3-3-164 लिङ् च ऊर्ध्वमौहूर्तिके प्रत्ययः परः च आद्युदात्तः च धातोः कृत् प्रैषातिसर्गप्राप्तकालेषु
प्रेषादयो वर्तन्ते। प्रैषादिषु गम्यमानेषूर्ध्वमौहूर्तिकेऽर्थे वर्तमानाद् धातोर्लिङ् प्रत्ययो भवति। चकाराद् यथाप्राप्तं च। ऊर्ध्वं मुहूर्तादुपरि मुहूर्तस्य भवता खलु कटःकर्तव्यः, करणीयः, कार्यः। भवान् खलु कटं कुर्यात्। भवान् खलु करोतु। भवानिह प्रेषितः। भवानतिसृष्टः। भवान् प्राप्तकालः॥
प्रैषादयोऽनुवर्तन्ते । मुहूर्तादूर्ध्वं यजेत यजतां वा । यष्टव्यम् ॥
<<लिङ् चोर्ध्वमौहूर्तिके>> - लिङ् चोध्र्वमौहूर्तिके ।लोडर्थलक्षणे चे॑त्युत्तरमेवंजातीयकमेव सूत्रं लिङ्लड्लुङ्लृड्विधायकं प्राक् पठितम् । तत्र ऊध्र्वमौहूर्तिकशब्दो व्याख्यातः । प्रैषादय इति । तथा च मुहूर्तादूध्र्वं यजेत यजतां यष्टव्यमिति । अत्र प्राप्तकालेऽप्राप्तस्य लिङो विधिः, विध्यादिसूत्रे लिङ्विधौ प्राप्तकालस्य ग्रहणाऽभावात् । प्रैषातिसर्गयोस्तु विद्यादिसूत्रेणैव लिङ् सिध्यति । लिङ एवात्र विधौ तु तेन लोटः कृत्यानां च बाधः स्यात्, अतश्चकारेण तेषामिति विधिरिति ज्ञेयम् ।
चकाराद्यथाप्राप्तं चेति । लोट्, कृत्याश्च ॥