आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्

2-4-70 आगस्त्यकौण्डिन्ययोः अगस्तिकुण्डिनच् बहुषु तेन एव अस्त्रियाम् गोत्रे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आगस्त्यकौण्डिन्ययोर्गोत्रप्रत्यययोरणो यञश्च बहुषु लुग् भवति, परिशिष्टस्य च प्रकृतिभागस्य यथासंख्यमगस्ति कुण्डिनच् इत्येतावादेशौ भवतः। अगस्तयः। कुण्डिनाः। चकारःस्वरार्थः। मध्योदात्तो हि कुण्डिनीशब्दस्तदादेशोऽपि तथा स्यात्। अगस्त्यशब्दादृष्यण्। कुण्डिनीशब्दाद् गर्गादित्वाद् यञ्। तयोः <<गोत्रेऽलुगचि>>४.१.८९ इति लुकि प्रतिषिद्ध आगस्तीयाश्छात्रा इति वृद्धलक्षणश्छो भवति। कौण्डिन्ये त्वणैव भवितव्यं <<कण्वादिभ्यो गोत्रे>>४.२.१११ इति। तत्र विशेषो नास्ति। कौण्डिनाश्छात्राः॥

Siddhanta Kaumudi

Up

एतयोरवयवस्य गोत्रप्रत्ययस्याणो यञश्च बहुषु लुक् स्यात् । अवशिष्टस्य प्रकृतिभागस्य यथासंख्यमगस्ति कुण्डिनच् एतावादेशौ स्तः । अगस्तयः । कुण्डिनाः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

आगस्त्यकौण्डिन्ययोरगस्तिकुण्डिनच्॥ कुण्डिनोशब्दस्य यञि'भस्या' ढेअ तद्धितेऽ इति पुंवद्भावे'नस्तद्धिते' इति लोपे कौण्ड।ल् इति प्राप्नोति, अस्मादेव निपातनात्पुंवद्भावः। असति च तस्मिन्नीकारस्य यस्येति लोपः, तस्य स्थानिवत्वादाभीयत्वेनासिद्धत्वाद्वा टिलोपाभावः। आगस्त्यकौण्डिन्येत्येतयोर्गोत्रप्रत्यययोरिति व्यधिकरणे षष्ठयौ, एतयोर्याववयवावीत्यर्थः। तावेव स्वरूपेण दर्शयति - अणश्च यञश्चेति। मध्योदातो हि कुण्डिनीशब्द इति। कुण्डमस्यातीति ठतैनिठनौऽ प्रत्ययस्वरः, ङीबनुदातः। ननु मानुवृतं लुग्ग्रहणम्, प्रत्ययान्तयोरवादेशौ स्तामत आह - तयोरित्यादि। यदि हि प्रत्ययान्तयोरेवादेशौ स्याताम् -'गोत्रे' लुगचिऽ इति प्रतिषेधो न स्याद्, लुको ह्यसौ निषेधो नादेशस्य, ततश्चादेशे सत्यवृद्धत्वादणेव स्यात्; लुकि तु सति तस्य प्रतिषेधे तत्सन्नियोगशिष्टस्यादेशस्याप्यभावाद्धृद्धलक्षणश्चो भवति। तत्र विशेषो नास्तीति किमर्थ तर्हीदमुक्तम् - अणश्च यञश्च बहुषु लुग्भवतीति? एवं मन्यते - यदि कुण्डिनजादेशः समुदायस्य स्याद् अगस्त्यादेशोऽपि तथा स्याद्; अतोऽवश्यं लुगनुवर्त्त्यः, अनुवृतस्य च कौण्डिन्येनापि संबन्धः; विरएधाभावादिति॥