8-1-70 गति गतौ पदस्य अनुदात्तं सर्वम् अपादादौ
index: 8.1.70 sutra: गतिर्गतौ
गतिः गतौ परतः अनुदात्तो भवति। अभ्युद्धरति। समुदानयति। अभिसम्पर्याहरति। गतिः इति किम्? देवदत्तः प्रपचति। गतौ इति किम्? आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः। याहि इत्येतत् प्रति क्रियायोगादाङित्येष गतिः, तस्य गतौ इत्येतस्मिन् न सति गतिः इत्यनाश्रितपरनिमित्तकमनुदात्तत्वं स्यात्।
index: 8.1.70 sutra: गतिर्गतौ
अनुदात्तः । अभ्युद्धरति । गतिः किम् । दत्तः पचति । गतौ किम् । आमन्द्रैरिन्द्र हरिभर्याहि मयूररोमभिः (आम॒न्द्रैरि॑न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः) ।
index: 8.1.70 sutra: गतिर्गतौ
अभ्युद्धरतीति । सर्वोपसर्गसाधारणी हरणक्रिया प्रतीयते, तामुद्विशिनष्टि उद्धरतीति । उदैवोर्ध्वता विशिष्टाऽवगम्यत तामभिर्विशिनष्टि अभ्यद्धरतीति । तत्र - अन्योऽन्यापेक्षया नास्ति गतित्वं यद्यपि द्वयोः । क्रियां प्रति गतित्वातु निहतोऽभिर्गतिर्गतौ ॥ समुदानयतीति । अत्र समुदोर्द्वयोरपि निघातः । अभिसम्पर्याहरतीति । अत्र त्रयाणाम् ॥ गताविति किमिति । क्रियां प्रति गतिर्भवति, क्रिया च धातुवाच्या । धातुश्च द्विविधः - सगतिः, अगतिश्च । प्रत्यया अपि धातोर्द्वये भवन्ति - कृतः, तिङ्श्च । तत्र कृदन्ते सगतावगतौ च कृत्स्वरथाथादिस्वरेषु कृतेषु शेषनिघातेन गतिर्निहन्यत एव । तिङ्न्तेऽपि केवले उदातवति तावदुतरसूत्रेण भवत्येव निघातः, अनुदातेतु नियमाश्रयणान्न भविष्यति, तिङ्न्ते यदि भवति उदातवत्येव भवति, ततश्च सगतिरेव तिङ्वशिष्यते इति प्रश्नः । आमन्द्रैरिति । ननु च क्रियायोगे गतिभवति, न चात्राङ्ः क्रियायोगोऽस्ति, मन्द्रशब्दस्याक्रियावाचित्वात् ? अत आह - याहीत्येतत्प्रतीति ।'ते प्राग्धातोः' इति प्रयोगनियमः, न संज्ञानियमः, ततश्च व्यवहितप्रयोगेऽपि गतित्वमस्त्येवेति भावः । ननु यत्क्रियायुक्ताः प्रादयस्तं प्रति गत्युपसर्गसंज्ञा भवन्ति, ततश्च याहीत्येतत्प्रति गतित्वेन मन्द्रं प्रत्यगतित्वादप्रसङ्गः, इहापि तर्हि न प्राप्नोति - अभ्युद्धरतीति, उदं प्रत्यगतित्वात् ? मा भूदुदं प्रति गतिः, समुदायं तु प्रति गतिर्भवति, उदा विशिष्टा हि क्रिया अभिना विशेष्यते । आ मन्द्रैरित्यत्रापि मन्द्रादिकरणकमिन्द्रकर्तृकं यानमाङ विशेष्यत इति समुदायं क्रियाविशेषवाचिनं प्रत्याङे गतित्वान्निघातः प्राप्नोति ? न प्राप्नोति ; पूर्वं धातुरुपसर्गेण युज्यते पश्चात्साधनेन, आयाने हि मन्द्रादेः साधनत्वं मन्द्रैर्हरिभिरायाहीति, न तु याने; ततश्च न समुदायं प्रत्याङे गतित्वमिति नास्त्येवात्र प्रसङ्गः । तत्राह - तस्येति । न हि परनिमितानुपादाने'यत्क्रियायुक्ताः प्रादयस्तं प्रति' इति गम्यते, ततश्च वस्तुतो गतित्वाश्रयो निघातः स्यादिति मन्यते । यदि पुनः'पदस्य' इत्यधिकारात्समर्थपरिभाषोपस्थानाद्येन गतेः सामर्थ्यं तं प्रति गतेरिति विज्ञायते, तदा शक्यं गतावित्यवक्तुम्, यदाह -'गतेरनुदातत्वे गतिग्रहणानरर्थक्यम्, तिङ्यवधारणाच्छन्दो' र्थमिति चेन्नागतित्वात्ऽ इति ॥