गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्ता स णौ

1-4-52 गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणि कर्ता सः णौ आ कडारात् एका सञ्ज्ञा कारके कर्म

Sampurna sutra

Up

गति-बुद्धि-प्रत्यवसानार्थ-शब्दकर्म-अकर्मकाणाम-णि कर्ता सः णौ कर्म

Neelesh Sanskrit Brief

Up

गत्यर्थकधातवः, बुध्यर्थकधातवः, भोजनार्थकधातवः, शब्दकर्मधातवः, तथा च अकर्मकधातवः - एतेषां विषये अण्यन्तप्रयोगस्य कर्ता ण्यन्तप्रयोगे कर्मसंज्ञकः भवति । यथा - माणवकं ग्रामं गमयति, माणवकं धर्मं बोधयति, माणवकम् ओदनं भोजयति, माणवकं वेदम् अध्यापयति, माणवकं शाययति ।

Neelesh English Brief

Up

For verbs indicating motion (गति), knowledge (बुद्धि), eating (भक्षण); for verbs whose action involves a word (शब्दकर्म) ; and for the अकर्मक verbs the कर्ता of the अप्रयोजक sentence becomes कर्म in the प्रयोजक sentence.

Kashika

Up

अर्थशब्दः प्रत्येकमभिसंबध्यते। गत्यर्थानां बुद्ध्यर्थानां प्रत्यवसानार्थानां च धातूनां तथा शब्दकर्मकाणामकर्मकाणां चाण्यन्तानां यः कर्ता, स ण्यन्तानां कर्मसंज्ञो भवति। गच्छति माणवको ग्रामम्। गमयति माणवकं ग्रामम्। याति माणवको ग्रामम्। यापयति माणवकं ग्रामम्॥ गत्यर्थेषु नीवह्योः प्रतिषेधो वक्तव्यः॥ नयति भारं देवदत्तः। नाययति भारं देवदत्तेन। वहति भारं देवदत्तः। वाहयति भारं देवदत्तेन॥ वहेरनियन्तृकर्तृकस्येति वक्तव्यम्॥ इह प्रतिषेधो मा भूत् — वहन्ति यवान् बलीवर्दाः। वाहयति यवान् बलीवर्दानिति। बुद्धि — बुध्यते माणवको धर्मम्। बोधयति माणवकं धर्मम्। वेत्ति माणवको धर्मम्। वेदयति माणवकं धर्मम्। प्रत्यवसानमभ्यवहारः — भुङ्क्ते माणवक ओदनम्। भोजयति माणवकमोदनम्। अश्नाति माणवक ओदनम्। आशयति माणवकमोदनम्॥ आदिखाद्योः प्रतिषेधो वक्तव्यः॥ अत्ति माणवक ओदनम्। आदयते माणवकेनौदनम्। खादति माणवकः। खादयति माणवकेन॥ भक्षेरहिंसार्थस्य प्रतिषेधो वक्तव्यः॥ भक्षयति पिण्डीं देवदत्तः। भक्षयति पिण्डीं देवदत्तेनेति। अहिंसार्थस्येति किम्? भक्षयन्ति बलीवर्दाः सस्यम्, भक्षयन्ति बलीवर्दान् सस्यम्। शब्दकर्मणाम् — अधीते माणवको वेदम्। अध्यापयति माणवकं वेदम्। पठति माणवको वेदम्। पाठयति माणवकं वेदम्। अकर्मकाणाम् — आस्ते देवदत्तः। आसयति देवदत्तम्। शेते देवदत्तः। शाययति देवदत्तम्। एतेषामिति किम्? पचत्योदनं देवदत्तः। पाचयत्योदनं देवदत्तेनेति। अण्यन्तानामिति किम्? गमयति देवदत्तो यज्ञदत्तम्, तमपरः प्रयुङ्क्ते, गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः॥

Siddhanta Kaumudi

Up

गत्याद्यर्थानां शब्दकर्मणामकर्मकाणां चाणौ यः कर्ता स णौ कर्म स्यात् ॥ शत्रूनगमयत्स्वर्गं वेदार्थं स्वानवेदयत् । आशयच्चामृतं देवान्वेदमध्यापयद्विधिम् ॥ 1 ॥ आसयत्सलिले पृथ्वीं यः स मे श्रीहरिर्गतिः ॥गतीत्यादि किम् ? पाचयत्योदनं देवदत्तेन । अण्यन्तानां किम् ? गमयति देवदत्तो यज्ञदत्तं तमपरः प्रयुङ्क्ते गमयति देवदत्तेन यज्ञदत्तं विष्णुमित्रः ।<!नीवह्योर्न !> (वार्तिकम्) ॥ नाययति वाहयति वा भारं भृत्येन ॥<!नियन्तृकर्तृकस्य वहेरनिषेधः !> (वार्तिकम्) ॥ वाहयति रथं वाहान् सूतः ।<!आदिखाद्योर्न !> (वार्तिकम्) ॥ आदयति खादयति वा अन्नं बटुना ॥<!भक्षेरहिंसार्थस्य न !> (वार्तिकम्) ॥ भक्षयत्यन्नं बटुना । अहिंसार्थस्य किम् ? भक्षयति बलीवर्दान् सस्यम् ॥<!जल्पतिप्रभृतीनामुपसङ्ख्यानम् !> (वार्तिकम्) ॥ जल्पयति भाषयति वा धर्मं पुत्रं देवदत्तः ।<!दृशेश्च !> (वार्तिकम्) ॥ दर्शयति हरिं भक्तान् । सूत्रे ज्ञानसामान्यार्थानामेव ग्रहणं न तु तद्विशे0षार्थनामित्यनेन ज्ञाप्यते । तेन स्मरति जिघ्रतीत्यादीनां न । स्मारयति घ्रापयति वा देवदत्तेन ॥<!शब्दायतेर्न !> (वार्तिकम्) ॥ शब्दाययति देवदत्तेन । धात्वर्थसङ्गृहीतकर्मत्वेनाकर्मकत्वात्प्राप्तिः । येषां देशकालादिभिन्नं कर्म न संभवति तेऽत्राकर्मकाः । न त्वविवक्षितकर्माणोऽपि । तेन मासमासयति देवदत्तमित्यादौ कर्मत्वं भवत्येव । देवदत्तेन पाचयतीत्यादौ तु न ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<कारके>> 1.4.23 इत्यस्मिन् अधिकारे यैः दशभिः सूत्रैः कर्मसंज्ञायाः विधानम् क्रियते, तेषु इदं नवमं सूत्रम् । अनेन सूत्रेण णिजन्तप्रयोगे कर्मसंज्ञा विधीयते । अण्यन्तवाक्यस्य यः कर्ता, सः सामान्यरूपेण णिजन्तवाक्ये अपि कर्तृसंज्ञकः एव भवति । एतादृश्यां कर्मसंज्ञायां प्राप्तायाम्, पञ्चसु स्थलेषु तां बाधित्वा प्रकृतसूत्रेण तस्याः स्थाने कर्मसंज्ञा विधीयते । क्रमेण विवरणम् एतादृशम् -

