स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च

3-1-82 स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुः च प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः सार्वधातुके कर्तरि श्ना

Sampurna sutra

Up

index: 3.1.82 sutra: स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च


कर्त्तरि सार्वधातुके स्तन्भुँ-स्तुन्भुँ-स्कन्भुँ-स्कुन्भुँ-स्कुञ्भ्यः धातोः परः श्नुः श्ना च

Neelesh Sanskrit Brief

Up

index: 3.1.82 sutra: स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च


सार्वधातुके कर्तरि प्रत्यये परे स्तम्भ्, स्तुम्भ्, स्कम्भ्, स्कुम्भ्, स्कुञ् - एतेभ्यः श्ना तथा श्नु प्रत्ययौ भवतः ।

Neelesh English Brief

Up

index: 3.1.82 sutra: स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च


In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verbs स्तम्भ्, स्तुम्भ्, स्कम्भ्, स्कुम्भ्, स्कुञ् gets the श्ना or the श्नु विकरणप्रत्यय.

Kashika

Up

index: 3.1.82 sutra: स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च


आद्याश्चत्वारो धातवः सौत्राः, स्कुञाप्रवणे, एतेभ्यः श्ना प्रत्ययो भवति, श्नुः च। स्तभ्नाति, स्तभ्नोति। स्तुभ्नाति, स्तुभ्नोति। स्कभ्नाति, स्कभ्नोति। स्कुभ्नाति, स्कुभ्नोति। स्कुनाति, स्कुनोति। उदित्त्वप्रतिज्ञानात् सौत्राणामपि धातूनां सर्वार्थत्वं विज्ञायते, न एतद् विकरणविषयत्वम् एव।

Siddhanta Kaumudi

Up

index: 3.1.82 sutra: स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च


चात् श्ना । स्कुनोति । स्कुनुते । स्कुनाति । स्कुनीते । चुस्काव । चुस्काव । चुस्कवे । स्कोता । अस्कौषीत् । अस्कोष्ट । स्तम्भ्वादयश्चत्वारः सौत्राः । सर्वे रोधनार्था इत्येके । माधवस्तु प्रथमतृतीयौ स्तम्भार्थौ द्वितीयो निष्कोषणार्थश्चतुर्थो धारणार्थ इत्याह । सर्वे परस्मैपदिनः । नलोपः । विष्टभ्नोति । विष्टभ्नाति । अवष्टभ्नोति । अवष्टभ्नाति । अवतष्टम्भ । जॄस्तम्भु-<{SK2291}> इत्यङ्वा । व्यष्टभत् । व्यष्टम्भीत् । स्तुभ्नोति । स्तुभ्नाति ॥

Laghu Siddhanta Kaumudi

Up

index: 3.1.82 sutra: स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च


चात् श्ना। स्कुनोति, स्कुनाति। स्कुनुते, स्कुनीते। चुस्काव, चुस्कुवे। स्कोता। अस्कौषीत्, अस्कोष्ट॥ स्तन्भ्वादयश्चत्वारः सौत्राः। सर्वे रोधनार्थाः परस्मैपदिनः॥

Neelesh Sanskrit Detailed

Up

index: 3.1.82 sutra: स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च


स्तन्भ्, स्तुन्भ्, स्कन्भ्, स्कुन्भ् - एते चत्वारः धातवः 'रोधने' अस्मिन् अर्थे पाठिताः सन्ति । एते धातवः 'सौत्राः' सन्ति - इत्युक्ते, धातुपाठे एतेषां निर्देशः नास्ति, केवलं सूत्रैः एव एतेषां निर्देशः क्रियते । स्कुञ्-इति धातुः क्र्यादिगणस्यैव धातुः अस्ति । एतेभ्यः पञ्च धातुभ्यः श्ना-प्रत्ययः अपि भवितुमर्हति, श्नु-प्रत्ययः अपि भवितुमर्हति ।

यद्यपि सूत्रे स्तम्भ् / स्तुम्भ् /स्कम्भ् / स्कुम्भ् इत्यत्र मकारः दत्तः अस्ति, तथापि औपदेशिकावस्थायामत्र नकारः एव स्वीक्रियते एतत् स्मर्तव्यम् ।

यथा - स्तन्भ् + श्ना + ति → स्तभ्नाति । स्तन्भ् + श्नु + ति → स्तभ्नोति । उभयत्र अनिदितां हलः उपधायां क्ङिति 6.4.24 इत्यनेन धातोः उपधानकारस्य लोपः भवति ।

Balamanorama

Up

index: 3.1.82 sutra: स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च


स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च - सौत्रा इति । नोपधा इत्यपि ज्ञेयम् । नलोप इति ।अनिदिता॑मित्यनेनेति भावः । विष्टभ्नोतीति ।स्तन्भे॑रिति षत्वम् । अवष्टभ्नोतीति ।अवच्चालम्बनाविर्दूययो॑रिति षत्वम् । अवतष्टम्भेति ।स्थादिषवभ्यासेने॑ति षत्वम् । व्यष्टभदिति ।प्राक्सितादिति षत्वम् ।

Padamanjari

Up

index: 3.1.82 sutra: स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्भ्यः श्नुश्च


स्तम्भुस्तुम्भुस्कम्भुस्कुम्भुस्कुञ्भ्यः श्नुश्च॥ उदित्विप्रतिज्ञानादिति। एषां ह्युकारोऽनुनासिक इत्संज्ञकः प्रतिज्ञायते, तस्य प्रयोजनम् - ठुदितो वाऽ इति क्त्वाप्रत्यये इड्विकल्पः। यदि चैतद्विकरणविषया एवैते स्युस्तन्नोपपद्यते। तस्मादुदित्वेन प्रतिज्ञानात्सर्वार्थत्वं विज्ञायते, सर्वे प्रत्ययाः प्रयोजनमेषामित्यर्थः। सर्वप्रत्ययशेषत्वभिति वा॥