षष्ठी शेषे

2-3-50 षष्ठी शेषे अनभिहिते

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

कर्मादिभ्योऽन्यः प्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिसंबन्धादिः शेषः, तत्र षष्ठी विभक्तिर्भवति। राज्ञः पुरुषः। पशोः पादः। पितुः पुत्रः॥

Siddhanta Kaumudi

Up

कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिसम्बन्धः शेषस्तत्र षष्ठी स्यात् । राज्ञः पुरुषः । कर्मादीनामपि सम्बन्धमात्रविवक्षायां षष्ठ्येव । सतां गतम् । सर्पिषो जानीते । मातुः स्मरति । एधोदकस्योपस्कुरुते । भजे शंभोश्चरणयोः । फलानां तृप्तः ॥

Laghu Siddhanta Kaumudi

Up

कारकप्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिभावादिः संबन्धः शेषस्तत्र षष्ठी। राज्ञः पुरुषः। कर्मादीनापि सम्बन्धमात्रविवक्षायां षष्ठ्येव। सतां गतम्। सर्पिषो जानीते। मातुः स्मरति। एधोदकस्योपस्कुरुते। भजे शम्भोश्चरणयोः॥ इति षष्ठी ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<षष्ठी शेषे>> - अथ षष्ठी । षष्ठी शेषे । उक्तादन्यः शेषः । 'कर्मणि द्वितीया' इत्यादिसूत्रेषु द्वितीयादिविधिषु हि कर्मकर्तृकरणसंप्रदानापादानाधिकरणकारकाण्यनुक्रान्तानि । प्रथमाविधौ प्रातिपदिकार्थोऽनुक्रान्तः । एतेभ्योऽन्यः स्वस्वामिभावादिसंबन्धः शेषपदार्थ इत्यर्थः । तत्राऽसति बाधके संबन्धो विशेषरूपेण सामान्यरूपेण च भासते,न हि निर्विशेषं सामान्यमि॑ति न्यायात् । सति तु बाधकेमातुः स्मरती॑त्यादौ संबन्धत्वेनैव भानम् । कर्मत्वादिविशेषरूपेणापि भाने द्वितीयादिप्रसङ्गादिति स्थितिः । 'राज्ञ पुरुष' इत्यत्र स्वस्वामिभावरूपविशेषात्मना संबन्धत्वरूपसामान्यात्मना च संबन्धः षष्ठर्थः । राजाश्रितस्वामित्निरूपितस्वत्वात्मकसंबन्धाश्रयः पुरुष इति बोधः । आश्रयत्वादि तु संसर्गमर्यादया भासते । तत्र पुरुषो मुख्यं विशेष्यम् । संबन्धस्त्वाधेयतया पुरुषविशेषणम् । राजा तु आश्रयतया संबन्धविशेषणम् । संबन्धस्त्वाधेयतया राजानं प्रति विशेष्यं,प्रधानप्रत्ययार्थवचनमि॑ति वचनेन प्रत्ययार्थस्य प्रकृत्यर्थं प्रति प्राधान्यावगमात् । अत एव पुरुषशब्दादपि न षष्ठी, राजनिरूपितसंबन्धाश्रयः पुरुष इति बोधे संबन्धस्य प्रकृत्यर्थपुरुषं प्रति विशेषणत्वेन विशेष्यत्वेन च भानानुपपत्तेः । यदा तु पुरुषगतस्वत्वनिरूपितस्वामित्यरूपसंबन्धाश्रयो राजेति बोधः, तदा पुरुषस्य राजेति पुरुषशब्दात् षष्ठी भवत्येवेत्यन्यत्र विस्तरः । सतां गतमित्यादौ कर्तृतृतीयादिकमाशङ्क्याह — कर्मादीनामपीति । कर्मत्वकर्तृत्वादीनामपि संबन्धत्वसामान्यात्मना विवक्षायां षष्ठ्येव, नतु कारकविभक्तय इत्यर्थः । तथाच 'क्तस्य च वर्तमाने' इति सूत्रे भाष्यं — कर्मत्वादीनामविवक्षा शेषः॑ इति । सतां गतमिति । भावे क्तः । सत्संबन्धि गमनमित्यर्थः । कर्तृत्वविवक्षायां तु सद्भिर्गतमिति तृतीया भवत्येव । कृद्योगलक्षणा षष्ठी तु न भवति,न लोके॑ति निषेधात् । सर्पिषो जानीते इति । करणत्वविवक्षायां सर्पिषा उपायेन प्रवर्तते इत्यर्थः । करणत्वस्य संबन्धत्वविवक्षायां तु षष्ठी, कर्त्राश्रिता सर्पिःसम्बन्धिनी प्रवृत्तिरिति बोधः । मातुः स्मरतीति । कर्मत्वविवक्षायां मातरं स्मरतीत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायां तु देवदत्तकर्तृकं मातृसम्बन्धि स्मरणमित्यर्थः । एधोदकस्योपस्कुरुते इति । एधशब्दोऽकारान्तः पुंलिङ्गः, 'कारके' इति सूत्रे 'एधाः पक्ष्यन्ते' इति भाष्यप्रयोगात् । एधाश्च उदकानि चेति द्वन्द्वात् षष्ठी, जातिरप्राणिना॑मित्येकवद्भावः । कर्मत्वविवक्षायां एधोदकं शोषणगन्धद्रव्याधानादिना परिष्कुरुते इत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायां तु एधोदकसम्बन्धि परिष्करणमिति बोधः । एधश्शब्दः सकारान्तोऽप्यस्ति नपुंसकलिङ्गः । काष्ठं दार्विन्धनं त्वेध इध्ममेधः समित् स्त्रियाम् इति कोशात्, यथैधांसि समिद्धोऽग्निः॑ इत्यादिदर्शनाच्च । तथा सति एधः-दकस्ये॑तिच्छेदः, उदकशब्दसमावेशे एध उदकस्येत्यापत्तेः । उदकशब्दपर्यायो दकशब्दोऽप्यस्ति, भुवनममृतं जीवनं स्याद्दकं च॑ इति हलायुधकोशात् । तथा च एधः कर्तृ उदकं परिष्कुरुते इत्यर्थः । कर्मत्वस्य शेषत्वविवक्षायां तु षष्ठी, निम्बकरञ्जादिकाष्ठविशेषप्रज्वलिताग्नितप्तोदकस्य गुणविशेषो वैद्यशास्त्रप्रसिद्धः । भजे शम्भोश्चरणयोरिति । अत्र चरणयोः कर्मत्वस्य शेषत्वविवक्षायां षष्ठी । शम्भुचरणसंबन्धि भजनमित्यर्थः । फलानां तृप्त इति । अत्रापि करणत्वस्य शेषत्वविवक्षायां षष्ठी । फलसंबन्धिनी तृप्तिरिति बोधः ।