  • 1. गत्यर्थकाः धातवः । यथा - पिता माणवकं ग्रामं गमयति । <<गम्>>, <<या>> इत्यादयः ये गत्यर्थकाः धातवः, तेषाम् अण्यन्त-कर्ता णिजन्तप्रयोगे प्रकृतसूत्रेण कर्मसंज्ञः भवति । यथा, <<गम्>>-धातोः अण्यन्तप्रयोगे माणवकः ग्रामं गच्छति इत्यत्र विद्यमानः कर्तृंसज्ञकः माणवकपदार्थः अस्यैव वाक्यस्य ण्यन्तप्रयोगे कर्मसंज्ञकः भवति - पिता माणवकं ग्रामं गमयति । अत्र पितृपदार्थः ण्यन्तक्रियायाः कर्ता (प्रयोजककर्ता) अस्ति, तथा च माणवकपदार्थः अण्यन्तक्रियायाः कर्ता (प्रयोज्यकर्ता) अस्ति यः ण्यन्तप्रयोगे कर्मसंज्ञकः जातः । ग्रामपदार्थः अण्यन्तप्रयोगे ण्यन्तप्रयोगेऽपि च ईप्सिततमत्वात् कर्मसंज्ञकः एव अस्ति । एतादृशम् अत्र ण्यन्तप्रयोगे धातुः द्विकर्मकत्वं प्राप्नोति । अत्र गमयति इति तिङन्तेन प्रयोजककर्तुः अभिधानं क्रियते, अतः अनभिहितं कर्मद्वयम् अपि <<कर्मणि द्वितीया>> 2.3.2 इत्यनेन द्वितीयया एव निर्दिश्यते ।एवमेव, पिता माणवकं ग्रामं यापयति इति प्रयोगः अपि सिद्ध्यति ।
  • 2. बुद्ध्यर्थकाः धातवः । यथा - पिता माणवकं धर्मं बोधयति । <<बुध्>>, <<विद्>> इत्यादयः ये बुद्ध्यर्थकाः धातवः, तेषाम् अण्यन्त-कर्ता णिजन्तप्रयोगे प्रकृतसूत्रेण कर्मसंज्ञः भवति । यथा, <<बुध्>>-धातोः अण्यन्तप्रयोगे माणवकः धर्मं बुध्यते इत्यत्र विद्यमानः कर्तृसंज्ञकः माणवकपदार्थः अस्यैव वाक्यस्य ण्यन्तप्रयोगे कर्मसंज्ञकः भवति - पिता माणवकं धर्मं बोधयति । अत्र पितृपदार्थः ण्यन्तक्रियायाः कर्ता (प्रयोजककर्ता) अस्ति, तथा च माणवकपदार्थः अण्यन्तक्रियायाः कर्ता (प्रयोज्यकर्ता) अस्ति यः ण्यन्तप्रयोगे कर्मसंज्ञकः जातः । धर्मपदार्थः अण्यन्तप्रयोगे ण्यन्तप्रयोगेऽपि च ईप्सिततमत्वात् कर्मसंज्ञकः एव अस्ति । एतादृशम् अत्र ण्यन्तप्रयोगे धातुः द्विकर्मकत्वं प्राप्नोति । अत्र बोधयति इति तिङन्तेन प्रयोजककर्तुः अभिधानं क्रियते, अतः अनभिहितं कर्मद्वयम् अपि <<कर्मणि द्वितीया>> 2.3.2 इत्यनेन द्वितीयया एव निर्दिश्यते । एवमेव, पिता माणवकं धर्मं वेदयति इति प्रयोगः अपि सिद्ध्यति ।
  • 3. प्रत्यवसानार्थकाः (भोजनार्थकाः) धातवः । यथा - पिता माणवकं ओदनं भोजयति । <<भुज्>>, <<अश्>> इत्यादयः ये भोजनार्थकाः धातवः, तेषाम् अण्यन्त-कर्ता णिजन्तप्रयोगे प्रकृतसूत्रेण कर्मसंज्ञः भवति । यथा, <<भुज्>>-धातोः अण्यन्तप्रयोगे माणवकः ओदनं भुङ्क्ते इत्यत्र विद्यमानः कर्तृसंज्ञकः माणवकपदार्थः अस्यैव वाक्यस्य ण्यन्तप्रयोगे कर्मसंज्ञकः भवति - पिता माणवकं ओदनं भोजयति । अत्र पितृपदार्थः ण्यन्तक्रियायाः कर्ता (प्रयोजककर्ता) अस्ति, तथा च माणवकपदार्थः अण्यन्तक्रियायाः कर्ता (प्रयोज्यकर्ता) अस्ति यः ण्यन्तप्रयोगे कर्मसंज्ञकः जातः । ओदनपदार्थः अण्यन्तप्रयोगे ण्यन्तप्रयोगेऽपि च ईप्सिततमत्वात् कर्मसंज्ञकः एव अस्ति । एतादृशम् अत्र ण्यन्तप्रयोगे धातुः द्विकर्मकत्वं प्राप्नोति । अत्र भोजयति इति तिङन्तेन प्रयोजककर्तुः अभिधानं क्रियते, अतः अनभिहितं कर्मद्वयम् अपि <<कर्मणि द्वितीया>> 2.3.2 इत्यनेन द्वितीयया एव निर्दिश्यते । एवमेव, पिता माणवकं ओदनम् आशयति इति प्रयोगः अपि सिद्ध्यति ।
  • 4. शब्दकर्मकाः धातवः । यथा - पिता माणवकं वेदम् अध्यापयति । येषाम् धातूनाम् कर्मपदम् शब्दस्वरूपम् अस्ति (यथा - वेदः, श्लोकः, काव्यम्, ग्रन्थः, गीतम् , गद्यम्, पद्यम् - आदयः) - ते धातवः शब्दकर्मकाः धातवः नाम्ना ज्ञायन्ते । यथा - <<गै>>, <<पठ्>>, <<अधि + इण्>> इत्यादयः । एतादृशानाम् शब्दकर्मक-धातूनाम् अण्यन्त-कर्ता णिजन्तप्रयोगे प्रकृतसूत्रेण कर्मसंज्ञः भवति । यथा, <<अधि + इ>>-धातोः अण्यन्तप्रयोगे माणवकः वेदम् अधीते इत्यत्र विद्यमानः कर्तृसंज्ञकः माणवकपदार्थः अस्यैव वाक्यस्य ण्यन्तप्रयोगे कर्मसंज्ञकः भवति - पिता माणवकं वेदम् अध्यापयति । अत्र पितृपदार्थः ण्यन्तक्रियायाः कर्ता (प्रयोजककर्ता) अस्ति, तथा च माणवकपदार्थः अण्यन्तक्रियायाः कर्ता (प्रयोज्यकर्ता) अस्ति यः ण्यन्तप्रयोगे कर्मसंज्ञकः जातः । वेदपदार्थः अण्यन्तप्रयोगे ण्यन्तप्रयोगेऽपि च ईप्सिततमत्वात् कर्मसंज्ञकः एव अस्ति । एतादृशम् अत्र ण्यन्तप्रयोगे धातुः द्विकर्मकत्वं प्राप्नोति । अत्र अध्यापयति इति तिङन्तेन प्रयोजककर्तुः अभिधानं क्रियते, अतः अनभिहितं कर्मद्वयम् अपि <<कर्मणि द्वितीया>> 2.3.2 इत्यनेन द्वितीयया एव निर्दिश्यते । एवमेव, पिता माणवकं पाठं पाठयति इति प्रयोगः अपि सिद्ध्यति ।
