3-1-90 कुषिरजोः प्राचां श्यन् परस्मैपदं च प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः कर्मवत्
<<कुष निष्कर्षे>>, <<रञ्ज रागे>> अनयोर्धात्वोः कर्मकर्तरि प्राचामाचार्याणां मतेन श्यन् प्रत्ययो भवति, परस्मैपदं च। यगात्मनेपदयोरपवादौ। कुष्यति पादः स्वयमेव। रज्यति वस्त्रं स्वयमेव। प्राचांग्रहणं विकल्पार्थम्। कुष्यते। रज्यते। व्यवस्थितविभाषा चेयम्। तेन लिट्लिङो स्यादिविषये च न भवतः। चुकुषे पादः स्वयमेव। ररञ्जे वस्त्रं स्वयमेव। कोषिषीष्ट पादः स्वयमेव। रङ्क्षीष्ट वस्त्रं स्वयमेव। कोषिष्यते पादः स्वयमेव। रङ्क्ष्यते वस्त्रं स्वयमेव। अकोषि पादः स्वयमेव। अरञ्जि वस्त्रं स्वयमेव॥
अनयोः कर्मकर्तरि न यक् किंतु श्यन्परस्मैपदं च । आत्मनेपदापवादः । कुष्यति कुष्यते पादः स्वयमेव । रज्यति रज्यते वस्रम् । यगविषये तु नास्य प्रवृत्तिः । कोषिषीष्ट । रंक्षीष्ट ॥
<<कुषिरजोः प्राचां श्यन् परस्मैपदं च>> - कुषिरञ्जोः । अनयोरिति । 'कुष निष्कर्षे'रञ्ज रागे॑इत्यनयोरित्यर्थः । कर्मकर्तरीति । 'अचः कर्मकर्तरी' त्यतो मण्डूकप्लुत्या तदनुवृत्तेरिति भावः ।न दुहस्नुनमा॑मित्यतो नेति, यगिति चानुवर्तते । तदाह — न यगिति । किंतु श्यन्निति । यग्विषये इत्यर्थः । एवं च यग्विषयादन्यत्र न श्यः प्रवृत्तिः ।न य॑गित्यनुक्ताव श्यनो विधाने तु यग्विषयादन्यत्रार्धधातुकेऽपि श्यन् स्यादिति भावः ।प्राचां॑ग्रहणाद्विकल्पः । तदाह — कुष्यति कुष्यते वा पाद इति ।स्वयमेवे॑ति शेषः । कुष्णाति पादं देवदत्त इति मुख्यकर्तृलकारे पादः कर्म । तस्य पुरुषप्रयत्नमनपेक्ष्य कर्तृत्वविवक्षायां श्यनि परस्मैपदे च कुष्यतीति रूपम् । तदुभयाऽभावे यकि आत्मनेपदे च कुष्यते इति रूपमिति भावः । यक्श्यनोः स्वरे विशेषः । श्यनिकुष्यन्ती वधू॑रित्यत्रशप्श्यनोर्नित्य॑मिति नित्यं नुम् । यकि तुआच्छीनद्यो॑रिति विकल्पः स्यात् । रज्यति रज्यते वा वरुआमिति । अन्तर्भावितण्यर्थतायां दैवादिकत्वाच्छ्यनिरज्यति वरुआ॑मित्यत्र रञ्जयतीत्यर्थः । मुख्ये कर्तरि लः । कर्मणः कर्तृत्वविवक्षायां तु रज्यति रज्यते वा वरुआमिति भवतीत्यर्थः । यगवि,ये तु नास्त्येवेति ।श्य॑निति शेषः । यक#ं प्रतिषिध्य तत्स्थाने श्यनो विधिसामर्थ्यादित्यर्थः । कोषिषीष्टेति । आर्धधातुकत्वेन यगविषयत्वान्न श्यन् । तत्संनियोगशिष्टत्वात् परस्मैपदं च श्यनभावे सति न भवतीति भावः । रङ्क्षीष्टेति । रञ्जेः सीयुटि जस्य कुत्वेन गः । तस्य चर्त्वेन कः । अनुस्वारपरसवर्णौ । अत्र कर्मकर्तृप्रकरणे सर्वत्र पच्यते ओदनः स्वयमेवेति, भिद्यते काष्ठं स्वयमेवेत्यादौ स्वयंशब्दस्य आत्मना करणेनेत्यर्थः, न त्वात्मना कत्र्रेति, तथा सति कर्मण्येव लः स्यादिति 'णेरणौ' इति सूत्रे कैयटे स्पष्टम् । इति कर्मकर्तृप्रक्रिया । अथ पूर्वकृदन्ते कृत्यप्रकरणम् ।अथ कृदन्तप्रक्रिया निरूप्यन्ते । तदेवंप्रत्यया अथ कथ्यन्ते तृतीयाध्यायगोचराः॑इति प्रतिज्ञातेषु तृतीयाध्यायस्थप्रत्ययेषु प्रथमपादेप्रत्ययः॑,परश्चे॑त्यारभ्यकुषिरञ्जोः प्राचां श्य॑न्नित्यन्तैः सूत्रैर्विहिताः कतिचित्प्रत्यया निरूपिताः । अथतदुत्तरसूत्रविहितान्निरूपयितुमुपक्रमते —
कुषिरजोः प्रायां श्यन् परस्मैपदं च॥ यगात्मनेपदयोरपवादाविति। श्यन्यकोऽपवादः, परस्मैपदमात्मनेपदस्य। श्यन्यकोश्चात्र नुमिस्वरे च विशेषः - कुष्यन्ती जङ्घा, श्यनि'शप्श्यनोर्नित्यम्' इति नित्यं नुमागमः, नित्वाच्चाद्यौदातत्वं भवति; यकि तु ठाच्छीनद्योर्नुम्ऽ इति नुम्विकल्पः, लः सार्वधातुकानुदातत्वे च यक एवोदातत्वं स्यात्।रज्यतीति। ठनिदिताम्ऽ इति नलोपः। कुष्यते, रज्यते इति पक्षे यगात्मनेपदे भवतः। लिङ्लिटोरिति। आशिषि लिङ्त्र गृह्यते, यदुक्तम् - कुषैरजोः श्यन्विधाने सार्वधातुकवचनम्, अवचने हि लिङ्लिटोः प्रतिषेध इति। स्यादिविषये चेति। आदिशब्देन सिजादीनां ग्रहणम्। चुकुषे, ररञ्चेति। लिट्, आत्मनेपदम्, तस्य एशादेशः। कोषिषीष्टेति।'लिङ्ः सौयुट्' ,'सुट् तिथोः' लघूपधगुणः। रङ्क्षीष्टेति। ठेकाचःऽ इतीट्प्रतिषेधः,'चोः कुः' इति कुत्वम् गकारः, तस्य चर्त्वम्ककारः। अकोषि, अरञ्चीति। चिण्॥