Padamanjari

Up

षष्ठी शेषे॥ उपयुक्तादन्यः शेषः, कर्मादयश्च प्रातिपदिकार्थपर्यन्ता उपयुक्ता इत्याह - कर्मादिभ्योऽन्य इति। ननु न कर्मादिभ्योऽन्यः प्रातिपदिकार्थस्य व्यतिरकः संभवति, कथम्? क्रियामन्तरेण संबन्धानुपपतेः, सर्वत्र स्यास्तन्निमितानां कर्मादीनां चावश्यम्भावात्। तथा हि - राज्ञः पुरुष इति राजा कर्ता; राजा द्रव्यं पुरुषाय ददातीत्यर्थसंप्रत्ययात्। वृक्षस्य शाखेति। लोकप्रसिद्ध्या वृक्षोऽधिकरणम्, तार्किकप्रक्रियया तु शाखा। देवदतस्य गौरित्यादौ तु प्रतिग्रहणादौ कर्तृत्वं प्रतीयते - देवदतः प्रतिग्रहीता क्रेता विनिमाताऽपहर्ता वेति; उच्यते, नटस्य शृणोतीत्यत्र तावत्क्रियाकारकसंबन्धरूप एव शेषः, कथम्? ठाख्यातोपयोगेऽ इत्युपयोगग्रहणान्नटस्यापादनसंज्ञा नास्ति, दुह्यादिपरिगणनाच्चाकथितत्वेऽपि कर्मसंज्ञा नास्ति, तदयं नटः कारकमेव शेषः। यच्चोक्तम् - क्रियायास्तन्निमितानां च सर्वत्र भावान्नान्यः प्रातिपदिकार्थस्य व्यतिरेक इति, तन्न;प्रतिग्रहक्रयादिजन्यस्य सर्वलोकप्रसिद्धस्य स्वस्वाभिभावादिसंबन्धस्यापि दुरपलापत्वात्। यदि च परस्परमुपकार्योपकारकभावे संबन्धानुपपतेः क्रियाकारकसंबन्धोऽपि सर्वत्र वस्तुस्थित्याऽस्तीत्युच्येत्, अस्तु तथा, न कश्चिद्दोषः; न हि यद्यद्वस्तुस्थित्यास्ति ततदभिधातव्यम्, यदेव तु विवक्षितं तदेव स्वनिमितां विभक्तिं प्रसूते। तत्र स्वस्वामिभावादिसंबन्धविवक्षायां सन्नपि क्रियाकारकसंबन्धो न विवक्ष्यत इति द्वितीयाद्यभावे षष्ठी भविष्यति। एवं च मातुः स्मरति, न माषाणामश्नीयात्, अनुकरोति भगवतो नारायणस्येत्यादौ श्रूयमाणेऽपि क्रियाशब्दे मातृसंबद्धं स्मरणमिति संबन्धमात्रं विवक्षितम्, कर्मत्वं तु सदप्यविवक्षितमिति षष्ठी भवति। उक्तं च - संबन्धः कारकेभ्योऽन्यः क्रियाकारकपूर्वकः। श्रुतायामश्रुतायां च क्रियायां सोऽभिधीयते॥ इति॥'षष्ठी शेषे' इति चेद्विशेष्यस्य प्रतिषेधः स्वस्वामिभावादिसंबन्धः षष्ठ।ल्र्थः, स च द्विष्ठः। तत्र यद्यप्येकस्मादप्युत्पन्नयापि षष्ठ।