  • 5. अकर्मकाः धातवः । यथा - पिता माणवकं शाययति । <<शी>>, <<आस्>>, <<हस्>>, <<डी>> इत्येतेषाम् अकर्मकधातूनाम् अण्यन्त-कर्ता णिजन्तप्रयोगे प्रकृतसूत्रेण कर्मसंज्ञः भवति । यथा, <<शी>>-धातोः अण्यन्तप्रयोगे माणवकः शेते इत्यत्र विद्यमानः कर्तृसंज्ञकः माणवकपदार्थः अस्यैव वाक्यस्य ण्यन्तप्रयोगे कर्मसंज्ञकः भवति - पिता माणवकं शाययति । अत्र पितृपदार्थः ण्यन्तक्रियायाः कर्ता (प्रयोजककर्ता) अस्ति, तथा च माणवकपदार्थः अण्यन्तक्रियायाः कर्ता (प्रयोज्यकर्ता) अस्ति यः ण्यन्तप्रयोगे कर्मसंज्ञकः जातः । वेदपदार्थः अण्यन्तप्रयोगे ण्यन्तप्रयोगेऽपि च ईप्सिततमत्वात् कर्मसंज्ञकः एव अस्ति । अत्र अध्यापयति इति तिङन्तेन प्रयोजककर्तुः अभिधानं क्रियते, अतः अनभिहितं कर्म अत्र <<कर्मणि द्वितीया>> 2.3.2 इत्यनेन द्वितीयया निर्दिश्यते । एवमेव, पिता माणवकं हासयति इति प्रयोगः अपि सिद्ध्यति । 1. अकर्मकधातवः इत्युक्ते ते धातवः येषां कर्मपदं न सम्भवति । "वाक्ये कर्मपदं वर्तते उत न" इति विषयः अत्र न चिन्तनीयः । यथा, देवदत्तः पचति इत्यत्र वाक्ये यद्यपि कर्मपदं न विद्यते, तथापि अत्र कर्मपदस्य अध्याहारः शक्यः यतः पच्-धातोः सन्दर्भेण कर्मपदम् तु अवश्यमेव सम्भवति । अतः पच्-धातुः अत्र अकर्मकरूपेण नैव परिगण्यते । 2. पूर्वसूत्रे कौमुद्यां विद्यमानेन इति वार्त्तिकेन अकर्मकधातूनां योगे अपि देशकालादिकं कर्मपदम् भवितुम् अर्हति । परन्तु एतादृशे कर्मपदे लब्धे अपि एते धातवः अकर्मकरूपेणैव परिगण्यन्ते, अतः प्रकृतसूत्रे विद्यमानेन अकर्मक इति अंशेन तेषां ग्रहणम् अवश्यमेव भवति । यथा - पिता माणवकं कुरून् शाययति । अत्र माणवकपदार्थस्य कर्मसंज्ञा प्रकृतसूत्रेण, तथा च कुरुपदार्थस्य कर्मसंज्ञा इति वार्त्तिकेन सिद्ध्यति । निषेधवार्त्तिकानि प्रकृतसूत्रेण उक्तस्य नियमस्य निषेधरूपेण आहत्य पञ्च वार्त्तिकानि पाठ्यन्ते । तानि एतादृशानि -
  • 1. <<नी>> <{1.1049}> तथा <<वह्>> <{1.1159}> इत्यतौ धातू यद्यपि गत्यर्थकौ स्तः, तथापि अनयोः विषये प्रकृतसूत्रस्य प्रयोगः न भवति । यथा - पिता माणवकेन अजं नाययति । अत्र अण्यन्तप्रयोगस्य कर्तृसंज्ञकः माणवकपदार्थः ण्यन्तप्रयोगे कर्मसंज्ञां न प्राप्नोति अपितु कर्तृसंज्ञकः एव तिष्ठति । एतादृशस्य अनभिहित-कर्तुः निर्देशार्थम् <<कर्तृकरणयोस्तृतीया>>2.3.18 इत्यनेन तृतीयाविभक्तिः प्रयुक्ता दृश्यते । एवमेव, पिता माणवकेन भारं वाहयति इत्यत्रापि माणवकपदार्थस्य कर्मसंज्ञा न भवति ।
  • 2. । इदं वार्त्तिकं पूर्ववार्त्तिकस्य अपवादस्वरूपेण प्रवर्तते । यदि वह्-धातोः प्रयोजककर्ता नियन्ता (सारथिः) अस्ति, तर्हि पूर्ववार्त्तिकेन उक्तः निषेधः नैव प्रवर्तते, तथा प्रयोज्यकर्तुः ण्यन्त-प्रयोगे अवश्यमेव कर्मसंज्ञा भवति । यथा - सूतः अश्वान् रथं वाहयति । अत्र अश्वानां सारथ्यं सूतेन क्रियते इति कारणात् वह्-धातोः विषये पूर्ववार्त्तिकस्य प्रयोगः न क्रियते अपितु सूत्रप्रयोगेणैव अश्वपदार्थस्य कर्मसंज्ञा विधीयते ।
  • 3. <<अद् >> <{2.1}> तथा च <<खाद्>> <{1.51}> इत्येतौ धातू यद्यपि प्रत्यवसानार्थकौ (भोजनार्थकौ) स्तः, तथापि एतयोः विषये प्रकृतसूत्रं नैव प्रवर्तते; अतः एतयोः ण्यन्तप्रयोगे अण्यन्तकर्ता कर्तृंसंज्ञकः एव तिष्ठति । यथा - पिता माणवकेन ओदनम् आदयति / खादयति
