ते प्राग्धातोः

1-4-80 ते प्राक् धातोः आ कडारात् एका सञ्ज्ञा निपाताः

Sampurna sutra

Up

index: 1.4.80 sutra: ते प्राग्धातोः


उपसर्गाः , गतिः प्राक् धातोः

Neelesh Sanskrit Brief

Up

index: 1.4.80 sutra: ते प्राग्धातोः


उपसर्गसंज्ञकाः तथा गतिसंज्ञकाः शब्दाः धातोः पूर्वम् एव भवन्ति ।

Neelesh English Brief

Up

index: 1.4.80 sutra: ते प्राग्धातोः


Words referred as उपसर्ग or गति are attached before the verb root.

Kashika

Up

index: 1.4.80 sutra: ते प्राग्धातोः


ते गत्युपसर्गसंज्ञका धातोः प्राक् प्रयोक्तव्याः। तथा चैवोदाहृताः। तेग्रहणमुपसर्गार्थम्। गतयो ह्रनन्तराः।

Siddhanta Kaumudi

Up

index: 1.4.80 sutra: ते प्राग्धातोः


ते गत्युपसर्गसंज्ञा धातोः प्रागेव प्रयोक्तव्याः ॥

Laghu Siddhanta Kaumudi

Up

index: 1.4.80 sutra: ते प्राग्धातोः


ते गत्युपसर्गसंज्ञा धातोः प्रागेव प्रयोक्तव्याः॥

Neelesh Sanskrit Detailed

Up

index: 1.4.80 sutra: ते प्राग्धातोः


उपसर्गाः क्रियायोगे 1.4.59 इत्यनेन प्रादिगणस्य शब्दाः क्रियायोगे उपसर्गसंज्ञकाः भवन्ति । तथा च, 'गति' इयं संज्ञा गतिश्च 1.4.60 इत्यतः जीविकोपनिषदावौपम्ये 1.4.79 इत यावत् दीयते । एते उपसर्गाः गतिसंज्ञकाश्च धातोः पूर्वम् एव आगच्छन्ति, धातोः मध्ये परम् वा न । यथा - वि + लिखति = विलिखति । तिरस् + करोति = तिरस्करोति ।

Balamanorama

Up

index: 1.4.80 sutra: ते प्राग्धातोः


ते प्राग्धातोः - ते प्राग्धातोः । 'ते' इत्यस्य विवरणं — गत्युपसर्गसंज्ञा इति ।उपसर्गाः क्रियायोगे॑गतिश्चे॑ति प्रकृतत्वादिति भावः । प्रागेवेति । न परतो, नापि व्यवहिता इत्यर्थ- । इहधातोः प्रागेव प्रयुज्यमाना गत्युपसर्गाः स्यु॑रिति संज्ञानियमपक्षोऽपि भाष्ये स्थितः ।

