ऊर्यादिच्विडाचश्च

1-4-61 ऊर्यादिच्विडाचः च आ कडारात् एका सञ्ज्ञा निपाताः क्रियायोगे गतिः

Sampurna sutra

Up

ऊर्यादि-च्वि-डाचः निपाताः क्रियायोगे गति

Neelesh Sanskrit Brief

Up

ऊर्यादिगणस्य शब्दाः, च्वि-प्रत्ययान्तशब्दाः, तथा डाच्-प्रत्ययान्तशब्दाः क्रियायोगे गतिसंज्ञकाः भवन्ति । यथा - ऊरीकृत्य, शुक्लीकृत्य, पटपटाकृत्य ।

Kashika

Up

ऊर्यादयः शब्दाः च्व्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञा भवन्ति। च्विडाचोः कृभ्वस्तियोगे विधानम्। तत्साहचर्यादूर्यादीनामपि तैरेव योगे गतिसंज्ञा विधीयते। ऊरीउररीशब्दावङ्गीकरणे विस्तारे च। ऊरीकृत्य। ऊरी॑कृतम्। यदू॑रीक॒रोति॑। उररीकृत्य। उर॑रीकृतम्। यदु॑ररीक॒रोति॑। पापी। ताली। आताली। वेताली। धूसी। शकला। संशकला। ध्वंसकला। भ्रंशकला। एते शकलादयो हिंसायाम्। शकलाकृत्य। संशकलाकृत्य। ध्वंसकलाकृत्य। भ्रंशकलाकृत्य। गुलगुधा पीडार्थे। गुलगुधाकृत्य। सजूः सहार्थे। सजूःकृत्य। फलू, फली, विक्ली, आक्ली इति विकारे। फलूकृत्य। फलीकृत्य। विक्लीकृत्य। आक्लीकृत्य। आलोष्टी, कराली, केवाली, शेवाली, वर्षाली, मस्मसा, मसमसा। एते हिंसायाम्। वषट्। वौषट्। श्रौषट्। स्वाहा। स्वधा। बन्धा। प्रादुस्। श्रुत्। आविस्। च्व्यन्ताः खल्वपि — शुक्लीकृत्य। शुक्ली॑कृतम्। यत् शु॑क्लीक॒रोति॑। डाच् — पटपटाकृत्य। पट॑पटाकृतम्। यत् प॑टपटाक॒रोति॑॥

Siddhanta Kaumudi

Up

एते क्रियायोगे गतिसंज्ञा स्युः । ऊरीकृत्य । उररीकृत्य । शुक्लीकृत्य । पटपटाकृत्य । कारिकाशब्दस्योपसंख्यानम् ॥ कारिका क्रिया कारिकाकृत्य ॥

Laghu Siddhanta Kaumudi

Up

ऊर्यादयश्च्व्यन्ता डाजन्ताश्च क्रियायोगे गतिसंज्ञाः स्युः। ऊरीकृत्य। शुक्लीकृत्य। पटपटाकृत्य। सुपुरुषः॥ <<प्रादयो गताद्यर्थे प्रथमया>> (वार्त्तिकम्)। प्रगत आचार्यः प्राचार्यः। <<अत्यादयः क्रान्ताद्यर्थे द्वितीयया>> (वार्त्तिकम्) । अतिक्रान्तो मालामिति विग्रहे -

