प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च

3-3-163 प्रैषातिसर्गप्राप्तकालेषु कृत्याः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् लोट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

प्रेषणं प्रैषः। कामचाराभ्यनुज्ञानमतिसर्गः। निमित्तभूतस्य कालस्यावसरः प्राप्तकालता। एतेष्वर्थेषु धातोः कृत्यसंज्ञकाः प्रत्यया भवन्ति, चकाराल्लोट् च। भवता कटः करणीयः, कर्तव्यः, कृत्यः, कार्यः। लोट् खल्वपि — करोतु कटं भवानिह प्रेषितः, भवानति — सृष्टः, भवतः प्राप्तकालः कटकरणे। किमर्थं प्रैषादिषु कृत्या विधीयन्ते, न सामान्येन भावकर्मणोर्विहिता एव, ते प्रैषादिष्वन्यत्र च भविष्यन्ति? विशेषविहितेनानेन लोटा बाध्यन्ते। वासरूपविधिना भविष्यन्ति? एवं तर्हि ज्ञापयति — स्त्र्यधिकारात् परेण वासरूपविधिर्नावश्यं भवतीति। विधिप्रैषयोः को विशेषः? केचिदाहुः — अज्ञातज्ञापनं विधिः, प्रेषणं प्रैष इति॥

Siddhanta Kaumudi

Up

प्रैषो विधिः । अतिसर्गः कामचारानुज्ञा । भवतायष्टव्यम् । भवान्यजताम् । चकारेण लोटोऽनुकर्षणं प्राप्तकालार्थम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च>> - प्रैषातिसर्ग ।लोट् चेति । पूर्वसूत्रोपात्तो लोट् चकारात्समुच्चीयते । कृत्यसंज्ञकाः प्रत्यया वक्ष्यमाणा, लोट् च प्रैषादिषु भवन्तीत्यर्थः । प्रैषे अतिसर्गे च कृत्यप्रत्ययमुदाहरति — भवता यष्टव्यमिति । भावे तव्यप्रत्ययः । लोटमुदाहरति — भवान्यजतामिति । ननु चकारेण लोटोऽनुकर्षणं व्य्रथं, प्रैषस्य विधिरूपतया, अतिसर्गस्य आमन्त्रणरूपतया चलोट् चे॑त्यनेनैव सिद्धेरित्यत आह — वकारेणेति । प्राप्तकाले यथा — गुरुणा भोक्तव्यम् । गुरुर्भुञ्जीत । भोजनं प्राप्तावसरमित्यर्थः ।प्राप्तकाले च कृत्याश्चे॑त्युक्तौ तु निमन्त्रणादिष्वपि कृत्याः स्युः । अतः प्रैषादिग्रहणम् ।

Padamanjari

Up

कृत्य इति ।'विभाषा कृवृषोः' इति क्यप् । भवान् हि प्रेषित इत्यादिर्वाक्यशेषः सर्वेष्वेवोदाहरणेषु योज्यः । न सामान्येनेति । भावकर्मणोरित्युपलक्षणम्; भव्यगेयादीनां कर्तर्यपि भावात् । एवं तर्ह्येतज्ज्ञापयतीति ।'प्रैषादिष्वेव कृत्या भवन्ति नान्यत्र' इति नियमार्थं चैतन्न भवति, अनिष्टत्वात् । अन्यत्रापिकृत्यादृश्यन्ते - तृणेनशोष्यम्, बुधेन बोध्यमिति, अग्निस्तोकं तृणेन दीपनीय इति । वस्तुस्वरूपकथनमेतत्, न त्वत्र प्रैषादिप्रतीतिः । अधिकारात्परेणेति । एनपा योगे पञ्चमी मृग्या । नावश्यमिति । क्वचिद्भवति, क्वचिन्नेत्यर्थः । को विशेष इति । विधिः प्रेरणमिति पूर्वत्र व्याख्यातत्वात् नास्त्येव भेद इति प्रश्नः । यद्यविशेषः, कथं द्वन्द्वनिर्देश इति चेत् ? शब्दरूपस्याभिधेयत्वात् ।'को विशेषः' इति कोऽनयोः शब्दयोविशेषोऽभिधेय इत्यर्थः । केचिदिति । एवमामन्त्रणातिसर्गयोरपि विशेषो ज्ञेयः । केचिदिति वचनादपरेऽनयोर्विसेषं नेच्छन्तीत्युक्तं भवति । तेषामपि प्रैषातिसर्गग्रहणं कर्तव्यमेव, तत्रैव कृत्या यथा स्युरिति ।'प्राप्तकाले च' इति ह्युक्ते निमन्त्रणादावपि कृत्याः स्युः । चकारेण लोडप्यनुकर्षणीयः - प्राप्तकाले यथा स्यादिति ॥