अच्छ गत्यर्थवदेषु

1-4-69 अच्छगत्यर्थवदेषु आ कडारात् एका सञ्ज्ञा निपाताः गतिः अव्ययम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

अव्ययसंज्ञकः "अच्छ" इति शब्दः गत्यर्थकधातूनां योगे तथा च वद्-धातोः योगे गतिसंज्ञकः भवति । यथा - अच्छगत्य, अच्छोद्य ।

Kashika

Up

अच्छशब्दोऽव्ययमभिशब्दस्यार्थे वर्तते। स गत्यर्थेषु धातुषु वदतौ च गतिसंज्ञो भवति। अच्छगत्य। अच्छ॑गतम्। यद॑च्छ॒गच्छ॑ति। वदतौ — अच्छोद्य। अच्छो॑दितम्। यद॑च्छ॒वद॑ति। अव्ययमित्येव — उदकमच्छं गच्छति॥

Siddhanta Kaumudi

Up

अव्ययमित्येव । अच्छगत्य । अच्छोद्य । अभिमुखं गत्वा उक्त्वा चेत्यर्थः । अव्ययं किम् । जलमच्छं गच्छति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

अष्टाध्याय्यां <<गतिश्च>> 1.4.60 इत्यतः <<जीविकोपनिषदावौपम्ये>> 1.4.79 इति सूत्रैः गतिसंज्ञा पाठ्यते । अस्यैव प्रकरणस्य इदं दशमं सूत्रम् । अनेन सूत्रेण अव्ययसंज्ञकस्य अच्छ (= अभिमुखम् इत्यर्थः) इति शब्दस्य क्रियायाः योगे गतिसंज्ञा भवति । गतिसंज्ञायां सत्याम् <<कुगतिप्रादयः>> 2.2.18 इत्यनेन अस्य शब्दस्य कृदन्तैः सह उपपदसमासः सम्भवति । यथा - अच्छगत्य पृच्छति (= अभिमुखं गत्वा पृच्छति) । एवमेव अच्छोद्य प्रणमति (= अभिमुखम् उक्त्वा प्रणमति) इति । एवमेव अच्छगतम्, अच्छोदितम्, अच्छगमनम्, अच्छवदनम् इत्यादयः शब्दाः अपि सिद्ध्यन्ति । <hl>अच्छ</hl> इति अव्ययसंज्ञकः शब्दः अत्र यद्यपि सूत्रे अच्छ इति निर्देशः वर्तते, तथापि वस्तुतः अत्र मूलम् अव्ययम् अच्छम् इति अस्ति । न च्छ्यति सम्मुखत्वात् (दृष्टिं न आवृणोति) इति व्युत्पत्त्या <<छो>>-धातोः <<घञ्>>-प्रत्यये कृते अच्छम् इति अव्ययं सिद्ध्यति । परन्तु प्रकृतसूत्रस्य प्रयोगसमये अस्य अव्ययस्य अन्ते विद्यमानस्य मकारस्य लोपः भवति, अतश्च अच्छ इत्येव प्रयोगे दृश्यते । अयं लोपः सूत्रविधानसामर्थ्यात् (इत्युक्ते निपातनात्) एव साधु ज्ञेयः । <hl>अव्ययम्</hl> इति किमर्थम् ? प्रकृतसूत्रे पूर्वसूत्रात् अव्ययम् इति शब्दः अनुवर्तते । अनेन अच्छ इति अव्ययस्य एव प्रकृतसूत्रे ग्रहणं भवति । परन्तु अन्येषु अर्थेषु विद्यमानः यः अव्ययभिन्नः अच्छ-शब्दः तस्य विषये प्रकृतसूत्रस्य उपयोगः न भवति । यथा - जलम् अच्छं गत्वा स्नाति (निर्मलं / शुद्धं जलं प्रति गत्वा स्नानं करोति - इत्यर्थः) । अत्र वाक्ये अच्छम् इति अव्ययं नास्ति अपितु "निर्मलम्" इत्यस्मिन् अर्थे विद्यमानस्य अच्छशब्दस्य द्वितीयैकवचनस्य रूपम् अस्ति । अतः अत्र प्रकृतसूत्रस्य प्रयोगः न भवति, येन गतिसंज्ञा न विधीयते, येन गतिसमासः अपि न कर्तुं शक्यते ।

Balamanorama

Up

<<अच्छ गत्यर्थवदेषु>> - अच्छगत्येति । गतिसमासे क्त्वो ल्यप् । अच्छोद्येति । वदधातोः क्त्वा । गतिसमासे क्त्वो ल्यप् । अच्छेत्यव्ययमाभिमुख्ये । तद्यथा — बर्हिरच्छैतीति । तदाह — अभिमुखमिति । जलमच्छं गच्छतीति । अत्राऽच्छशब्दस्य नाव्ययत्वं, न गतिसंज्ञा, नापिप्राग्रीश्वरान्निपाताः॑ इत्यधिकृतनिपातसंज्ञा । निपातत्वे सति हि अव्ययत्वाद्विभक्तिलुक् । स्यादिति भावः ।

Padamanjari

Up

अच्छेत्यनुकरणत्वेऽविभक्तिको निर्देशः,'सुपां सुलुक्' इति विभक्तेर्लु प्तत्वात्। अभिशब्दस्यार्थ इति। आभिमुख्ये। अच्छाएद्योति। यजादित्वात् संप्रसारणम्, उदकमच्छ्ंअ गच्छति, अकलुषमित्यर्थः॥