3-1-34 सिप् बहुलं लेटि प्रत्ययः परः च आद्युदात्तः च क्यच् धातोः
index: 3.1.34 sutra: सिब्बहुलं लेटि
धातोः सिप् प्रत्ययो भवति बहुलं लेति परतः। जोषिषत्। तारिषत्। मन्दिषत्। न च भवति। पताति दिद्युत्। उदधिं च्यावयाति।
index: 3.1.34 sutra: सिब्बहुलं लेटि
index: 3.1.34 sutra: सिब्बहुलं लेटि
सिब्बहुलं लेटि॥ जोषिषन्मन्दिषदिति।'जुषी प्रीतिसेवनयोः' 'मदि स्तुतिमोदस्वप्नगतिषु' , अनुदातौ, व्यत्ययेन परस्मैपदम्, सिच इट्'लेटो' डाटौऽ इति तिपोऽट्, ठितश्च लोपः परस्मैपदेषुऽ इतीकारलोपः, तत्र च वेति वर्तते। तारिषदिति।'तृ प्लवनतरणयोः' 'सिब्बहुलं च्छन्दसि णिद्वक्तव्यः' इति वचनाद्वृद्धिः, अमीषां भविता भाविषदिति यथा। छान्दसो वा दीर्घः। पतातीति।'शल हुल पत्लृ गतौ' , लेटोऽडाटौऽ इत्याट् शपासहैकादेशः। च्यावयातीति।'च्युङ् प्रुह् प्लुङ् गतौ' ण्यन्तः। इहावयासिषीष्ठा इति यातेरवपूर्वाल्लिङ् बिहुलवचनास्तिप्, थासः सीयुट्, इट्। ठेकाच उपदेशेऽनुदातात्ऽ इति तु प्रतिषेधो न भवति; सिपा व्यवधानात्॥