  • 4. <<भक्ष्>> <{10.33}> इति चौरादिकधातोः विषये "यत्र हिंसा (वनस्पतेः पशोः वा हत्या) न भवति" तत्र प्रकृतसूत्रस्य प्रयोगः न क्रियते । यथा, माणवकः ओदनं भक्षयति इत्यत्र हिंसा नैव विद्यते, अतः अस्य वाक्यस्य णिजन्तप्रयोगे माणवकपदार्थस्य प्रकृतसूत्रेण प्राप्ता कर्मसंज्ञा निषिध्यते, येन पिता माणवकेन ओदनं भक्षयति इति प्रयोगः सिद्ध्यति । हिंसार्थके अर्थे तु प्रकृतसूत्रस्य प्रयोग भवत्येव । यथा, बलीवर्दः सस्यम् भक्षयति इत्यत्र सस्यं भूमेः उत्पाट्य (तस्य हिंसां कृत्वा) भक्षयति इति आशयः वर्तते । अतः अत्र ण्यन्तप्रयोगे बलीवर्दपदार्थस्य अवश्यं हि प्रकृतसूत्रेण कर्मसंज्ञा विधीयते, यथा - कृषकः बलिवर्दम् सस्यं भक्षयति ।
  • 5. <<शब्दाय>> इति आतिदेशिकधातोः विषये प्रकृतसूत्रं नैव प्रवर्तते । अयं धातुः "शब्दं करोति" अस्मिन् अर्थे "शब्द" इति प्रातिपदिकात् <<कर्तुः क्यङ् सलोपश्च>> 3.1.11 इत्यनेन क्यङ्-प्रत्ययं कृत्वा सिद्ध्यति । अस्य धातोः कर्मपदं शब्दः इति अस्ति, अतः प्रकृतसूत्रस्य शब्दकर्मक इति अंशेन अस्य धातोः ग्रहणं सम्भवति । परन्तु तादृशं ग्रहणं न इष्यते अतः इदं वार्त्तिकं पाठितम् अस्ति । <<शब्दाय>> इति धातोः अण्यन्त-कर्तुः ण्यन्त-प्रयोगे प्रकृतसूत्रेण प्राप्ता कर्मसंज्ञा अनेन वार्त्तिकेन निषिध्यते । यथा - पिता माणवकेन शब्दाययति । अत्र "माणवकः" इति अण्यन्तप्रयोगस्य कर्ता ण्यन्तप्रयोगे अपि कर्तृसंज्ञकः एव तिष्ठति । विधायकवार्त्तिकानि प्रकृतसूत्रेण येषां धातूनां ग्रहणं कृतं नास्ति, तेषां विषये अपि प्रकृतसूत्रस्यैव विधानं कर्तुं द्वे वार्त्तिके निर्मिते स्तः -
  • 1. । <<जल्प्>> <{1.464}>, <<भाष्>> <{1.696}>, तथा च <<वि + लप्>> <{1.468}> - एतेषां त्रयाणाम् अपि अर्थः "व्यक्तायां वाचि" इति अस्ति । एतेषाम् प्रयोगे विद्यमानं कर्मपदं यद्यपि शब्दकर्म नास्ति, तथापि एतेषां अण्यन्त-कर्तुः ण्यन्तप्रयोगे अवश्यं हि कर्मसंज्ञा भवति । यथा - पिता माणवकं धर्मं जल्पयति । अत्र धर्मपदार्थः शब्दकर्मकः नास्ति अतः अत्र प्रकृतसूत्रेण अप्राप्ता कर्मसंज्ञा अनेन वार्त्तिकेन विधीयते । एवमेव, पिता माणवकं धर्मं भाषयति तथअ च पिता माणवकं धर्मं विलापयति इत्येतौ प्रयोगौ अपि सिद्ध्यतः ।
  • 2. <<दृश्>> <{1.1143}> इत्यस्य विषये अपि अण्यन्त-कर्तुः ण्यन्तप्रयोगे कर्मसंज्ञा भवति । यथा - पिता माणवकं शुकं दर्शयति 1. वस्तुतः <<दृश्>>-धातुः बुद्ध्यर्थकः (ज्ञानविशेषार्थकः) अस्ति, अतः प्रकृतसूत्रे विद्यमानेन बुद्धि इति पदेनैव <<दृश्>>-धातोः विषये अण्यन्तकर्तृपदस्य ण्यन्तप्रयोगे कर्मसंज्ञा सिद्धा अस्ति । तथापि अत्र इदं वार्त्तिकं पुनः पाठ्यते । <<सिद्धे अति आरम्भः नियमार्थः>> इत्यनेन इदं वार्त्तिकं नियमं करोति, यत् - ज्ञानविशेषार्थकधातूनां विषये प्रकृसूत्रं प्रयोक्तव्यं चेत् <<दृश्>>-धातोः विषये एव, न अन्येषाम् । अस्य प्रयोजनम् अस्ति <<घ्रा>> तथा <<स्मृ>> एतयोः धात्वोः विषये प्रकृतसूत्रस्य निषेधः । एतौ धातू विशेषज्ञानं बोधयतः अतः एतयोः विषये प्रकृतसूत्रं नैव प्रयुज्यते, अतश्च एतयोः शुद्धकर्ता ण्यन्तप्रयोगे कर्तृसंज्ञकः एव तिष्ठति । यथा - पिता माणवकेन पुष्पं घ्रापयति । एवमेव, पिता माणवकेन गुरुं स्मारयति । 2. <<दृश्>>-धातोः विषये ण्यन्तप्रयोगे दर्शयति तथा दर्शयते इति द्वे रूपे भवतः । एताभ्याम् इति वार्त्तिकम् केवलं दर्शयति इति परस्मैपदप्रयोगस्य विषये एव प्रयुज्यते । दर्शयते इति आत्मनेपदप्रयोगस्य विषये तु अग्रिमसूत्रे इति विकल्पः पाठितः अस्ति । दलकृत्यम् 1. गत्यादीनाम् एव किमर्थम् ? सूत्रे उक्तान् अर्थान् विहाय अन्येषु अर्थेषु प्रयुक्तानां धातूनां विषये प्रकृतसूत्रं नैव प्रवर्तते - इति स्पष्टीकर्तुम् अत्र गत्यादीनां ग्रहणं कृतम् अस्ति । यथा - पिता माणवकेन पत्रं लेखयति । अत्र लेखनक्रियायाः कर्ता माणवकपदार्थः ण्यन्तप्रयोगे कर्मसंज्ञां नैव प्राप्नोति यतोहि लेखनार्थकस्य प्रकृतसूत्रे निर्देश-अभावात् लेखनार्थकधातूनां विषये इदं सूत्रं नैव प्रयुज्यते । अतः लिखति इत्यस्य कर्ता लेखयति इत्यस्य प्रयोगे अपि कर्तृसंज्ञकः एव तिष्ठति । एवमेव, पिता माणवकेन ओदनं पाचयति इत्यत्रापि माणवकपदार्थस्य ण्यन्तप्रयोगे कर्मसंज्ञा न भवति । 