कृदतिङ्

3-1-93 कृत् अतिङ् प्रत्ययः परः च आद्युदात्तः च धातोः तत्र

Kashika

Up

index: 3.1.93 sutra: कृदतिङ्


अस्मिन् धात्वधिकारे तिङ्वर्जितः प्रत्ययः कृत्सज्ञको भवति। कर्तव्यम्। करणीयम्। अतिङ इति किम्? चीयात्। स्तूयात्। कृत्प्रदेशाः कृत्तद्धितसमासाश्च 1.2.46 इत्येवमादयः।

Siddhanta Kaumudi

Up

index: 3.1.93 sutra: कृदतिङ्


संनिहिते धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्संज्ञः स्यात् ॥

Laghu Siddhanta Kaumudi

Up

index: 3.1.93 sutra: कृदतिङ्


अत्र धात्वधिकारे तिङ्भिन्नः प्रत्ययः कृत्संज्ञः स्यात् ॥

Balamanorama

Up

index: 3.1.93 sutra: कृदतिङ्


कृदतिङ् - अथ क्विन्नन्तस्यकृत्तद्धिते॑ति प्रातिपदिकत्वं वक्तुं क्विनः कृत्संज्ञां दर्शयति — कदतिङ् ।धातो॑रित्यधिकृतं, 'प्रत्यय' इति च ।धातो॑रिति च विहितविशेषणम् । तेन धातोर्विहितः प्रत्यय इत्यर्थो लभ्यते ।धातो॑रित्यधिकृत्य विहित इति यावत् । तदाह — संनिहिते इति । तेन णिजादिनिरासः । युज् व् इति स्थिते ।

Padamanjari

Up

index: 3.1.93 sutra: कृदतिङ्


कृदतिङ्॥ तिङ्वर्जित इति। तिङ्त्वेन त्यक्तस्तिङ्त्वेन रहितः, तिङेऽन्य इति यावत्। अतिङिति किमिति। इह क्रियमाणोऽप्ययं प्रतिषेधः स्वाश्रयामेव तिङ्ः कृत्सञ्ज्ञं बाधीतुं प्रभवति, न तु लकारस्य कृत्वात्स्थानिवद्भावेन प्राप्ताम्; ठनन्तरस्य विधिर्वा भवति प्रतिषेधो वाऽ इति वचनादिति मत्वा प्रश्नः। तिङ्भाविनो लकारस्यैव कृतसञ्ज्ञा प्रतिषिद्ध्यते, प्रतिषेधसामर्थ्याद्वा स्थानिवद्भावो न भविष्यतीत्युतरम्। चीयात्स्तूयादिति। ननु च ज्ञापकादेतत्सिद्धम्, यदयम् ठकृत्सार्वधातुकयोःऽ इति पृथक् सार्वधातुके प्रतिषेधं शास्ति, तद् ज्ञापयति - अकृदिति प्रतिषेधो न तिङ्क्षु भवतीति। यदि स्यात्; चिनुयात्, सुनुयादित्यादौ सार्वधातुकेऽपि कृत्प्रतिषेधादेव दीर्धो न भविष्यति, किं पृथक् सार्वधातुकपर्युदासेन! इह तर्हि पचति, पठति -'ह्रस्वस्य पिति कृति तुक्' इति तुङ् मा भूदिति? तुग्विधौ धात्वादेरित्यतो धातुग्रहणमनुवर्तिष्यते। एवमपि - चिकीर्षति, जिहीर्षतीत्यत्र प्राप्नोति? शपा व्यवधानान्न भविष्यति। एकादेशे कृते नास्ति व्यवधानम्? ठेकादेशः पूर्वविधौ स्थानिवद्भवतिऽ इति व्यवधानमेव। नात्र स्थानिवद्भावः प्राप्नोति; परत्वादन्तवद्भावेन बाद्ध्यते। तस्माच्चिकीर्षतीत्यादौ तुङ्मा भूदित्यतिङिति प्रतिषेधः कर्त्तव्यः। किञ्च, तिङ्न्तस्य कृदन्तं प्रातिपदिकमिति प्रातिपदिकसंज्ञायां पचेरन् - नलोपः प्राप्नोति, पपाच ब्राह्मणी - -टाप्प्राप्नोति, सर्वत्र च स्वद्यौत्पतिः प्रसज्येत, तदेतदस्मादन्यार्थादतिङिति प्रतिषेधादेव सिद्धे चीयादित्यादौ ज्ञापकं नाश्रयितव्यमिति वृत्तिकारो मन्यते स्म॥