गर्हायां लडपिजात्वोः

3-3-142 गर्हायां लट् अपि जात्वोः प्रत्ययः परः च आद्युदात्तः च धातोः कृत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

गर्हा कुत्सेत्यनर्थान्तरम्। गर्हायां गम्यमानायामपिजात्वोरुपपदयोर्धातोर्लट् प्रत्ययो भवति। <<वर्तमाने लट्>> ३.२.१२३ उक्तः कालसामान्ये न प्रताप्नोतीति विधीयते। कालविशेषविहितांश्चापि प्रत्ययानयं परत्वाद् अस्मिन् विषये बाधते। अपि तत्र भवान् वृषलं याजयति, जातु तत्र भवान् वृषलं याजयति। गर्हामहे, अहोऽन्याय्यमेतत्। लिङ्निमित्ताभावादिह क्रियातिपत्तौ लृङ् न भवति॥

Siddhanta Kaumudi

Up

आभ्यां योगे लट् स्यात् कालत्रये गर्हायाम् । लुङादीन्परत्वादयं बाधते । अपि जायां त्यजसि जातु गणिकामाधत्से गर्हितमेतत् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<गर्हायां लडपिजात्वोः>> - गर्हायाम् । अपि जातु अनयोद्र्वन्द्वः । अत्रवोताप्योरिति भूते लिङ्निमित्ते लृङ् वा इत्यधिकारो न संबध्यते । लड्विधानेन तद्विषये लिङ्निमित्ताऽभावात् । कालत्रये इति । वर्तमाने भूते । भविष्यति चेत्यर्थः । भविष्यतीति निवृत्तम् । अतः कालसामान्ये लडिति भावः । परत्वादिति । अनवकाशत्वाच्चेत्यपि द्रष्टव्यम् ।अपि जाया॑मित्यत्र ,जातु गणिका॑मित्यत्र अपि- जातुशब्दौ निन्दाद्योतकौ । तदाह — गर्हितमेतदिति ।

Padamanjari

Up

कालसामनये न प्राप्नोतीति । विधीयते इत्यनेन भविष्यतीत्यादेः कालविशेषवाचिनो निवृत्तिं सूचयन् कालसामान्ये विधिरिति दर्शयति । कालविशेषविहितांश्चेत्यादि । भाष्ये त्वेष निर्णयः -'गर्हायां लड्विधानानर्थक्यम्, क्रियासमाप्तेरवविवक्षितत्वात् । ताच्छील्यप्रतिपादनेनात्र गर्हा, ततश्च यदनेन क्रियते तत्सर्वं वृषलयाजनार्थमिति सर्वदासौ वृषलं याजयन्नेव भवति, ततश्च क्रियायाः समाप्तिरविवक्षितेति'वर्तमाने लट्' इत्येव सिद्धः । यद्येवम्, शतृशानचावपि प्राप्नुतः, दृश्येते च शतृशानचावपि मां याजयन्तं पश्यत, अपि मां याजमानं पश्येति, प्रत्युत सूत्रारम्भे सत्यवर्तमानकालविहितत्वाल्लुटस्तौ न न प्राप्नुत इति दोषवानेन सूत्रारम्भः' इति ॥