2. अणि कर्ता इति किमर्थम्? इदं सूत्रम् केवलं अण्यन्त-प्रयोगस्य कर्तृपदस्य विषये एव प्रवर्तते इति स्पष्टीकर्तुम् अत्र "अणि कर्ता" इति प्रयोगः कृतः अस्ति। ण्यन्तप्रयोगस्य यत् कर्तृपदम्, तत् तस्यापि ण्यन्तप्रयोगे प्रकृतसूत्रेण कर्मसंज्ञकं न भवति । यथा - माणवकः गच्छति इति अण्यन्तवाक्यस्य कर्ता माणवकपदार्थः ण्यन्तप्रयोगे कर्मसंज्ञां प्राप्नोति, येन पिता माणवकं गमयति इति प्रयोगः सिद्ध्यति । इदानीम्, "आचार्यः पितरं माणवकं गमयितुम् प्रेरयति" इति अर्थस्य निर्देशार्थम् <<गमि>> इति ण्यन्तात् पुनः अग्रे णिच्-प्रत्ययः भवति, येन आचार्यः पित्रा माणवकं गमयति इति वाक्यं सिद्ध्यति । अस्मिन् वाक्ये आहत्य त्रीणि कर्तृपदानि विद्यन्ते । तत्र प्रेरणार्थकस्य यः प्रेरणार्थः (इत्युक्ते गम् + णिच् + णिच्) तस्य कर्ता आचार्यः इति अस्ति, सः च अस्मिन् वाक्ये गमयति इत्यनेन अभिहितः अपि अस्ति, अतः तस्य प्रथमाविभक्तौ निर्देशः क्रियते । अग्रे, प्रथम-स्तरीयः यः प्रेरणार्थः (इत्युक्ते गम् + णिच्) तस्य कर्ता पिता इति अस्ति । अयं पितृपदार्थः द्वितीयस्तरीयणिजन्तवाक्ये यदा प्रयुज्यते, तदा धातोः गत्यर्थकत्वे सति अपि पितृपदार्थस्य प्रकृतसूत्रेण कर्मसंज्ञा नैव विधीयते, यतः पितृपदार्थः "अण्यन्तस्य कर्ता" नास्ति । एतत् स्पष्टीकर्तुम् एव प्रकृतसूत्रे अणि कर्ता इति अंशः स्थापितः अस्ति ।माणवकः इति तु अण्यन्तस्य कर्ता अस्ति, अतः सः तु धातोः गत्यर्थकत्वात् प्रथमस्तरीयणिजन्ते अपि कर्मसंज्ञकः भवति, द्वितीयस्तरीयणिजन्ते अपि कर्मसंज्ञकः भवति । ##Balamanorama <<गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणामणि कर्त्ता स णौ>> - गतिबुद्धि । गतिश्च बुद्धिश्च प्रत्यवसानं च तानीति द्वन्द्वः । प्रत्यवसानं-भक्षणम् । गतिबुद्धिप्रत्यवसानानि अर्थो येषामिति विग्रहः । शब्दः कर्म येषां ते शब्दकर्मणः, तेषामिति बहुव्रीहिः । अविद्यमान कर्म येषां ते अकर्मकाः । उभयत्रापि कर्मशब्दः कारकपरः । गतिबुद्धिप्रत्यवसानार्थाश्च शब्दकर्माणश्च अकर्मकाश्च तेषामिति द्वन्द्वः । अणौ कर्ता-अणिकर्ता । यच्छब्दोऽध्याहार्यः । तदाह — हत्याद्यर्थानामित्यादिना । णौ अनुत्वपन्ने सति शुद्धधातुवाच्यां क्रियां प्रति यः कर्ता स ण्यन्ताधातुवाच्यां प्रयोजकव्यापारात्मिकां क्रियां प्रति कर्मसंज्ञकः स्यादित्यर्थः । क्रमेणोदाहरति — शत्रूनिति ।शत्रूनगमयत् स्वर्ग॑मिति गत्यर्थकस्योदाहरणम् । शत्रवो युद्धे मृताः स्वर्गमगच्छन्, तान् यः शस्त्रवातेनाऽगमयत् स्वर्गं, स श्रीहरिर्मे गतिरित्यत्रान्वयः । अत्र गमेरण्यन्तावस्थायां शत्रवो गमनक्रियां प्रति कर्तारः, स्वर्गस्तु कर्म । ण्यन्तावस्थायां तु णिज्वाच्यां प्रयोजकव्यापारात्मिकां शस्त्रघातक्रियां प्रति घातयिता हरिः कर्ता । शत्रवस्तु कर्म । शस्त्रघातजन्या या क्रिया स्वर्गप्राप्तिस्तदाश्रयत्वात् । एवंच हरिः प्रयोजककर्ता, शत्रवस्तु प्रयोज्यकर्तारः । प्रयोजककर्तुर्हरेः शाब्दं प्राधान्यम्, अन्यानधीनत्वलक्षणं चार्थप्राधान्यमस्ति । शत्रूणां तु अन्याधीनस्वर्गप्राप्तिकर्तृत्वं प्रयोकधीनत्वाद्गुणभूतमेव । सेषित्वलक्षणमार्थप्राधान्यं तु प्रयोज्यशत्रुगतकर्तृत्वस्यैव, प्रयोजकव्यापास्य प्रयोज्यस्वर्गप्राप्त्यर्थत्वादिति स्थितिः । तत्रान्यानधीनत्वलक्षणस्यार्थप्राधान्यस्य शाब्दप्राधान्यस्य च प्रयोजकव्यापारे सत्त्वात्तदनुरोधि शत्रुगतं कर्मत्वंकर्तुरीप्सिततम॑मित्येव सिद्धम् । अतो नियमार्थमिदं सूत्रेणिजर्थनाऽऽप्यमानस्य प्रयोज्यकर्तुर्यदि कर्मत्वं भवति तर्हि गत्यर्थादीनामेवे॑ति । तेन 'पाचयति देवदत्तेन' इत्यादौ प्रयोज्यकर्तुर्न कर्मत्वं, किंतु कर्तृत्वमेव । तदेतत्हेतुमिति चे॑ति सूत्रे भाष्यकैयटयोः स्पष्टम् । उक्तं च हरिणा — ॒गुणक्रियायां स्वातन्त्र्यात् प्रेषणे कर्मतां गतः । नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते ।॑ इति स्वधर्मेणेति । तृतीययेत्यर्थः । एवंच स्वर्गकर्मकं शत्रुनिष्ठं यद्गमनं तदनुकूलो यन्निष्ठो व्यापारः स श्रीहरिर्मे गतिरिति वाक्यार्थः । एवमग्नेऽप्यूह्रम् । वेदार्थं स्वानवेदयदिति । बुद्ध्यर्थधातोर#उदाहरणम् । स्वशब्द आत्मीयपरः । स्वे=स्वकीयाविधिप्रमुखा वेदार्थमविदुः, तान् हरिर्वेदार्थमवेदयदित्यर्थः । अत्र स्वेषां प्रयोज्कर्त्तृणां कर्मत्वम् । आशयच्चामृतं देवानिति । प्रत्यवसानार्थस्य उदाहरणम् । देवा अमृतमाश्नन्, तान् हरिराशयदित्यर्थः । वेदमध्यापयद्विधिमिति । शब्दकर्मण उदाहरणमेतत् । विधिब्र्राहृआ वेदमधीतवान्, तं हरिरध्यापयदित्यर्थः । अत्र प्रयोज्यकर्तुर्विधेः कर्मत्वम् । आसयत्सलिले पृथ्वीमिति । अकर्मकस्योदाहरणम् । सलिले पृथ्वी आस्त, तां हरिरासयदित्यर्थः । अत्र पृथिव्याः प्रयोज्यकर्त्र्याः कर्मत्वम् । यः स मे श्रीहरिर्गतिरिति प्रतिवाक्यमन्वयः ।नीवह्र्रोनेति । 'णीञ् प्रापणे,' 'वह प्रापणे' इत्यनयोण्र्यन्तयोः प्रयोज्यकर्तु॒र्गतिबुद्धी॑त्युक्तं नेति वक्तव्यमित्यर्थः । नाययति वाहयति वेति । भृत्यो भारं नयति वहति वा, तं प्रेरयतीत्यर्थः । अत्र प्रयोज्यकर्तुर्भृत्यस्य णिच्प्रकृत्यर्थं नयं वहनं च प्रति कर्तुः प्रयोजकव्यापारं प्रतिकर्मत्वे निवृत्ते णिच्प्रकृत्यर्थं प्रति कर्तृत्वस्यैव निरपवादत्वे नावस्थानात्तृतीया बोध्या । यद्यपि नीवग्योः प्रापणमर्थः, तथापि गत्यनुकूलव्यापारार्थके प्रापणे गतेर्विशेषणत्वेन प्रविष्टतया गत्यर्थत्वात्प्राप्तिरिति भावः । नियन्तृकर्तृकस्येति । एवंच तत्र प्रयोज्यकर्तुरुक्तस्यनीवह्रोर्ने॑ति प्रतिषेधस्याऽभावे सति प्रयोज्यस्य कर्मत्वं वक्तव्यमिति फलितम् । वाहयतीति । बाहाः=अआआ वहन्ति, तान् सूतः प्रेरयतीत्यर्थः ।नियन्ता प्राजिता यन्ता सूतः क्षत्ता च सारथिः॑ इत्यमरः ।वहन्ति बलीवर्दा यवान्, वाहयति बलीवर्दान् देवदत्तः॑ इति बाष्योदाहरणान्नियन्ता पशुप्रेरक एव विवक्षितः ।अदिखाद्योर्नेति । अद भक्षणे, खादृ भक्षणे, अनयोः प्रयोज्यकर्तुः कर्मत्वं नेति वक्तव्यमित्यर्थः । प्रत्यवसानार्थकत्वात् प्राप्तिः । आद्यति खादयति वेति । अत्ति खादति वा अन्नं बटुः, तं प्रेरयतीत्यर्थः । भक्षेरिति । अहिंसार्थकस्य भक्षधातोः प्रयोजकर्तुः कर्मत्वं नेति वक्तव्यमित्यर्थः । ननुगतिबुद्धी॑ति सूत्रे अणौ कर्तुर्णौ कर्मत्वमुक्तम् । भक्षधातुस्तु चुरादित्वान्नित्यं स्वार्थिकण्यन्तः, तस्याऽणिकर्ता नास्त्येव । अतस्तस्य कर्मत्वनिषेधोऽनुपपन्नः, अप्रसक्तत्वादिति चेन्न, अत एव निषेधाल्मलिङ्गात्गतिबुद्धी॑ति सूत्रे णिग्रहणेन हेतुमत एव विवक्षितत्वात् । एवंच हेतुमण्णिचि अनुत्पन्ने सति अण्यन्तभक्षिधातुवाच्यां क्रियां प्रति कर्तुर्हेतुमण्ण्यन्तवाच्यां क्रियां प्रति कर्मत्वमित्यर्थः पर्यवस्यतीति न दोषः । भक्षयत्यन्नं बटुनेति । चुरादिण्यन्ताद्भक्षधातोर्हेतुमण्णिचि पूर्वणेर्लोपे हेतुमण्ण्यन्तात्तिबादौ सति भक्षयतीति रूपम् । एवंच भक्षयत्यन्नं बटुः । खादतीत्यर्थः । तं प्रेरयतीति ण्यन्तस्यार्थः । भक्षयति बलीवर्दानिति । क्षेत्रे प्ररूढमूलनं सस्यमिह विवक्षितम् । तस्य तदानीमन्तःप्रज्ञजीवत्वात्तद्भक्षणं हिंसैवेति भावः ।जल्पतिप्रभृतीनामिति । एतेषामणौ यः कर्ता स णौ कर्म स्यादिति वक्तव्यमित्यर्थः । जल्पयति भाषयति वेति ।धर्म मिति शेषः । पुत्रो धर्मं जल्पति भाषते वा, तं देवदत्तः प्रेरयतीत्यर्थः । गत्यर्थादिष्वनन्तर्भावाद्वचनम् । नच शब्दनक्रियार्थत्वादेव सिद्धे वचनमिदं व्यर्थमिति वाच्यम्, अत एवशब्दकर्माकर्मकाणा॑मित्यस्य शब्दः कर्म कारकं येषामित्यर्थात् । अन्यथा वेदमध्यापयद्विधिमित्यसिद्धेः । वार्तिके आदिना व्याहरतिवदत्यादीनां सङ्ग्रहः । भाष्ये तुके पुनर्जल्पतिप्रभृतयः । जल्पति विलपति आभाषते॑ इत्येवोक्तम् । परिगणनमित्येके, उदाहरणमात्रप्रदर्शनमित्यन्ये ।दृरोश्चेति । 'दृशिर्प्रेक्षणे' अस्याप्यणौ यः कर्ता स णौ कर्म स्यादिति वक्तव्यमित्यर्थः । दर्शयतीति । हरि भक्ताः पश्यन्ति, तान् गुरुः प्रेरयतीत्यर्थः । ननु दृशेर्बुद्धिविशेषात्मकत्वादेव सिद्धे किमर्थमिदं वचनमित्यत आह-सूत्रे इति ।