ल द्विष्ठस्यापि संबन्धस्यावगमादुभाभ्यां षष्ठी न भवति, तथापि कदाचिद्विशेष्यादपि प्राप्नोति, प्रथमा च न प्राप्नोति; संबन्धस्याधिकस्य भावात्, न वा वाक्यार्थत्वात्। यदत्र पुरुषस्याधिक्यं स वाक्यार्थः, राज्ञ इत्येतत्पदसन्निधानात्पुरुषस्य संबन्धः प्रतीयते, पुरुषप्रातिपदिकं तु स्वार्थमात्रे वर्तत इति तत्र प्रथमा च भविष्यति, षष्ठी च न भविष्यतीति। एतदुक्तं भवति - राज्ञ इति केवलपद उच्चार्यमाणे संबन्धित्वमनियतप्रतियोगिकमवगम्यते, पुरुषपदसन्निधौ तु सविशेषस्य प्रतीतिरित्येतावत्, ततश्चानियतं स्वमपेक्ष्य प्रथममेव संबन्धाश्रया षष्ठी भवति। ननु च षष्ठयुच्चारणानुच्चारणकृतो यो विशेषोऽङ्ग भवान् पुरुषपदादपि षष्ठीमुच्चारयतु, गंस्यते स विशेषः? नैतत्सुष्ठूअच्यते, न हि शब्दस्य भावाभावाभ्यामर्थस्य भावाभावौ क्रियेते, किं तर्हि? विद्यमान एवार्थः प्रतिपिपादयिषितश्च वाचकपदप्रयोगे हेतुर्भवति। तत्र गुणस्य परोपकाकत्वेन विवक्षितत्वातदन्ते षष्ठी भवति, पुरुषस्य तूपकार्यत्वात्वात्स्वनिष्ठत्वेन विवक्षितत्वात्प्रथमा भवति। तत्र च संबन्धो गुणे पदं निधाय प्रधानमपि स्पृशति, गुणश्च प्रधानोपकाराय प्रवृतोऽन्यथानुपपते रूपान्तरमाश्रयति। प्रधानं तु स्वनिष्ठत्वेन न रूपान्तरं भजते, उक्तं च - द्विष्ठोऽप्यसौ परार्थत्वाद् गुणेषु व्यतिरिच्यते। तत्राभिधीयमानः सन् प्रधानेऽप्युपयुज्यते॥ इति। यदा तु पुरुषस्याप्रधान्यं राज्ञश्च प्राधान्यं विवक्ष्यते, तदा पुरुषस्य राजेत्यपि भवत्येव; यदा च राज्ञः पुरुषस्य गृहमिति तत्पुरुषस्य गृहादिसंबन्धो विवक्ष्यते तदैकस्यापि वस्तुनो भिन्नविषयो गुणप्रधानभावो न विरुद्ध्यत इति द्वाभ्यामपि षष्ठी भवति। राज्ञ इति हि षष्ठ।ल राजपुरुषयोरेव संबन्धोऽभिहितः, न पुरुषस्य गृहस्य च। इह पञ्चके प्रातिपदिकार्थे'कर्मणि द्वितीया' इत्यादौ चार्थनियमपक्षे शेषग्रहणं शक्यमकर्तुम्, कथम्? कर्मादयो नियताः, शेषोऽनियतः, ततश्च स्वादिसूत्रेण द्वितीयादिषु षष्ठ।लं च शेषे प्राप्तेषु षष्ठीत्येतावदप्युच्यमानं नियमार्थं सम्पद्यते - षष्ठ।लेव भवतीति। यत्र च षष्ठी च प्रत्ययान्तरं च प्राप्नोति तत्रैवंविदधो नियम इत्यर्थाच्छेष एव भविष्यतीति उतरार्थमेव तदवश्यं शेषग्रहणं कर्तव्यम्। त्रिकपक्षे तु स्वार्थे षष्ठी मा भूदिति द्वितीयादीनामिव कर्मादिः शेषो वाच्यत्वेन विधातव्यः। तथा प्रत्ययनियमपक्षे कर्मादीनामनियतत्वातेष्वपि षष्ठ।लं प्राप्तायां शेष एव षष्ठी न कर्मादिष्विति षष्ठीनियमार्थं शेषग्रहणं कर्तव्यम्॥