धिन्विकृण्व्योर च

3-1-80 धिन्विकृण्व्योः अ च प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः सार्वधातुके कर्तरि उः

Sampurna sutra

Up

कर्त्तरि सार्वधातुके धिन्वि-कृण्व्योः उः अः च

Neelesh Sanskrit Brief

Up

कर्तरि सार्वधातुके प्रत्यये परे धिन्व्-धातोः कृण्व्-धातोः उ-प्रत्ययः भवति, अङ्गस्य च अकारादेशः भवति ।

Neelesh English Brief

Up

In presence of a सार्वधातुक प्रत्यय in the कर्तरि प्रयोग, the verbs धिन्व्, कृण्व् gets the 'उ' विकरणप्रत्यय.

Kashika

Up

<<हिवि धिवि जिवि प्रीणनार्थाः>>, <<कृवि हिंसाकरणयोश्च>> इत्येतयोर्धात्वोरुप्रत्ययो भवति, अकारश्चान्तादेशः। धिनोति। कृणोति। अतो लोपस्य स्थानिवद्भावाद् गुणो न भवति॥

Siddhanta Kaumudi

Up

अनयोरकारोऽन्तादेशः स्यादुप्रत्ययश्च शब्विषये । अतो लोपः <{SK2308}> । तस्य स्थानिवद्भावाल्लघूपधगुणो न । उप्रत्ययस्य पित्सु गुणः । धिनोति । धिनुतः । धिन्वति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

धिविँ (प्रीणने) तथा कृविँ (गतौ / हिंसाकरणयोः ) एतौ धातू मूलरूपेण भ्वादिगणस्य धातू स्तः । अतः <<कर्तरि शप्>> 3.4.68 इत्यनेन एताभ्याम् कर्तरि सार्वधातुके प्रत्यये शप्-प्रत्यये प्राप्ते वर्तमानसूत्रेण अपवादत्वेन 'उ'प्रत्ययः भवति । तथा च, अस्मिन् प्रत्यये परे एतयोः धात्वोः अन्तिमवर्णस्य अकारादेशः अपि विधीयते । यथा - धिविँ → धिन्व् [<<इदितो नुम्-धातोः>> 7.1.58 इति नुमागमः] → धिन्व् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्-लकारः] → धिन्व् + तिप् [<<तिप्तस्झि..>> 3.4.78 इत्यनेन प्रथमपुरुषैकवचनस्य विवक्षायाम् 'तिप्' प्रत्ययः] → धिन् अ + उ + ति [<<धिन्विकृण्व्योर च>> 3.1.80 इत्यनेन विकरणप्रत्ययः 'उ' । तथा अङ्गस्य अकारादेशः ।] → धिन् उ ति [<<अतो लोपः>> 6.4.48 इत्यनेन आर्द्धधातुके प्रत्यये परे अदन्तस्य अङ्गस्य अकारस्य लोपः ।] → धिनोति [<<सार्वधातुकार्द्धधातुकयोः>> 7.3.84 इति गुणः] तथैव 'कृणोति' एतत् रूपमपि सिद्ध्यति ।

Balamanorama

Up

<<धिन्विकृण्व्योर च>> - धिन्विकृण्व्योः । 'अ' इति लुप्तप्रथमाकम् । धिविकृव्योः कृतनुमोर्धिन्विकृण्वीत निर्देशः । 'तनादिकृञ्भ्यः उः' इत्यत उरिति चकारादनुकृष्यते ।कर्तरि श॑बित्यतः कर्तरीति,सार्वधातुके य॑गित्यतः सार्वधातुक इति च । तदाह — अनयोरित्यादिना । वकारस्याऽकारः । दिन् अ उ तीति स्थितम् । अतो लोप इति । युगपत्संनियोगशिष्टतया उप्रत्ययाऽकारयोर्विधानेऽपि श्रुतक्रमानुरोधेन प्रवृत्त्या आर्धधातुकोपदेशेकाले 'धिन' इत्यस्याऽदन्तत्वमिति भावः । नन्वत्र वकारस्य लोप एव विधीयतां किमकारविधिनेत्यत आह — तस्येति । वकारस्य लोपाविधौ तु अजादेशत्वाऽभावात्स्थानिकवत्त्वं न स्यादिति भावः । तथा च धिनु तीति स्थिते आह — उप्रत्ययस्येति । धिनुत इति । धिविधातोरनुमि तसि उप्रत्यये वकारस्य अकारादेशे अतो लोपः । तसो ङित्त्वादुकारस्य न गुणः । धिन्वन्तीति । धिन्व् इत्यस्माज्झिः । झोऽन्तः । उप्रत्ययः । वकारस्य अकारः । अतो लोपः । उकारस्य यणिति भावः । अत् वकारस्य स्थानिवत्त्वेन आर्धधातुकत्वेऽपि नेट् । उकारवृत्त्यार्धधातुकत्वस्य अल्धर्मत्वेन अनल्विधाविति निषेधात् । तदिदं 'भोभगो' इति सूत्रभाष्ये स्पष्टम् । धिनोषि धिनुथः धिनुथ । धिनोमि ।

Padamanjari

Up

धिन्विकृण्व्योर च॥ अतो लोपस्य स्थानिवद्भावाद् गुणो न भवतीति। तेन प्रक्रियालाघवाय धिन्विण्व्योर्लोप एव नोक्त इति भावः। लोपे हि गुणस्स्यात्। न चच'न धातुलोप आर्द्धधातुके' इति निषेधः, प्रत्ययसन्नियोगशिष्टत्वेन लोपस्यानार्द्धधातुकनिमितत्वात्। ननु नुमनुषक्तयोर्ग्रहणं किमर्थम्? नुमि कृतेऽत्वं यथा स्याद्,'धिविकृव्योः' इत्युच्यमानेऽत्वे कृतेऽत एव परो नुम् प्रसज्येत; अत्वं ह्यन्तरङ्गं प्रत्ययसन्नियोगेन विधानात्; नुमागमस्तु बहिरङ्गः, उत्पन्ने प्रत्ययेऽङ्गस्य सतो विधानात्। ननु चास्त्वङ्गस्य नुम्, लावस्थायामेव भविष्यति; तिबादीनामन्तरङ्गत्वात्। तिबादिष्वेव तर्हि भविष्यति, न; नित्येनात्वेन बाधनात्। नुमागमस्तु शब्दान्तरप्राप्तेरनित्यः। अन्तरङ्गस्तर्हि नुमागमस्तद्विधौ धातुग्रहणात्? तद्धि धातुसंज्ञाप्रवृत्तिकाल एव नुम् यथा स्यादित्येवमर्थम्; अन्यस्योदितोऽसम्भवात्। कथमसम्भवः? यदिदानीमेवोक्तम् - तासेरिदित्करणमनुनासिकलोपप्रतिषेधार्थमिति। नन्वत्रापि पक्षे'नुम्विधावुपदेशिवद्ववचनं प्रत्ययसिद्ध्यर्थम्' इति वचनादुपदेश एव नुम् भविष्यति ? एवं तर्ह्यन्तरङ्गत्वादेव प्राप्तस्य नुमोऽयं निर्द्देशः॥