गतिबुद्धी॑ति सूत्रे बुद्धिग्रहणेन ज्ञानसामान्यवाचिनांविद ज्ञाने, ज्ञा अवबोधने॑ इत्यादीनामेव ग्रहणं नतु ज्ञानविशेषवाचिनामित्येतत्दृरोश्चे॑त्यनेन विज्ञायते । अन्यथादृरोश्चे॑त्यस्य वैयथ्र्यप्रसङ्गात् । तेनेति । ज्ञापनेनेत्यर्थः । स्मरति जिघ्रतीत्यादीनामिति । आदिना प्रेक्षते इत्यादीनां सङ्ग्रहः । स्मारयतीति । स्मरति प्रियां देवदत्तः, जिघ्रति चन्दनं देवदत्त, तं यज्ञदत्तः, प्रेरयतीत्यर्थः ।शब्दायतेर्नेति । शब्दं करोतीत्यर्थेशब्दवैरे॑त्यादिना क्यङि,अकृत्सार्वधातुकयो॑रिति दीर्घे, 'सनाद्यन्ताः' इति धातुत्वे श्तिपा निर्देशोऽयम् । शब्दायेति क्यङ्न्तधातोरणौ कर्ता णौ कर्म नेति वक्तव्यमित्यर्थः । शब्दाययति देवदत्तेनेति । शब्दायते देवदत्तः, तं यज्ञदत्तः प्रेरयतीत्यर्थः । देवदत्तस्य कर्मत्वाऽभावात्प्रयोज्यकर्तृत्वमादाय तृतीयैव । अत्र शब्दकर्मकत्वात्प्राप्तिरिति भ्रमं निरस्यति-धात्वर्थेति । शब्दकर्मकमुत्पादनं शब्दायेति क्यङन्तस्य धातोरर्थः । एवं च शब्दात्मकं कर्म धात्वर्थेऽन्तर्भूतम्, अतः शब्दस्येति क्यङन्तदातुरकर्मकः,धात्वर्थबहुर्भूतकर्मकत्वमेव सकर्मकत्वमि॑ति 'सुप आत्मनः' इति सूत्रे भाष्ये प्रपञ्चितत्वात् । तस्मादकर्मकत्वादेवात्र प्राप्तिरित्यर्थः । एवं चशब्दाययति सैनिकै रिपून् इति कर्म प्रयुञ्ज्ञानाः परास्ताः । ननु मासमास्ते देवदत्तः, तं प्रेरयति मासमासयति देवदत्तं यज्ञदत्त इत्यत्र देवदत्तस्य प्रयोज्यकर्तुः कर्मत्वं न स्यात् । आसधातोर्गत्यादिष्वनन्तर्भावात् । नचाकर्मकत्वात्तदन्तर्भाव इति वाच्यम्,अकर्मकधातुभिर्येगे॑इति मासस्य कर्मतया आसेरकर्मकत्वाऽसंभवात् । किं च ओदनादिकर्मणोऽविवक्षायां देवदत्तः पचति,पाचयति देवदत्तेन यज्ञदत्त #इत्यत्र प्रयोज्यकर्तुर्देवदत्तस्य कर्मत्वं स्यात्, तदानीं पचेरकर्मकत्वेन गत्यादिष्वन्तर्भावादित्यत आह — येषामिति । इदं च प्रकृतसूत्रे भाष्यकैयटयोः स्पष्टम् । ##Padamanjari गमयति माण वकं ग्राममिति। कथमत्र ग्रामस्य कर्मत्वम्, यावता कर्तुरीप्सिततमं कर्मेत्युच्यते,न च संप्रति माणवकः कर्ता; अनेन कर्मसंज्ञकत्वात्। तत्र यथा माषेष्वश्वं बध्नातीत्यत्र वस्तुतो बक्षणेनेप्सिततमानामपि माषाणां कर्मसंज्ञा न भवति, तत्कस्य हेतोः? अश्वस्य संप्रत्यकर्तृत्वात्, तद्वदत्रापि न प्राप्नोति; मा भूण्णिच्युत्पन्ने माणवकः कर्ता, प्राक्तदुत्पतेः प्रकृत्यर्थे कर्ता भवति, तदानीमेव च ग्रामस्याभिसम्बन्धः ग्रामकर्मण्यसौ गमने प्रेष्यते - ग्रामं गच्छेति। अतो यस्यामवस्थायां ग्रामस्य कर्मत्वं न तस्यां माणवकस्य कर्मत्वम्, यस्यां च ण्यन्तावस्थायां माणवकस्य कर्मत्वं न तस्यां ग्रामस्य कर्मत्वम्; पूर्वप्रवृतत्वाद्। माषेष्वश्वमित्यत्र तु नैवं संभवति। यापयतीति।'या प्रापणे' इत्यत्र प्राप्त्या गतिर्लक्ष्यतैति यातिर्गत्यर्थः। नीवह्यएरिति। नन्वेतयोर्गतिफलं प्रापणमर्थो न गतिः,'न गतिहिंसार्थेभ्यः' इत्यत्र च भाष्यम् - न'वहिर्गत्यर्थः' इति, सत्यम्; गुणभावेनापि गतिः प्रतीयत इति मत्वा प्रतिषेध उक्तः। वहेरनियन्तृकस्येति। वक्ष्यामीति चोपक्षेपः। वाहयति बलीवर्दान्यवानित्यत्राणौ बलीवर्दाः कर्तारः, ण्यन्ते तु नियन्ता सारथिः कर्ताः, तत्र प्रतिषेधप्रतिषेधाद्विधिरेव भवति। बुध्यर्थग्रहणेन ज्ञानमात्रवाचिनामेव ग्रहणम्, न तु तद्विशेषवाचिनां स्मरत्यादीनामित्याहुः। वृतावपि तथैवोदाहृतम्। आदिखाद्योरिति। अपर आह - सर्वमेव प्रत्यवसानकार्यमदेर्न भवति, नावश्यमियमेव कर्मसंज्ञेति'निगरणचलनार्थेभ्यश्च' इति पदमपि न भवति, इदमेकमिष्यते -'क्ते' धिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यःऽ - इदमेषां जग्धमिति। भक्षेरिति। गत्यर्थादिषु प्रायेण हेतुमण्णिच एव संभवाद् हेतुमण्णिचो विधिरिति प्रतिषेधोऽपि प्रत्यासतेस्तस्यैव न्याय्य इति चुरादिणिजन्तोऽप्यण्यन्तएवेति भक्षेः प्राप्तिः। भक्षयति बलीवर्दान् सस्यमिति। क्षेत्रस्थानां यवानां भक्ष्यमाणानां हिसा भवति, तस्यामवस्थायां कैश्चिच्चैतन्याभ्युपगमात्। स्वामिनो वा हिसा द्रष्यव्या। इह कर्मशब्देन क्वचित्क्रिया गृह्यते, यथा -'कर्तरि कर्मव्यतीहारे' इति, क्वचित् साधनकर्मा -'वेः शब्दकर्मणः' इति, इह शब्दक्रियाणामिति चेत्?'