अर्हे कृत्यतृचश्च

3-3-169 अर्हे कृत्यतृचः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् लिङ् यदि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अर्हतीत्यर्हः, तद्योग्यः। अर्हे कर्तरि वाच्ये गम्यमाने वा धातोः कृत्यतृचः प्रत्यया भवन्ति, चकाराल्लिङ् च। भवता खलु कन्या वोढव्या, वाह्या, वहनीया। भवान् खलु कन्याया वोढा। भवान् खलु कन्यां वहेत्। भवानेतदर्हेदिति। अथ कस्मादर्हे कृत्यतृचो विधीयन्ते। यावता सामान्येन विहितत्वादर्हेऽपि भविष्यन्ति? योऽयमिह लिङ् विधीयते, तेन बाधा मा भूदिति। वासरूपविधिश्चानित्यः॥

Siddhanta Kaumudi

Up

चाल्लिङ् । त्वं कन्यां वहेः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<अर्हे कृत्यतृचश्च>> - अर्हे कृत्यतृतश्च । चाल्लिङिति । योग्येकर्तरि गम्ये कृत्याः, तृच्, लिङ् चेत्यर्थः । त्वं कन्यां वहेरिति । कन्याविवाहस्य योग्य इत्यर्थः ।

Padamanjari

Up

अर्हतीत्यर्ह इति । पचाद्यच् । तद्योग्य इति । तच्छब्देन धात्वर्थः परामृश्यते । अर्हे कर्तरि गम्यमान इति । क्वचिद्वाच्ये, क्वचिद्गम्यमान इत्युभयथानुग्रहाय गम्यमान इत्युक्तम् । क्वचिद् वाच्ये गम्यमाने वेति पाठः, तत्र यथासम्भवमित्यन्वयः । तत्र तृच् अजर्यकुप्यादिषु, कृत्याश्च वाच्यत्वे भवन्ति; लिङ् भव्यगेयादिषु, कृत्याश्चोभयत्र भवन्ति । अथ कस्मात्'कृत्यतृचौ' इति सूत्रे कृत्यभेदविवक्षया बहुवचनम्, इह तु सामान्यविवक्षया द्विवचनम् ? क्वचितु वृतावपि बहुवचनमेव पठ।ल्ते । तेन बाधा मा भूदिति । वासरूपविधिश्च नावश्यं भवतीत्यनन्तरमेवोक्तम् ॥