Padamanjari

Up

index: 1.4.80 sutra: ते प्राग्धातोः


नियमार्थमिदम्। स पुनर्नियमः संज्ञानियमो वा स्यात्, प्रयोग नियमो वा स्यात्? तत्र संज्ञानियमे तेशब्देन प्रादय उपनिषत्पर्थन्ताः स्वरूपेण परामृश्यन्ते, न गत्युपसर्गसंज्ञाविशिष्टेन रूपेणा; संज्ञयोरनिष्पादनात्। अनेनेकवाक्यतापन्नैः पूर्वसूत्रैस्तयोर्विधानात्। ते प्रादय उपनिषत्पर्यन्ता धातोः प्रागेव प्रयुज्यमाना गत्युपसर्गसंज्ञा भवन्तीत्यर्थः। प्रयोगनियमे तु लब्धगत्युपसर्गसंज्ञाः परामृश्यन्ते। ते गत्युपसर्गसंज्ञका धातोः प्रागेव प्रयोक्तव्या इत्यर्थः। तत्राद्ये पक्षे स्वरूपेण परामर्शः प्रादीनामिव चादीनामपि स्यात्, ततश्च निपातसंज्ञाया अपि नियमः स्यात्। अथापि गत्युपसर्गसंज्ञयोरेव नियमः, एवमप्यनर्थकं वचनम्, प्रयोग एव हि तेषामप्राङ् नेष्यते। न पुनरप्राक् प्रयुज्यमानानां संज्ञायां किञ्चिदनिष्टमापद्यते।'च्छन्दसि परे' पिऽ व्यवहिताश्चऽ इति रूपद्वयं चानर्थकम्,परव्यवहितानां संज्ञैव निषिद्धा, न तु प्रयोगः। न च तेनापि संज्ञैव विधीयते, निष्प्रयोजनत्वात्। किंच ठनुकरणं चानितिपरम्ऽ इत्यनितिपरग्रहण मनर्थकं स्यात्,'खाडिति कृत्वा निरष्ठीवत्' इत्यत्र व्यवहितस्यानुकरणस्य गतिसंज्ञैव निषिद्धा, प्रयोगस्तु केन वार्यते! प्रयोगनियमे तु धातोः प्रागेवानुकरणस्य प्रयोगः स्याद्, न त्वितिशब्देन व्यवहितस्येति अनितिपरमिति वक्तव्यम्। अतः प्रयोगनियम एवायं युक्त इति मत्वाह - ते गत्युपसर्गसंज्ञका इति। अथास्मिन्नपि पक्षे निपातानामपि तेशब्देन परामर्शः कस्मान्न भवति? व्यवहितत्वात्। कथं तर्ह्युपसर्गाणां परामर्शः, नोपसर्गास्तेन रूपेण परामृश्यन्ते, किं तर्हि? गतिरूपेण, तेषामपि गतित्वात्। अनेनैवाभिप्रायेण वृतावुपसर्गाणां पृथग् ग्रहणम्। चादयस्तु नैवमिति न ते परामृश्यन्ते। ननु यत्र लोके संकीर्णः प्रयोगः- गौर्गावीति, तत्र साधुपरिज्ञानाय शास्त्रमर्थवत्। यत्र त्वसंकीर्ण एव प्रयोगो न तत्र शास्त्रकृत्यमस्ति; न च कश्चित् प्रपचतीति प्रयोक्तव्ये पचतीति प्रेति प्रयुङ्क्ते। यद्यपि लोके प्रयोगो न द्दश्यते विपरीतः, च्छन्दसि तु परव्यवहितप्रयोगदर्शनाद् भाषायामपि तथा प्रयोगः शङ्क्येत, दर्शितश्चाद्यत्वेऽपि भाषायामेव गतेराविःशब्दस्य परव्यवहितप्रयोग ऊर्यादिसूत्रे। किं च ठुदि कूले रुजिवहोःऽ कूलमुद्वह इत्यत्र ठुदिऽ'कूल' इति द्वयोरपि सप्तमीनिर्देशादुपपदत्वात्समासे कृते ठुपसर्जनं पूर्वम्ऽ इति शास्त्रवशात्पर्यायेण पूर्वनिपातं मन्येरन् इत्युपसर्जनसंनिपाते पूर्वपरव्यवस्थार्थमिदं वक्तव्यम्। यद्येवम्,'कर्तृकर्मणोश्च भूकृञो' ः- सुखेन कटः क्रियते, सुकट्ंअकराणि वीरणानि, दुष्कट्ंअकराणि, अत्र सुदुसोः प्राग्धातोः प्रयोगः प्राप्नोति - कट्ंअ सुकराणीति। खलः खित्करणमिदानीं किमर्थं स्यात्? अनव्ययस्य हि मुमुच्यते, खित्करणसामर्थ्याद् अव्ययस्य भवतु, यदि वा'कृद्रहणे गतिकारकपूर्वस्यापि ग्रहणम्' इति सुकरशब्दे परतः कटस्य भविष्यति, कर्तव्योऽत्र यत्नः। धातुग्रहणमनर्तकम्, कुतः? प्रागित्यपेक्षायां यत्क्रियायुक्ताः प्रादयस्ततः प्रागिति विज्ञास्यते; नैवं शक्यम्, इह च कर्तुं प्रेच्छति प्रचिकीर्षतीति सन्वाच्यया इच्छया प्रशब्दस्य योग इति सन एव प्राक् प्रशब्दः प्रयुज्येत, धातुग्रहणात् तु धातोरेव चिकीर्षतेः प्राक् प्रयुज्यते। तेग्रहणमुपसर्गार्थमिति। ननु यदि गतिसंज्ञारहिताः केवलोपसर्गसंज्ञा एव प्रादयः स्युः, ततोऽसति तेग्रहणे गतीनामनन्तरत्वात एव संबध्येरन्, न तूपसर्गा इति तदर्थं तेग्रहणं कर्तव्यम्? तेऽपि तु गतिसंज्ञकाः, ततश्चानन्तराणां गतीनामपि सम्बन्धे प्रादीनामपि गतित्वादेव ग्रहणं सिद्धम्। स्यादेतत् - असति तेग्रहणे गतिसंज्ञैव केवला येषाम्, तेषामेव स्याद्; नोभयसंज्ञकानां प्रादीनामिति? न; केवलगतेरभावात्। ननु चायमस्ति ठनुकरणं चानिति परम्ऽ इति, न; तस्यापि निपातत्वात्, उच्यते; असति तेग्रहणे प्रकृतेष्वपेक्षा चेत् कतिपये संबध्येरन्; नोपसर्गपर्यन्ताः। व्याप्तिन्यायातु भूयसामपेक्षायां न प्रादिष्वेव पर्यवसाने कारणमस्तीति चादयोऽप्यपेक्ष्येरन् । तेग्रहणे तु सति गतिसंज्ञाया अनन्तरत्वातेन रूपेण परामर्शो न कतिपयानामेव भवतीति प्रादीनपि व्याप्नोति, चादआआश्च परिसंचष्टे इति तेग्रहणमुपसर्गार्थं भवति। तत्पर्यन्तानां च यथा स्यात् तेषामेव च यथा स्यादित्यर्थः। गतयो ह्यनन्तरा इति। येऽनन्तरास्त एव कतिपये गृह्यएरन्, प्रत्यासताविति भावः। व्याप्तौ तु दोषः सुज्ञानत्वान्न कण्ठोक्तः॥