभावाधिकरणेषु, प्रत्यवसानार्थेभ्यः कर्मभावाधिकरणेषु। ध्रौव्यार्थेभ्यस्तावत् — आसितो देवदत्तः। आसितं तेन। इदमेषामासितम्। गत्यर्थेभ्यः — यातो देवदत्तो ग्रामम्। यातो देवदत्तेन ग्रामः। यातं देवदत्तेन। इदमेषां यातम्। प्रत्यवसानार्थेभ्यः — भुक्त ओदनो देवदत्तेन। देवदत्तेन भुक्तम्। इदमेषां भुक्तम्। कथं भुक्ता ब्राह्मणाः, पीता गाव इति? अकारो मत्वर्थीयः। भुक्तमेषामस्ति, पीतमेषामस्तीति॥
एभ्योऽधिकरणे क्तः स्यात् चाद्याथाप्राप्तम् । ध्रौव्यं स्थैर्यम् ॥ मुकुन्दस्यासितामिदमिदं यातं रमापतेः । भुक्तमेतदनन्तस्येत्यूचुर्गोप्यो दिदृक्षवः ॥ आसेरकर्मकत्वात्कर्तरि भावे च । आसितो मुकुन्दः । आसितं तेन । गत्यर्थेभ्यः कर्तरि कर्मणि । अनन्तेनेदं भुक्तम् । कथं भुक्ता ब्राह्मणा इति । भुक्तमिति एषामिति मत्वर्थीयोऽच् । वर्तमाने इत्यधिकृत्य ॥
<<क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः>> - क्तोऽधिकरणे च । ध्रौव्यं , गतिः, प्रत्यवसानं च अर्थो येषामिति विग्रहः । ध्रौव्यार्थेभ्यो, गत्यर्थेभ्यः, प्रत्यवसानार्थेभ्यश्चेति यावत् । चाद्यथाप्राप्तमिति । कर्मकर्तृभावेष्वपि यथासंभवमित्यर्थ- । ध्रौव्यमित्यस्य विवरणं - स्थैर्यमिति । स्थिरीभवनम् । उपवेशनशयनादिक्रियेति यावत् । मुकुन्दस्यासितमिदमिति । श्लोकोऽयम् । आस्यते अस्मिन्नित्यासितम् । आसनमित्यर्थः । ध्रौव्यार्थस्योदाहरणमिदम् । इदं यातं रमापतेरिति । गत्यर्थस्योदाहरणम् । यायते गम्यते अस्मिन्निति यातं, मार्गं इत्यर्थः । भुक्तमेतदनन्तरस्येति । भुज्यते अस्मिन्निति भुक्तम् । भोजनस्थानमित्यर्थः ।अधिकरणवाचिनश्चे॑ति त्रिष्वपि कर्तरि षष्ठी । पक्षे इति । आधिकरणे प्रत्ययाऽभावपक्षे इत्यर्थः । आसेरकर्मकत्वादिति । ततश्च न कर्मणि क्त इत्यर्थः । आसितो मुकुन्द इति । आसितवानित्यर्थः । आसितं तेनेति । भावे उदाहरणम् । गत्यर्थेभ्य इति । तेषां सकर्मकतया कर्तरि कर्मणि च क्तः, न तु भावे इत्यर्थः,लः कर्मणि चे॑त्यत्राऽदर्शनादिति भावः । भुजेः कर्मणीति । भक्षणार्थात्कर्मणि क्तः, न तु भावे, सकर्मकेभ्यो भावे प्रत्ययस्यलः कर्मणी॑त्यत्राऽदर्शनात् । नापि प्रत्यवसानार्थेभ्यः कर्तरि, अनभिधानादित्यर्थः । कथमिति । भुजेः कर्तरि क्ताऽभावस्योक्तत्वादिति भावः । समाधत्ते — भुक्तमस्त्येषामिति । अत् गत्यर्थेभ्यो भावेऽपि क्तप्रत्ययोऽस्त्येव , अविशेषात्,अजर्यं सङ्गत॑मिति सूत्रेअनेकमन्यपदार्थेट इति सूत्रे च भाष्ये गत्यर्थेभ्यो भावे क्तप्रत्ययस्य अभ्युपगमाच्चेति शब्देन्दुशेखरे विस्तरः । इत्यधिकृत्येति ।वर्तमाने ल॑डित्यतो मण्डूकप्लुत्या अनुवर्तमान इत्यर्थः, चानशादीनां सर्वकालतायाः 'भूते' इति सूत्र भाष्ये उक्तत्वादित्याहुः ।
स्वनिकायप्रसिद्धिरिति । यथा यूपचषालादयो याज्ञिकानामेव प्रसिद्धास्तथा वैयाकरणानां निकाये एषां प्रसिद्धिः । निघण्टुअषु तु अभ्यवहारपर्यायतया प्रत्यवसानशब्दस्य पाठो वैयाकरणप्रसिद्धिमूलः । इदमेषामासितमिति । ठधिकरणवाचिनश्चऽ इति षष्ठी । कथमित्यादि । कर्तरि निष्ठां मन्यमानस्य प्रश्नः । अकारो मत्वर्थीय इति । अर्शाअदेराकृतिगणत्वादच् प्रत्यय इत्यर्थः । इह द्विर्गत्यर्थाकर्मकग्रहणं च क्तग्रहणं च क्रियते, सकृदेव तु शक्यं कर्तुम्, कथम् ? एवं वक्ष्यामि -'क्त्वो' धिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः, ततो गत्यर्थाकर्मकेभ्यः कर्तरि च, चकारादधिकरणे च, अनुवृताच्चकाराद्यथाप्राप्तं च, ततः श्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च, कर्तरीत्येव, एतेभ्यश्च कर्तरि क्तो भवति चकाराद्यथाप्राप्तं च, अधिग्रहणग्रहणं तु नात्रानुवर्तते, योगविभागकरणसामर्थ्यात्, तत आदिकर्मणि च कर्तरि क्तो भवति चकाराद्यथाप्राप्तं च, ततो दाशगोघ्नावित्यादि ? तथा तु न कृतमित्येव ॥