सगतिरपि तिङ्

8-1-68 सगतिः अपि तिङ् पदस्य पदात् अनुदात्तं सर्वम् अपादादौ क्षियायाम् पूजनात् पूजितम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सगतिरगतिरपि पूजनेभ्यः काष्ठादिभ्यः परं पूजितं तिङन्तमनुदात्तं भवति। यत् काष्ठं प॒च॒ति॒। यत् काष्ठं प्र॒प॒च॒ति॒। यद् दारुणं प॒च॒ति॒। यद् दारुणं प्र॒प॒च॒ति॒। <<तिङ्ङतिङः>> ८.१.२८ इति निघातस्य <<निपातैर्यद्यदिहन्त०>> ८.१.३० इति प्रतिषेधे प्राप्ते पुनर्विधानम्। सगतिग्रहणात् च गतिरपि निहन्यते। गतिग्रहणे चात्रोपसर्गग्रहणमिष्यते। इह न भवति — यत् काष्ठं शुक्लीक॒रोति॑। यत् काष्ठं कृष्णीक॒रोति॑॥

Siddhanta Kaumudi

Up

पूजनेभ्यः काष्ठादिभ्यस्तिङन्तं पूजितमनुदात्तम् । यत्काष्ठां प्रपचति । तिङ्ङतिङः <{SK3935}> इति निघातस्य निपातैर्यत्-<{SK3937}> इति निषेधे प्राप्ते विधिरयम् । सगतिग्रहणाच्च गतिरपि निहन्यते ।<!गतिग्रहणे उपसर्गग्रहणमिष्यते !> (वार्तिकम्) ॥ नेह । यत्काष्ठां शुक्लीकरोति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

यत्काष्ठ्ंअ पचतीति । येऽपि'मलोपश्च' इत्यनेन वाक्येन मलोपमाहुः तेऽपि तिङ्न्ते परतो नैव लोपमिच्छन्ति । सगतिग्रहणाद्रतिरपि निहन्यत इति । कथम् ? तुल्ययोगेऽत्र सहशब्दः, यत्र तुल्ययोगे सहशब्दस्तत्र द्वयोरपि कार्ययोगो भवति, तद्यथा - सपुत्रो भोज्यतामित्युक्ते पुत्रोऽपि भोज्यते अपिग्रहणं यत्र गतिर्न प्रयुज्यते तत्र केवलस्यापि तिङ्न्तस्य यथा स्यात्, गतिप्रयोगे तु द्वयोः सहैव भवति, तिङ्ग्रहणात्पूर्वो योगः सुबन्तविषय एव विज्ञायते ॥