उपसंवादाशङ्कयोश्च

3-4-8 उपसंवादाशङ्कयोः च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् छन्दसि लेट्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उपसंवादः परिभाषणम्, कर्तव्ये पणबन्धः, यदि मे भवानिदं कुर्याद् अहमपि भवत इदं दास्यामीति। कारणतः कार्यानुसरणं तर्कः, उत्प्रेक्षा, आशङ्का। उपसंवाद आशङ्कायां च गम्यमानायां छन्दसि विषये लेट् प्रत्ययो भवति। उपसंवादे — अहमेव पशूनामीशै (काठ०सं० २५.१)। म॑द॒ग्रा ए॒व॑ वो॒ ग्र॑हा॒ गृह्यान्तै॒ (मै०सं० ४.५.८) इति। मद्देव॒त्या॑न्ये॒व वः॒ पात्रा॑ण्युच्यान्तै॒ (तै०सं० ६.४.७.२)। आशङ्कायां च — नेज्जि॒ह्माय॒न्त्यो न॑र॒कं प॑ताम (ऋ०खिल १०.१०६.१)। जिह्माचरणेन नरकपात आशङ्क्यते। लिङर्थ एवायं नित्यार्थं तु वचनम्। पूर्वसूत्रेऽन्यतरस्यामिति वर्तते॥

Siddhanta Kaumudi

Up

पणबन्धे आशङ्कायां च लेट् स्यात् । अहमेव पशूनामीशै । नेज्जिह्मा यन्तौ नरकं पताम (नेज्जि॑ह्मा य॒न्तौ नरकं॒ प॑ताम) । हलः श्नः शानज्झौ - <{SK2557}> ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

यदि मे भवानित्यादिनोपसंवादस्य स्वरूपं दर्शयति । कारणत इत्यादिना । शङ्कायाः अनुसरणमनुगमनमित्यर्थः । अहमेवेत्यादि । त्रिपुरविजये देवैः प्रर्थितस्य देवस्यैतद्वचनम् । ठीश ऐश्वर्येऽ, उतमैकवचनमिट्, टेरेत्वम्,'वैतोन्यत्र' इत्यैकारः । पशवो द्विपादश्चतुष्पादश्च ।'वायुं देवा अब्रुवन्सोमं राजानं हनामेति, सो' ब्रवीदूरं वृणै, मदग्रा एव वो ग्रहा गृहायान्तै इति । मद्ग्रहोऽग्रं प्रथमं येषां ते तथोक्ताः, ग्रहेः कर्मण्यात्मनेपदं यक्, ग्रहिज्यादिना सम्प्रसारणम्, झस्याडागमः, पूर्ववदैत्यम् ।'देवाः सोममघ्नन्, सो' पूयदशक्यतामागमत्, ते वायुमब्रुवन् इमं नः स्वदयेति, सोऽब्रवीद्वरं वृणै, मद्देवतान्येव वः पात्राण्युच्यान्तै इति । अहं देवता येषां तानि तथोक्तानि । उच्यान्तै इति वचेः'वचिस्वपि' इत्यादिना सम्प्रसारणम्, शेषं पूर्ववत् । नेज्जिह्यायन्त इति । इच्छब्द आशङ्कां द्योतयति । जिह्मचरणेन नरकपातः सम्भाव्यते, स मा भूदित्यर्थः । जिह्ममुकुटिलं पापम्,'च्छन्दसि परेच्छायाम्' इति क्यच्, ठश्वाघस्यात्ऽ इति योगविभागोनात्वम् । वृतौ तु वस्तुमात्रं दर्शितम् । जिह्माचरणेनेति । न पुनराचारे उपमानादन्यत्र क्यजस्ति । हेतौ शतृप्रत्ययः । लिर्ङ्थ एवायमिति । हेतुहेतुमद्भावे, कथम् ? उपसंवादे तावत्करणं हेतुः, दानं हेतुमत्; अन्यथा यदि मे भवानिदं कुर्यादिति लिङ् न स्यात्, विभाषा तु लिङिति । अहमपि ते इदं दास्यामीति लृट् । भाष्ये तु ददातेरपि लिङ् प्रयुक्तः । आशङ्कापि कारणतः कार्यानुसरणम्, तत्र कारणं हेतुः, कार्यं हेतुमत् । अथापि करणमवधिः, दानमवधिमदित्यवध्यवधिमद्भाव उपसंवादे प्रतीयते, न हेतुहेतुमद्भावः, आशङ्कायामपि निश्चितो हेतुहेतुमद्भावो नास्तीत्युच्येत, तथापि लिङ्प्रयोगसिद्धयेऽवश्यं वक्तव्योऽत्र हेतुहेतुमद्भावः, अतो लिर्ङ्थ एवायमित्यर्थः । नित्यार्थं तु वचनमिति । च्छन्दसि नित्योऽत्र लिङ् दृश्यत इति मन्यते, तथापि व्यवस्थितविभाषया सिद्धमिति चेतदेव तर्हि वचनेन ज्ञाप्यते ॥