Neelesh Sanskrit Detailed

Up

अष्टाध्याय्यां <<गतिश्च>> 1.4.60 इत्यतः <<जीविकोपनिषदावौपम्ये>> 1.4.79 इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं द्वितीयं सूत्रम् । अनेन सूत्रेण ऊर्यादिगणस्य शब्दानाम्, च्वि-प्रत्ययान्तशब्दानाम्, तथा च डाच्-प्रत्ययान्तशब्दानां क्रियायोगे गतिसंज्ञा विधीयते । इदं सूत्रं <<प्राग्रीश्वरान्निपाताः>> 1.4.56 अस्मिन् अधिकारे अपि विद्यते, अतः एतेषां शब्दानां निपातसंज्ञा अपि भवति । <<च्वि>> तथा च <<डाच्>> एतौ प्रत्ययौ केवलं <<कृ>>, <<भू>> तथा च <<अस्>> धातूनां योगे एव विहितौ स्तः । अतः ऊर्यादिगणस्य शब्दानाम् अपि <<कृ>>, <<भू>> तथा च <<अस्>> एतेषां योगे एव प्रकृतसूत्रेण गतिसंज्ञा भवति । निपातसंज्ञायाः कृते तु क्रियायोगः न आवश्यकः, अतः निपातसंज्ञा तु नित्यमेव भवति । एतेषां त्रयाणाम् क्रमेण विवरणम् एतादृशम् - 1. ऊर्यादिगणः ऊर्यादिगणः इति गणपाठे पाठितः कश्चन शब्दसमूहः । अस्य गणस्य शब्दानाम् आवली इयम् - ऊरी । उररी । तन्थी । ताली । आत्ताली । वेताली । धूली । धूस । शकला । संशकला । ध्वंसकला । भ्रंसकला । गुलुगुधा । सजूस् । फल । फली । विक्ली । आक्ली । आलोष्ठी । केवाली । केवासी । सेवासी । पर्याली । शेवाली । वर्षाली । अत्यूमशा । मश्मशा । मस्मसा । मसमसा । औषट् । श्रौषट् । वौषट् । वषट् । स्वाहा । स्वधा । वन्धा । प्रादुस् । श्रत् । आविस् ॥ एतेषां सर्वेषाम् अपि शब्दानां क्रियायोगे प्रकृतसूत्रेण गतिसंज्ञा भवति । गतिसंज्ञायां सत्याम् <<कुगतिप्रादयः>> 2.2.18 इत्येन एतेषाम् कृदन्तैः सह उपपदसमासः सम्भवति । यथा - ऊरी + कृ + क्त = ऊरीकृत, उररी + भू + क्त = ऊररीभूत, पापी + कृ + क्त = पापीकृतः इत्यादिकम् । किञ्च, क्त्वा-प्रत्ययान्तशब्देन सह एतादृशः समासः यदा भवति तदा <<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> 7.1.37 इत्यनेन क्त्वा-प्रत्ययस्य ल्यप्-आदेशः अपि भवति, येन ऊरीकृत्य, उररीकृत्य, पापीभूय इत्यादयः शब्दाः सिद्ध्यन्ति । ऊर्यादिगणस्य केषाञ्चन शब्दानां अर्थावगमनार्थम् काशिकाकारेण कानिचन गणसूत्राणि अपि पाठितानि सन्ति । तानि एतादृशानि -

