8-3-40 नमस्पुरसोः गत्योः पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः सः षः
गत्योः नमस्-पुरसोः विसर्जनीयस्य कुप्वोः सः
गतिसंज्ञकस्य नमस्-शब्दस्य पुरस्-शब्दस्य च विसर्गस्य कवर्गे पवर्गे वा परे सकारादेशः भवति ।
The विसर्ग of गतिसंज्ञक नमस् and पुरस् words is converted to सकार when followed by कवर्ग letter or a पवर्ग letter.
नमस् पुरस् इत्येतयोर्गतिसंज्ञकयोर्विसर्जनीयस्य सकारादेशो भवति कुप्वोः परतः। नमस्कर्ता। नमस्कर्तुम्। नमस्कर्तव्यम्। पुरस्कर्ता। पुरस्कर्तुम्। पुरस्कर्तव्यम्। गत्योरिति किम्? पूः, पुरौ, पुरः करोति॥
गतिसंज्ञयोरनयोर्विसर्गस्य सः कुप्वोः परयोः । नमस्करोति । साक्षात्प्रभृतित्वात्कृञो योगे विभाषा गतिसंज्ञा । तदभावे नमः करोति । पुरोऽव्ययम् <{SK768}> इति नित्यं गतिसंज्ञा । पुरस्करोति । अगतित्वान्नेह । पूः पुरौ पुरः प्रवेष्टव्याः॥
किम् नाम गति? <<गतिश्च>> 1.4.60 अनेन सूत्रेण 'गति'संज्ञा विधीयते । नमस् , तथा पुरस् - एतौ द्वौ अव्ययौ । नमस्-शब्दः 'साक्षात्' नाम्नि गणे समाविश्यते, अतः कृ-धातोः रूपेषु परेषु अस्य शब्दस्य <<साक्षात्प्रभृतीनि च>> 1.4.74 इत्यनेन विकल्पेन गतिसंज्ञा भवति । 'पुरस्' अव्ययस्य <<पुरोऽव्ययम्>> 1.4.67 इत्यनेन तु नित्यम् गतिसंज्ञा भवति । एतयोः द्वयोः गतिसंज्ञकयोः शब्दयोः सकारस्य विसर्गे कृते तस्मात् विसर्गात् परः यदि कवर्गस्य पवर्गस्य वा वर्णः आगच्छति, तर्हि तस्य <<कुप्वोः ≍क ≍पौ च>> 8.3.37 इत्यस्य अपवादरूपेण अस्य विसर्गस्य सकारादेशः भवति । यथा - 1) 'नमस् + करोति' इति स्थिते → नमरुँ करोति [<<ससजुषो रुँः>> 8.2.66 इति रुँत्वम्] → नमः करोति [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] → नमस्करोति [<<साक्षात्प्रभृतीनि च>> 1.4.74 इत्यनेन 'नमस्' इत्यस्य विकल्पेन गतिसंज्ञायां सत्याम् <<नमस्पुरसोर्गत्योः>> 8.3.40 इति विसर्गस्य सकारः।] यदि नमस्-इत्यस्य गतिसंज्ञा न भवति, तर्हि <<कुप्वोः ≍क ≍पौ च>> 8.3.37 इत्यनेन जिह्वामूलीय-विसर्गौ कृत्वा नमःकरोति, नम≍करोतीति रूपद्वयं सिद्ध्यति । 2) 'पुरस् + करोति' इति स्थिते - → पुरुँ करोति [<<ससजुषो रुँः>> 8.2.66 इति रुँत्वम्] → पुरः करोति [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] → पुरस्करोति [<<पुरोऽव्ययम्>> 1.4.67 इत्यनेन पुरस्-इत्यस्य नित्यम् गतिसंज्ञायाम् प्राप्तायाम् <<नमस्पुरसोर्गत्योः>> 8.3.40 इति विसर्गस्य सकारः।] ज्ञातव्यम् - 1. वर्तमानसूत्रम् <<कुप्वोः ≍क ≍पौ च>> 8.3.37 इत्यस्य अपवादरूपेण आगच्छति । 2. <<साक्षात्प्रभृतीनि च>> 1.4.74 इत्यनेन 'नमस्' इत्यस्य गतिसंज्ञा विकल्पेन भवति । परन्तु गतिसंज्ञा भवति चेत् वर्तमानसूत्रेण सकारादेशः भवत्येव । तत्र विकल्पः नास्ति । 3. 'पुर्' (= नगरी) इत्यस्य रेफान्तशब्दस्य प्रथमाबहुवचनमपि 'पुरः' इत्येव भवति । परन्तु एतत् अव्ययम् न, अतः अस्य गतिसंज्ञा न भवति । अतः वर्तमानसूत्रेण अस्य शब्दस्य विसर्गस्य ग्रहणं न क्रियते । यथा - पुरः प्रवेष्टव्याः → पुरःप्रवेष्टव्याः, पुर≍प्रवेष्टव्याः । अत्र <<कुप्वोः ≍क ≍पौ च>> 8.3.37 इत्यनेन उपध्मानीय-विसर्गौ भवतः ।
अतः प्रभृति ठपदादौऽ इति निवृतम् । नमः शब्दस्य तु'पुरो' व्ययम्ऽ इति । पुरः पश्येति ।'पृ पालनपूरणयोः' ,'भ्राजभास' इत्यादिना क्विप्, तदन्ताच्छस् । अस्य तदन्ततां दर्शयितुम् -पूः पुरावित्यनयोरुपन्यासः ॥