आर्धधातुकं शेषः

3-4-114 आर्धधातुकं शेषः प्रत्ययः परः च आद्युदात्तः च धातोः लस्य

Sampurna sutra

Up

तिङ्-शित्-शेषः धातोः परः प्रत्ययः आर्धधातुकः

Neelesh Sanskrit Brief

Up

तिङ्-प्रत्ययं विहाय शित्-प्रत्ययं विहाय च धातुभ्यः विहिताः अन्ये प्रत्ययाः आर्धधातुकसंज्ञकाः भवन्ति ।

Neelesh English Brief

Up

Except for तिङ् and शित् प्रत्ययs, other प्रत्ययs that are attached to verbs are called 'आर्धधातुक'.

Kashika

Up

तिङः शितश्च वर्जयित्वान्यः प्रत्ययः शेषो धातुसंशब्दनेन विहित आर्धधातुकसंज्ञो भवति। लविता। लवितुम्। लवितव्यम्। धातोरित्येव — वृक्षत्वम्, वृक्षतास्ति। लूभ्याम्, लूभिः। जुगुप्सते॥

Siddhanta Kaumudi

Up

तिङ्शिद्भ्योऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् । इट् ॥

Laghu Siddhanta Kaumudi

Up

तिङशिद्भ्योऽन्यो धातोरिति विहितः प्रत्यय एतत्संज्ञः स्यात् । इट् ॥

Neelesh Sanskrit Detailed

Up

धातोः विहिताः प्रत्ययाः 'सार्वधातुक' तथा 'आर्धधातुक' एतादृशाः विभाजिताः सन्ति । एतेषु <<तिङ्शित्सार्वधातुकम्>> 3.4.113 इत्यनेन सार्वधातुकसंज्ञा विधीयते । येषाम् प्रत्ययानाम् इयम् संज्ञा न भवति, ते सर्वे अस्मिन् सूत्रे 'शेषः' इत्यनेन गृह्यन्ते । एतेषाम् सर्वेषाम् 'आर्धधातुक'संज्ञा भवति । यथा - क्त, क्तवतु, ल्युट् , उ, णिच् - आदयः । ज्ञातव्यम् - 1. अस्मिन् सूत्रे 'शेष' इत्यनेन केवलम् धातोः विहिताः प्रत्ययाः एव गृह्यन्ते, यतः एतत् सूत्रम् धात्वधिकारे अस्ति । 2. आशीर्लिङ्-लकारस्य विषये <<लिङाशिषि>> 3.4.116 इत्यनेन तथा लिट्-लकारस्य विषये <<लिट् च>> 3.4.115 इत्यनेन तिङ्-प्रत्ययाः अपि आर्धधातुकसंज्ञकाः भवन्ति । आर्धधातुकसंज्ञायाः प्रयोगः <<आर्धधातुके>> 2.4.35, <<आर्धधातुकस्येड् वलादेः>> 7.2.35 एतादृशेषु सूत्रेषु कृतः अस्ति ।

Balamanorama

Up

<<आर्धधातुकं शेषः>> - भू तास् तीति स्थिते — आर्धधातुकं शेष- ।तिङ्शित्सार्वधातुक॑मिति पूर्वसूत्रोपात्ततिङ्शिदन्यः शेषः । तदाह — तिङ्शिद्भ्योऽन्य इति । विहित इति ।धातो॑रित्यधिकृतं विहितविशेषणमाश्रीयत इति भावः । एवं च 'जुगुप्सते' इत्यादौ 'गुप्तिज्किद्भ्य' इत्यादिविहितसनादीनां धातोरित्युच्चार्य विहितत्वाऽभावेन आर्धधातुकत्वाऽभावादिडागमो न भवति । एतत्संज्ञः स्यादिति । आर्धधातुकसंज्ञक इत्यर्थः । इडिति । तास्प्रत्ययस्योक्तसूत्रेणार्धधातुकत्वात्स्वतो वलादित्वाच्च आर्धधातुकस्येड्वलादे॑रितीडागम इत्यर्थः ।

Padamanjari

Up

धातुसंशब्दनेनेति । धातुशब्दमुच्चार्येत्यर्थः । अत्र हि यङ्विधौ यद्धातुग्रहणं शमिधातोरिति वा, यच्च धातोरिति, तदुभयमनुवर्तते; तत्रैकेनाधातुप्रत्ययो व्यावर्त्यते, अपरेण धातुप्रत्ययो विशिष्यते, धातोरित्येवं यो विहित इति, तेनायमर्थः । लूभ्याम्, लुभिः, जुगुप्सते इति । यद्यप्यत्र धातोरेव विहिस्तथापि धातुशब्दमुच्चार्य न विहित इति भवति प्रत्युदाहरणम् । शेषग्रहणम् - तिङ्शितोर्मा भूत; अन्यथैकसंज्ञाधिकाराभावात्प्रत्ययादिसंज्ञानामिव समावेशः स्यात् । सद्येवकारोऽनुवर्तते शक्यं शेषग्रहणमकर्तुम् ॥