  • 1. <<ऊरीउररीशब्दावङ्गीकरणे विस्तारे च>> । ऊरी इति शब्दः अङ्गीकरणम् अस्मिन् अर्थे प्रयुज्यते । यथा, ऊरीकरोति = अङ्गीकरोति, स्वीकरोति । एवमेव, उररी इति शब्दः विस्तारः अस्मिन् अर्थे प्रयुज्यते । यथा, उररीकरोति = विस्तारं करोति (विस्तृणाति) ।
  • 2. <<शकलादयः हिंसायाम्>> । शकला, संशकला, ध्वंसकला,भ्रंसकला - एते चत्वारः शब्दाः हिंसार्थे प्रयुज्यते । यथा, शकलाकरोति / संशकलाकरोति / ध्वंसकलाकरोति / भ्रंसकलाकरोति = हिंसां करोति ।
  • 3. <<गुलगुधा पीडार्थे >> । गुलगुधा इति शब्दः पीडा अस्मिन् अर्थे प्रयुज्यते । यथा, गुलगुधाकरोति = पीडां करोति ।
  • 4. <<सजूः सहार्थे >> । सजूस् इति शब्दः सह अस्मिन् अर्थे प्रयुज्यते । यथा, सजूःकरोति = (केनचित्) सह करोति ।
  • 5. << फलू, फली, विक्ली, आक्ली इति विकारे>> । फलू, फली, विक्ली,आक्ली - एते चत्वारः शब्दाः परिवर्तनम् (transformation) अस्मिन् अर्थे प्रयुज्यते । यथा, फलूकरोति / फलीकरोति / विक्लीकरोति / आक्लीकरोति = परिवर्तनं करोति ।
  • 6. <<आलोष्ठी, केवाली, केवासी, सेवासी, पर्याली, शेवाली, वर्षाली, अत्यूमशा, मश्मशा, मस्मसा, मसमसा एते हिंसायाम् >> । आलोष्ठी, केवाली, केवासी,सेवासी, पर्याली, शेवाली, वर्षाली,अत्यूमशा,मश्मशा, मश्मशा, मसमसा - एते सर्वेऽपि शब्दाः हिंसार्थे प्रयुज्यन्ते । यथा, आलोष्ठीकरोति / केवालीकरोति / केवासीकरोति / सेवासीकरोति / पर्यालीकरोति / शेवालीकरोति / वर्षालीकरोति /अत्यूमशाकरोति / मश्मशाकरोति / मश्मशाकरोति / मसमसाकरोति = हिंसां करोति । गणे विद्यमानानां अन्येषां शब्दानाम् अर्थाः गणसूत्रैः न दीयन्ते । अतः कोशे दत्तेषु अर्थेषु एव तेषां प्रयोगः करणीयः ।
    2. च्वि-प्रत्ययान्तशब्दाः <<च्वि>> इति कश्चन तद्धितसंज्ञकप्रत्ययः अस्ति ।<<अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः>> 5.4.50 इत्यनेन अयं प्रत्ययः प्रातिपदिकेभ्यः <<कृ>>/<<भू>>/<<अस्>>-धातोः योगे अभूततद्भावस्य निर्देशार्थम् विधीयते । अस्य प्रत्ययस्य प्रयोगेण गतिसंज्ञकाः शब्दाः सिद्ध्यन्ति । यथा - शुक्ल इति शब्दात् <<अभूततद्भावे कृभ्वस्तियोगे सम्पद्यकर्तरि च्विः>> 5.4.50 इत्यनेन <<कृ>>/<<भू>>/<<अस्>>-धातोः योगे <<च्वि>>-प्रत्ययं योजयित्वा शुक्ली इति शब्दः सिद्ध्यति । अयं शब्द: च्वि-प्रत्ययान्तः अस्ति अतः प्रकृतसूत्रेण अस्य गतिसंज्ञा भवति । गतिसंज्ञासामर्थ्यात् <<कुगतिप्रादयः>> 2.2.18 इत्यनेन अत्र कृदन्तेन सह गतिसमासः भवितुम् अर्हति, येन शुक्लीकृत, शुक्लीकृत्य, शुक्लीभूय, शुक्लीभवितुम् एतादृशानि समस्तपदानि सिद्ध्यन्ति । एवमेव दृढीकृत्य, स्पष्टीकृत्य, सफलीकृत्य - इत्यत्र विद्यमानाः दृढी, स्पष्टी , सफली इत्येते शब्दाः अपि च्वि-प्रत्ययान्ताः सन्ति अतश्च गतिसमासे भागं गृह्णन्तः दृश्यन्ते ।
    3. डाच्-प्रत्ययान्तशब्दाः <<डाच्>> इत्यपि कश्चन तद्धितसंज्ञकप्रत्ययः एव । <<अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच्>> 5.4.57 इत्यतः <<मद्रात् परिवापणे>> 5.4.67 इत्येतैः एकादशभिः सूत्रैः (भिन्नेषु सन्दर्भेषु) अयं प्रत्ययः <<कृ>>/<<भू>>/<<अस्>>-धातोः योगे प्रातिपदिकेभ्यः विधीयते । <<डाच्>>-प्रत्ययान्तशब्दाः अपि प्रकृतसूत्रेण गतिसंज्ञकाः भवन्ति । यथा, पटत् इति शब्दस्य द्वित्वे कृते ततः <<कृ>>/<<भू>>/<<अस्>>-धातोः योगे अस्मात् <<अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् >> 5.4.67 इत्यनेन <<डाच्>> प्रत्ययं कृत्वा पटपटा इति शब्दः सिद्ध्यति । अयं डाजन्तः शब्दः, अतः प्रकृतसूत्रेण अयं गतिसंज्ञकः भवति । गतिसंज्ञासामर्थ्यात् <<कुगतिप्रादयः>> 2.2.18 इत्यनेन अत्र कृदन्तेन सह गतिसमासः भवितुम् अर्हति, येन पटपटाकृत्य, पटपटाकृत, पटपटाभूय, पटपटाकर्तुम् एतादृशानि समस्तपदानि सिद्ध्यन्ति । एवमेव द्विगुणाकृत, समयाकृत, सपत्राकृत - इत्यत्र विद्यमानाः द्विगुणा, समया , सपत्रा इत्येते शब्दाः अपि डाच्-प्रत्ययान्ताः सन्ति अतश्च गतिसमासे भागं गृह्णन्तः दृश्यन्ते । तदन्तस्य संज्ञा वस्तुतः <<संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति >> इत्यनया परिभाषया प्रकृतसूत्रे उक्ता गतिसंज्ञा <<च्वि>> / <<डाच्>> प्रत्यययोः भवेत्, न हि तदन्तानाम् । परन्तु अत्र क्रियायोगे इति शब्दस्य अनुवृत्तिः वर्तते, तथा च क्रियायाः योगे केवलः (प्रकृतिविरहितः) <<च्वि>>/<<डाच्>>-प्रत्ययः नैव सम्भवति । अतः अत्र - क्रियायोगे यस्य प्रयोगः तस्य गतिसंज्ञा - इति निर्णयं कृत्वा च्व्यन्तस्य, डाजन्तस्य च गतिसंज्ञा विधीयते । सिद्धान्तकौमुदीस्थं वार्त्तिकम् - <!कारिकाशब्दस्योपसंख्यानम् !> कौमुद्यां प्रकृतसूत्रे इति वार्त्तिकं पाठितम् अस्ति । कारिका ("क्रिया" इति अर्थः) शब्दस्य क्रियायोगे गतिसंज्ञा भवेत् — इति अस्य वार्त्तिकस्य आशयः । एतादृश्यां गतिसंज्ञायां सिद्धायाम् <<कुगतिप्रादयः>> 2.2.18 इत्यनेन अस्य शब्दस्य कृदन्तेन सह गतिसमासः भवितुम् अर्हति, अतश्च <<समासेऽनञ्पूर्वे क्त्वो ल्यप्>> 7.1.37 इत्यनेन धातोः विहितस्य <<क्त्वा>>-प्रत्ययस्य <<ल्यप्>>-आदेशः अपि भवति, येन कारिकाकृत्य इति शब्दः सिद्ध्यति । ##Balamanorama <<ऊर्यादिच्विडाचश्च>> - ऊर्यादिच्वि । च्वि-डाचौ प्रत्ययौ । ऊरीकृत्येति । ऊरीत्यव्ययमङ्गीकारे, तस्य कृत्वेत्यनेन गतिसमासः । समासेऽनञ्पूर्वे क्त्वो ल्यप् । शुक्लीकृत्येति । अशुक्लं शुक्लं कृत्वेत्यर्थः । 'कृभ्वस्तियोगे' इत्यभूततद्भावे च्विः । गतिसमासे सति क्त्वो ल्यप्,वेरपृक्तस्ये॑ति वलोपः । 'अस्य च्वौ' इति ईत्त्वम् । पटपटाकृत्येति । 'पटपटा' इति शब्दं कृत्वेत्यर्थः ।अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् इति पटच्छब्दाड्डाचि द्वित्वम्, टिलोपः ।नित्यमाम्रेडिते डाची॑ति तकारपकारयो पकार एकादेशः । गतिसमासे क्त्वो ल्यप् । कारिकाशब्दस्योपसङ्ख्यानमिति । 'गतिसंज्ञाया' इति शेषः । कारिकाशब्दं व्याचष्टे — कारिका क्रियेति ।स्त्रियां क्ति॑नित्यधिकारे धात्वर्थनिर्देशे ण्वुल् । कारिकाकृत्येति । क्रियां कृत्वेत्यर्थः । द्वितीयान्तस्य गतिसमासे क्त्वो ल्यप्, सुब्लुक् । कारिकाशब्दोऽत्र न कत्र्रीवाची, न श्लोकवाची च, व्याख्यानात् । ##Padamanjari च्व्यन्ता डाजन्ताश्चेति। यद्यपि पदसंज्ञायामन्तग्रहणेन'संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिर्नास्ति' इति ज्ञापितम्, तथापिठ्क्रियायोगेऽ इत्यनुवृतेस्तदन्तग्रहणमिति भावः। न हि प्रत्ययमात्रस्य क्रियायोगः सम्भवति, स्वार्थिकत्वेन स्वयमनर्थकत्वात्, च्वेरश्रावित्वाच्च। कृभ्वस्तियोग इति। न केवलम्, संज्ञाप्रयोगोऽप्यन्यत्र भवति, न हि भवति उरीसंपद्यते इति, श्रौषडादीनां स्वाहापर्यन्तानां चादिषु पाठाद् अक्रियायोगेऽपि निपातत्वम्। आविःशब्दस्य साक्षात्प्रभृतिषु पाठात् कृञो योगे विकल्पः, कृभ्वस्तियोगे त्वनेन नित्यम्। कथं तर्हि ठाविश्चक्षुषोऽभवदसाविव रागःऽ, ठभवन् युगपद्विलोलजिह्वा युगलीढोभयसृक्कधारमाविः इति? स्वतन्त्रा कवयः। शुक्लीकृत्येति। ठस्य च्वौऽ इतीत्वम्। पटपटाशब्दः'वा क्यषः' इत्यत्र व्युत्पादितः॥