शकि लिङ् च

3-3-172 शकि लिङ् च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् कृत्याः च

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शकीति प्रकृत्यर्थविशेषणम्। शक्नोत्यर्थोपाधिके धात्वर्थे लिङ् प्रत्ययो भवति, चकारात् कृत्याश्च। भवता खलु भारो वोढव्यः,वहनीयः, वाह्यः। भवान् खलु भारं वहेत्। भवानिह शक्तः। सामान्यविहितानां पुनर्वचनं लिङा बाधा मा भूदिति॥

Siddhanta Kaumudi

Up

शक्तौ लिङ् स्यात् चात्कृत्याः । त्वं भारं वहेः । माङि लुङ् <{SK2219}> मा कार्षीः । कथं मा भवतु मा भविष्यतीति । नायं माङ् किंतु माशब्दः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<शकि लिङ् च>> - शकि लिङ् च । 'शक्' इति भावे क्विबन्तम् । शक्तौ गम्यमानायामित्यर्थः । भारं त्वं वहेरिति । वोढुं शक्त इत्यर्थः ।माङि लु॑ङिति व्याख्यातमपि क्रमप्राप्तं विशेषविवक्षया पुनः स्मार्यते । ननु सर्वलकारापवादोऽयमित्युक्तम्, एवं सति मा भवतु मा भविष्यतीति कथमिति शङ्क्यते — कथमिति । परिहरति — नायं माङिति । किंत्विति । ङकारानुबन्धविधिर्मुक्तस्यापि अव्ययेषु पाठादिति भावः । नच माशब्दमादाय मा भवत्वित्यादिप्रयोगसत्त्वेमाङि लु॑ङिति व्यर्थमिति वाच्यं, सर्वलकारविषये 'न माङ्योगे' इत्यडाड्रहितलुङन्तप्रयोगार्थं तदावश्यकत्वात् ।

Padamanjari

Up

प्रकृत्यर्थविशेषणमिति । नोपपदम्,'क्षय्यजय्यौ शक्यार्थे' इति लिङ्गात्, उपपदत्वे हि केवलौ क्षय्यजय्यौ शक्यार्थे न सम्भवतः । भवान्खलु शक्त इति वाक्यशेषः सर्वेषु योज्यः । लिङ बाधा मा भूदिति । स्त्रियाः परेण वासरूपविधेरनित्यत्वाल्लिङ बाधाशङ्का ।'पराजेसोढः' इत्यत्रासोढो योऽर्थः - सोढुंअ न शक्यत इति । शक्यार्थे क्तप्रत्ययो व्याख्यातः स'कृत्यल्युटो बहुलम्' इति वा, वासरूपविधिना वा समर्थनीयः ॥