3-2-14 शमिधातोः सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कर्मणि अनुपसर्गे सुपि अच्
शम्युपपदे धातुमात्रात् संज्ञायां विषयेऽच् प्रत्ययो भवति। शंकरः। शंभवः। शंवदः। धातुग्रहणं किं यावता धातोरिति वर्तते एव? शमि संज्ञायामिति सिद्धे धातुग्रहणं कृञो हेत्वादिषु टप्रतिषेधार्थम्। शंकरा नाम परिव्राजिका। शंकरा नाम शकुनिका। तच्छीला च॥
शम्भवः । शंवदः । पुनर्धातुग्रहणं बाधकविषयेऽपि प्रवृत्त्यर्थम् । कृञो हेत्वादिषु टो मा भूत् । शंकरा नाम परिव्राजिका तच्छीला ॥
<<शमि धातोः संज्ञायाम्>> - शिमि दातोः ।शमी॑ति सप्तम्यन्तम् । 'श' मिति सुखार्थकमव्ययम् । तस्मिन्नुपपदे दातोरच् स्यात्संज्ञायाम् । ननु धातुग्रहणं व्यर्थम्, न च रमिजपोरननुवृत्त्यर्थं तदिति वाच्यम्, अस्वरितत्वादेव तदननुवृत्तिसिद्धेरित्यत आह — पुनर्धातुग्रहणमिति ।कृञो हेतुताच्छील्यानुलोम्येषु॑ इति टप्रत्ययोऽच्प्रत्ययबाधको वक्ष्यते, तद्बाधनार्थमित्यर्थः ।
शमि धातोः संज्ञायाम्॥ धातुमात्रादिति। मात्रग्रहणेनापवादविषयेऽपि विधानं भवतीति दर्शयति। शङ्कर इति। एहिकमामुष्मिकं मोक्षाख्यं च सुखं करोतीति शङ्करः। धातुग्रहणस्य प्रयोजनं दर्शयन्मात्रग्रहणप्रतिपादितमेवार्थ स्पष्टीकरोति - शमिसंज्ञायामिति। अस्मिन्सूत्र इत्यर्थः। असति धातुग्रहणे शमिशंज्ञायामित्यस्यावकाशः - शम्भवः, शंवद इति,'कृञो हेतुताच्छील्ये' इत्यस्यावकाशः - श्राद्धकर इति; शङ्करा इत्यत्रोभयप्रसङ्गे परत्वाट्ट एव स्याद्, धातुग्रहणसामर्थ्यादजेव भवति। कुण्डखाडवस्त्वाचार्यो मन्यते - गृणातेः शब्दकर्मण एतद्रूपम्, पृषोदरादित्वाद्रकारस्य ककार इति, तन्मते धातुग्रहणं चिन्त्यप्रयोजनम्॥