ह्वयत्यादीनां प्रतिषेधः' - ह्वयति पुत्रं देवदतः, ह्वापयति पुत्रं देवदतेन; क्रन्दति पुत्रं देवदतः, क्रन्दयति पुत्रं देवदतेन; शब्दायते देवदतः, शब्दाययते देवदतेन। अकर्मकत्वादथात्र प्रसङ्गः, शब्दलक्षणकस्य कर्मणोऽन्तर्भावात् कर्मान्तरायोगाच्च।'शृणोतेश्चोपसङ्ख्यानम्' - अशब्दक्रियत्वात् शृणोति श्लोकं देवदतः, श्रावयति श्लोकं देवदतम्; न च बुध्यर्थत्वादत्र सिद्धिः, चेतत्यादयो हि ज्ञानमात्रवचना बुध्यर्थाः। अस्तु तर्हि साधनकर्मणो ग्रहणम्, शब्दकर्मण इति चेत्? जल्पतिप्रभृतीनामुपसंख्यानम्, जल्पति पुत्रं देवदतः, जल्पयति पुत्रं देवदतम्; विलपति पुत्रं देवदतः, विलापयति पुत्रं देवदतम्; आभाषते पुत्रं देवदतः आभाषयति पुत्रं देवदतम्। द्दशेः सर्वत्र, यद्यपि क्रियाग्रहणमथापि साधनग्रहणम्, अथाप्युभयग्रहणम्-सर्वथा द्दशेरुपसंख्यानम्। पश्यति रूपतर्क कार्षापणम्, दर्शयति रूपतर्क्ंअ कार्षापणम्। यदा चायंद्दशिः चक्षुः साधनके ज्ञानविशेषे वर्तते तदेतद्वक्तव्यम्; ज्ञानमात्रवचनत्वे तु बुध्यर्थत्वादेव सिद्धम्; तदेवमुभयोरपि पक्षयोर्द्दोषान्तं भाष्यं नान्यतरः पक्षो निरणायि। वृत्तिकारस्तु ये शब्दक्रियाः शब्दसाधनकर्माणश्च तानविवादसिद्धानुदाहरतिवचनेन बोधयतीत्यर्थः। एमन्यत्रापि। तत्र बुद्ध्यर्थत्वादेव सिद्धम्। यद्यप्यन्या बुद्धिरन्या बोधना, उपसर्जनीभूतापि तावद्बुद्धिरस्तीति बुद्धर्थत्वमस्त्येव, उपसर्जनीभूतोऽपि च गत्यादिरर्थो गृह्यते, अन्यथा गमयतीत्यादीनामगत्यर्थत्वादेवाप्रसङ्गादणिग्रहणमनर्थकं स्यादिति, अस्तु चेतनविषये, एवमचेतनविषये कथम्? यः कंचिज्जल्पति तमन्यो जल्पयति, न ह्यत्र प्रबोधनाप्यस्ति। अकर्मकाणामिति। कालभावाध्वगन्तव्यदेशव्यतिरिक्तकर्मरहितानामित्यर्थोऽत्र ग्राह्यः, अन्यथा मासमास्ते देवदतः, मासमासयति देवदतम्, गोदोहमासयति, क्रोशमासयति, कुरूनासयतीत्यत्र न स्यात्; कालादिकर्मणा सकर्मकत्वात्। एवं'लः कर्मणि च' इत्यादावपि यत्राकर्मकग्रहणं तत्र सर्वत्र द्रष्टव्यम्, तेन मासमास्यते देवदतेनत्यादौ भावे लादयः सिद्धा भवन्ति। उक्तञ्च - सिद्धं तु कालकर्मणाकर्मकत्वद्वचनादिति। कालग्रहणमुपलक्षणम्। वत्करणात्स्वाश्रयमपि भवति - मास आस्यते देवदतेन - मासकर्मणि लो भवति। स तर्ह्यकर्मकवचनाद् भावे वक्तव्यः? न वक्तव्यः; अकर्मकाणामित्युच्यते, न च कालादिभिः केचिदकर्मकाः। कालादिभिरप्यकर्मकाः यदा ते न विवक्ष्यन्ते, तद्यथा - शेते देवदतो न भुङ्क्ते इति। नाप्यविवक्षितकर्माणोऽकर्मकाः, किं तर्हि? येऽत्यन्ताविद्यमानकर्माणो धातवोऽकर्मकाः, नार्थाः। यस्य धातोः स्वरूपावधिकमकर्मकत्वम्, न च कालादिकर्मकाः, नार्थाः। यस्य धातोः स्वरूपावधिकमकर्मकत्वम्, न च कालादिकर्मणा स्वरूपावधिकमकर्मकत्वं कस्यापि सम्भवतीति सामर्थ्यातद्व्यतिरिक्तेन कर्मणाऽकर्मकत्वं विज्ञायते। किमर्थं पुनरिदमुच्यते, यावता स्वव्यापारे स्वतन्त्रस्यापि प्रयोज्यस्य प्रयोजकव्यापारे विवक्षिते तेन प्रधानभूतेनाप्यमानत्वाद् अन्तरङ्गत्वेन पूर्वप्रवृतामपि कर्तृ संज्ञां बाधित्वा कर्मसंज्ञा भविष्यतीति? एवं तर्हि सिद्धे सत्यारम्भो नियमार्थः-प्रयोजकव्यापारेणाप्यमानस्य यदि भवति गन्यर्थादीनामेव, नान्येषामिति। तेन पाचयत्योदनं देवदतो यज्ञदतेनेत्यत्र पूर्वं प्रवृताया एव कर्तृ संज्ञाया अवस्थानात् कर्तरि तृतिया भवति। उक्तं च - गुणक्रियायां स्वातन्त्र्यात्प्रेषणे कर्मतां गतः। नियमात् कर्मसंज्ञायाः स्वधर्मेणाभिधीयते॥ इति। कर्तुः स्वधर्मार्तृतीया। अथ कथम् - अयचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक। इति? स्वतन्त्राः कवयः। यद्वा - सुतां प्रति किञ्चिदुद्वाहविषये ग्राहयितुं बोधयितुं न शशाकेत्येवं व्याख्येयम्; तत्र बुध्यर्थत्वात् सिद्धम्॥